शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 31, कुल 188 में से
संदर्भ में पढ़ेंआ०-१ ] शिवदृष्टिः १७ न्यायादिभिर्न १ तुल्यत्वं तैर्हि या प्राकृती मतिः । तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥ २८ ॥ एष २ एव हि विज्ञेयो न्याय इच्छां प्रति स्फुटम् । ननु जानातीति ज्ञानं बोधो बुद्धिवृत्तिः ३ कथं वृत्तिमर्तो ४ बुद्धिं विना स्यात् । बुद्धिश्च प्रकृतेः प्रजाता जडा । न च ५ तया तस्य सर्वशक्तेः शिवतत्त्वस्य निर्मलस्य संबन्ध इत्येवं चेत्, तन्न । अपरावस्थायामभेदा- ख्यातावेकरसायां पुर्यष्टकप्रमातृणां सा बुद्धिः । यत्पुनः पूर्णतायां परा- वस्थस्य अत एव सूक्ष्ममभिन्नं वेद्यतामनुपयानमत एव सर्वदिक्कं ६ दिक्का- लाखण्डितं ज्ञानं बोधमात्रमबोध्यरूपं ७, तत्तस्य शिवस्य सहजं ८ सदा ९ प्राकृतबुद्ध्युल्लासेऽपि तत्सद्भावात् तद्विना १० तदभावात् । ननु एवमपि न्यायवैशेषिकादिसाम्यमायाति ज्ञानस्य शिवाश्रितत्वोप- गमे, ज्ञानं हि तेषामात्मसमवेतमिष्टं ११ शिवश्चात्मरूप इत्युक्तं १ लब्धावकाशं वितण्डावादिनं प्रतिवादिनं प्रत्याह न्यायादि- भिरिति । २ इच्छां मनोधर्म इति वैशेषिकमतमाशङ्क्याह एष इति । ३ अविगलितस्वरूपसतत्त्वस्यैव भावस्य धर्मकल्परूपान्तरच्छायाधारणं घटस्येवोदकाहरणं चैत्रस्येव गमनं वृत्तिरुच्यते । तथा तद्वृत्तिभेदान्न वृत्तिभेदो भवति तेनैव रूपेणाबाधितप्रत्यभिज्ञाविषयत्वात् । ४ तत्त्वभेदाभावात् । ५ नन्वस्तु तस्या जाड्यं, यथा तत्र विषयः प्रतिबिम्बमर्पयति, तथा पुंस्प्रकाशोऽपि समर्पयति अन्यथा विषयव्यवस्थापि तथा न सिद्धयेत् तथा च चैतन्यं, न चेति चकारेणैतत्परिहरति । ६ सर्वासु दिक्षु वर्तमानं न तु तेनावच्छिन्नं, तथा च व्यापकत्वं विघटेत, उपलक्षणमेतत् तेन सार्वकालिक- मित्यपि बोध्यं, तदाह दिक्कालेति । ७ बोधमयमत्र प्रकृत्यर्थे मयट् बोधस्वभावमित्यर्थः, तदाह बोधमात्रमिति । तदेव बोधमात्रत्वं यदन्या- विषयत्वं, तदाहाबोध्यरूपमिति । ८ सहजं स्वरूपप्रत्यवमर्शस्वभावं नान्यत् । ९ तदेव स्वाभाविकत्वं यत् तत्प्रच्युतावपि भेदावभासे न तद्धानिरित्याह सदेति । १० विशेषस्य क्षोभाकारस्य सामान्यं विनास्थितेः । ११ तेषां न्यायवादिनाम् । २