भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 30, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 30

१६ शिवदृष्टिः [ आ०-१ लक्षणा क्रिया पूर्वापरीभूतावयवा, न तु जानामीति¹ वचनप्रवृत्तिकाल एव । जानातिरूपत्वाज्ज्ञानमत्रैव क्रियात्मनि स्थितम् । निरिच्छोर- वधानरहितस्य वेदनं न भवेत् मनसानधिष्ठानात् । अवधानवद्दर्शनमेव इच्छा । तत्र च इच्छाक्रियापूर्वभाग औन्मुख्यं तत्कर्मनिवृत्तिः । तदौ- न्मुख्याभावतस्तस्य प्रमातुर्वेदनस्य वा निवृत्तिः नहि औन्मुख्यरूपां तत्कर्मनिवृत्तिं विना द्वेष्ये प्रवर्तते । न च चित्तमभेदप्रत्यवमर्शशक्तिरूपां विना पूर्णशुद्धबोधात्मा कर्ता वेत्ति घटादीन् संविन्निष्ठत्वा- द्विषयव्यवस्थितीनाम् । सैव चिच्छक्तिः सामान्या निवृत्तिशक्त्यरा- नन्दरूपा ॥ २४-२५ ॥ ज्ञानकाले शिवत्वाभावमाशङ्कमान आह— बुद्धिं² विना कथं बोधः सा³ बुद्धिः प्रकृतेः प्रजा । न च⁴ तस्य तया योग इति चेदपरस्थितौ⁵ ॥ २६ ॥ सा बुद्धियंतं पुनः सूक्ष्मं⁶ सर्वदिक्कं व्यवस्थितम्⁷ । ज्ञानं बोधमयं तस्य शिवस्य सहजं सदा⁸ ॥ २७ ॥ १ जानामीत्यविच्छिन्नाभासः, जानातीति तु विच्छिन्नाभासः । २ नन्वत्यल्पमिदमुच्यते यज्जानातीत्यपरज्ञानकालेऽभेदाख्यातावपि वेद्यवेदकक्षोभे सर्वशक्तिसंपूर्णपूर्णानन्दविश्रान्तशिवतत्त्वोपयोग इति यावता घटादिग्रहकाल इति ज्ञानमत्रैवेत्युक्तं, तथा च सति कोऽयं घटादिग्रहकालो नामेति । तथा यदि तत्रापि शुद्धमेव ज्ञानं, तर्हि कृतं विषयव्यवस्थाकल्पितेन बुद्ध्यादिना । यदि च तत्राप्यस्त्येव तत्तत्त्वोपयोगः, तर्हि कथं तस्य नैर्मल्येन संभव इति परव्यामोहदलनायाह बुद्धिमित्यादि । यदत्र केचनात्यल्पदृशो विप्रतिपन्नाः—तस्मिन्नपि शुद्धबोधे स्वप्रकाशे यदि स्वात्मोच्छलत्तात्मकं ज्ञानमङ्गीकृतमनुभूयते, तत्बुद्धिव्यापारात्मकत्वात् सर्वथा बुद्धिविलासास्त- मयस्यैव स्वरूपप्राप्तिलक्षणत्वाद्विकल्पनमेव । यत्तु सर्वथा तदभाव एव, स एव सत्यस्वरूपप्राप्त्या परमार्थमोक्ष इति तद्व्यामोहेन मा व्यामुह्येयुरित्या- पूर्वमहानुग्रहपरः श्रीमानाचार्यो बुद्धिं विनेत्यादि । ३ कुत इत्यत्र हेतुमाह सेति । ४ तथापि किमित्यतो न चेति । ५ भेदग्रह एव । ६ सूक्ष्मं बुद्धि- ज्ञानाद्यविषयं तत्र बुद्धिज्ञानात्मनो भेदस्य विगलनात् । ७ व्यवस्थितमित्यनेन विशिष्टस्य प्रमातुः कादाचित्कत्वं ध्वनितम् । ८ अपरपरापरंपरासु ।

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक) · पृष्ठ 30, कुल 188 में से · BharatKosha