शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 29, कुल 188 में से
संदर्भ में पढ़ेंआ०-१ ] उत्पलदेवकृतवृत्त्योपेता १५ इच्छाज्ञानक्रियात्मता तावत्सिद्धा१ घटादिकरणकाले । औन्मुख्य- मपि इच्छापूर्वभागोऽस्ति कर्मावच्छिन्नविशिष्टनिर्वृत्तिरूपः । अन्याप्य- नवच्छिन्नानन्दरूपा निर्वृत्तिरनिवृत्ता, तदभावे विशेषनिर्वृत्तेरभावात्२ तथा बोधाभावे विशिष्टघटादिबोधस्य३ । अत एव निर्वृत्तिविशिष्टरूपता- प्राप्तिरिति प्राप्तिग्रहणं पूर्वं४ कृतम् । यदि वा निर्वृत्तिशब्देन पूर्णचिच्छक्ति- रुपात्ता शक्तिपञ्चकाय ॥ २२ ॥ एकशक्त्यभावेऽपि कार्योत्पत्तिर्न स्यादित्याह-- यदेकतरनिर्याणे५ कार्यं जातु न जायते । तस्मात्सर्वपदार्थानां सामरस्यमवस्थितम्६ ॥ २३ ॥ यस्मादेकतरस्य शक्तिभेदस्य निर्याणे अपाये कार्यं न कदाचित् स्यादित्युकतं, तस्मात् सर्वपदार्थानामुत्पत्तिक्राले सर्वतत्त्वमयशिवतत्त्वो- पयोग इति न कदाचनापि शिवरूपसंस्पर्शविरहिता, महासर्गप्रारम्भ इव भावानामेकैकस्य निर्याणेऽपि परमेश्वरस्पर्शोऽखण्डित एवेति सामरस्यम् । कुम्भकारस्यापि घटकरणे सर्वशक्तिशिवात्मता, तद- परिज्ञानात्तु कुम्भकारतेत्यर्थः । एकतरेति तरप्पाठः औन्मुख्यनिर्वृत्ति- द्वित्वापेक्षया ॥ २३ ॥ न केवलं घटादिकरणकाले सर्वशक्तिसंभवः, यावत् ग्रहण- कालेऽपीत्याह-- घटादिग्रहकालेऽपि घटं जानाति सा क्रिया । जानाति ज्ञानमत्रैव निरिच्छोर्वेदनक्षतिः ॥ २४ ॥ औन्मुख्याभावतस्तस्य निवृत्तिर्निर्वृतिं विना । द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितम् ॥ २५ ॥ घटादिज्ञानकाले यत् घटं जानाति--चिदभेदाख्यातिवैचित्र्य- भिन्नघटदेवदत्तात्मकवेद्यवेदकाभासनं नाम यत् क्रमिकपूर्वं रूपं सा ज्ञान- १ नात्र व्यभिचारः । २ औन्मुख्यरूपायाः । ३ अभावः । ४ तत्कर्म- निर्वृत्तिप्राप्तिरित्यत्र । ५ निर्याणेऽपगतौ । ६ सर्वपदार्थानामुत्पत्तौ शक्ति- मदात्मकं स्थितमेव ।