भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 22, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 22

८ शिवदृष्टिः [ आ०-१ विभागे यथा शक्तिपञ्चकस्थितिस्तथा वक्तव्यं, तत्क्रमेणाह-- यदा$^१$ तु तस्य चिद्धर्मविभवामोदजृम्भया ॥ ७ ॥ विचित्ररचनानानाकार्यसृष्टिप्रवर्तने$^२$ । भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा त्रुटिः ॥ ८ ॥ चिद्रूपस्य शिवभट्टारकस्य धर्मः स्वभावो यो विभवः पञ्चविधकृत्य- निर्वृत्तियोग्यता, तस्यामोदश्चमत्कारस्तथास्वरूपपरामर्गरूपस्तस्य जृम्भा विश्वात्मतया विकसनम् । यदुक्तं मया स्तोत्रे-- 'स्फारयस्यखिलमात्मना स्फुरन् विश्वमामृशसि रूपमामृशन् । यत्स्वयं निजरसेन घूर्णसे तत्तमुल्लसति भावमण्डलम् ॥' ( उ० स्तो. १३ स्तो. १५ ) इति । घूर्णनं जृम्भोक्ता, तया जृम्भया हेतुभूतया स्थितस्वरूपस्यैव मायीया- भेदाख्यातिवैचित्र्यरचनोपलक्षिता तत्स्वभावा या नानाकार्यसृष्टिः, तत्प्रवर्तने यदोन्मुखिता उन्मुखवदाचरिता वस्तुतो द्वितीयाभावात् नैरपेक्ष्ये- णान्तर्मुखित्वात् चित्ता चैतन्यमेव, तदा सा त्रुटिः सूक्ष्मकालपरिच्छिन्न इच्छाप्रथमभागः । अत्र$^३$ चैतावच्छक्तिकलापो व्यवहर्तॄणां परमार्थपद्मारु- १ इत्थं शुद्धबोधस्वरूपात्मनि शिवतत्त्वे शक्तिपञ्चकमैक्यापादनाय समर्थितं, तत्प्रसङ्गेन चापरावस्थायामपि तस्य तादृग्रूपताप्रतिपत्तिदार्ढ्यार्थं पुनरपि समर्थितमिति सिद्धं परशिवापरनरावस्थायां शक्तिपञ्चकसाम- रस्यात्मकं पूर्णमेवानन्दमयं चित्स्वरूपमास्त इति । तत्र या पुनः परापरा स्पन्दात्मिका शक्तिलक्षणावस्था, तत्रापीच्छादिपञ्चकसंभवं साधयति यदा त्वित्यादिना । २ अयमेव ह्यस्यान्यवादिन्यो विशेषः-- 'सर्गसंहृतिकर्त्तारं प्रलयस्थितिकारकम् । अनुग्रहकरं देवं वन्देऽहं भक्तवत्सलम् ॥' इति । ३ 'सक्रमत्वं हि लौकिक्याः क्रियायाः कालशक्तिः । घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥' ( ई० प्र० २।१।२ ) इति नीत्या यथा प्रभोः सक्रमत्वमसंभाव्यं, तथा तच्छक्त्या अपि स्वातन्त्र्ये-