शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 23, कुल 188 में से
संदर्भ में पढ़ेंआ०-१ ] उत्पलदेवकृतवृत्त्योपेता ६ रुक्षतां संभाव्यत इत्येवं निर्दिश्यते, न तु मायातत्त्वादूर्ध्वं कालविभाग- संस्पर्शः । अथवा मायोर्ध्वेऽपि परापररूपत्वादवस्थाविशेषस्य कालविभागो- ऽपि¹ स्यादित्यत एव त्रुटिरित्युक्तम् । सर्वं चैतत्प्रत्यभिज्ञायामुक्तम् ॥७-८॥ सा च दृश्या² हृद्देशे कार्यस्मरणकालतः । प्रहर्षवेदसमये³ दरसंदर्शनक्षणे⁴ ॥ ९ ॥ अनालोचनतो⁵ दृष्टे विसर्गप्रसरास्पदे । विसर्गोक्तिप्रसङ्गे च वाचने धावने तथा ॥ १० ॥ एतेष्वेव प्रसङ्गेषु सर्वशक्तिविलोलता⁶ । सा च सूक्ष्मोन्मुख्यशक्तिरूपा लक्ष्या हृत्प्रदेशे पूर्वचिकीर्षितविस्मृत- कार्यस्मरणे, तथा प्रहर्षहेतुपुत्रजन्माद्यावेदनकाले, दरस्य भयस्य संदर्शन- प्रारम्भक्षणे, अनालोचनतः सहसैवेष्टे दृष्टे, चरमधातुविसर्गस्थाने, तथा च्छारूपाया इत्याशङ्क्याह अत्र चेत्यादि । कालयोगाद्धि तस्या अनित्यतापि भवेदित्यर्थः । अथवा पक्षान्तरेण तां युक्त्याङ्गीकरोति 'मायोर्ध्वं' इति, तेन परापरतयेदन्तोन्मेषे तत्रावश्यं सूक्ष्मकालशक्तिरस्त्येवेति भावः । १ अपिशब्देन विद्युदाभासवदस्यावस्थानं द्योतयति । २ दृश्या स्फुटं लक्षणीया । ३ प्रियतमपुत्रमृतोत्थितिवार्ताश्रवणकाले । ४ भयारम्भ- प्रथमक्षणे । ५ अश्रुतपूर्वाश्चर्यवस्तुनोऽकस्माद्दर्शने । ६ एवं वा निर्मातृता- मयी अभ्युपगमलक्षणा प्रमातृता सैवेच्छा । सा च सहृदयानां स्वसंवेदन- सिद्धत्वादपह्नुतस्वभावैव स्थिता—यथा गच्छामीत्यादौ सामान्यरूपत्वेन यद्गन्तव्यादिकं ग्राह्यं शरीरेन्द्रियप्राणबुद्ध्यादि, विशेषानुल्लेखेन च यत् ग्राहकं, तदन्योन्याभासासामान्यलक्षणं पश्यन्तीशब्दवाच्यमिच्छालक्षणं प्रसरं विविच्य, तत्प्रत्यभिज्ञोपायं प्रबुद्धान्प्रति विषयाभिव्यक्तिपूर्वमाह सा चेत्यादि । एतच्च— 'अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन् वा यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥' ( १।२२ ) इत्यादिना स्पन्दे संगृहीतम् । तथा— 'कामक्रोधैलोभमोहमदमात्सर्यगोचरे बुद्धिं निस्तिमिरां कृत्वा तत्सत्त्वमवशिष्यते ॥ ( वि० भै० १०१ )