भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-१ ] शिवदृष्टिः १७ न्यायादिभिर्न १ तुल्यत्वं तैर्हि या प्राकृती मतिः । तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥ २८ ॥ एष २ एव हि विज्ञेयो न्याय इच्छां प्रति स्फुटम् । ननु जानातीति ज्ञानं बोधो बुद्धिवृत्तिः ३ कथं वृत्तिमर्तो ४ बुद्धिं विना स्यात् । बुद्धिश्च प्रकृतेः प्रजाता जडा । न च ५ तया तस्य सर्वशक्तेः शिवतत्त्वस्य निर्मलस्य संबन्ध इत्येवं चेत्, तन्न । अपरावस्थायामभेदा- ख्यातावेकरसायां पुर्यष्टकप्रमातृणां सा बुद्धिः । यत्पुनः पूर्णतायां परा- वस्थस्य अत एव सूक्ष्ममभिन्नं वेद्यतामनुपयानमत एव सर्वदिक्कं ६ दिक्का- लाखण्डितं ज्ञानं बोधमात्रमबोध्यरूपं ७, तत्तस्य शिवस्य सहजं ८ सदा ९ प्राकृतबुद्ध्युल्लासेऽपि तत्सद्भावात् तद्विना १० तदभावात् । ननु एवमपि न्यायवैशेषिकादिसाम्यमायाति ज्ञानस्य शिवाश्रितत्वोप- गमे, ज्ञानं हि तेषामात्मसमवेतमिष्टं ११ शिवश्चात्मरूप इत्युक्तं १ लब्धावकाशं वितण्डावादिनं प्रतिवादिनं प्रत्याह न्यायादि- भिरिति । २ इच्छां मनोधर्म इति वैशेषिकमतमाशङ्क्याह एष इति । ३ अविगलितस्वरूपसतत्त्वस्यैव भावस्य धर्मकल्परूपान्तरच्छायाधारणं घटस्येवोदकाहरणं चैत्रस्येव गमनं वृत्तिरुच्यते । तथा तद्वृत्तिभेदान्न वृत्तिभेदो भवति तेनैव रूपेणाबाधितप्रत्यभिज्ञाविषयत्वात् । ४ तत्त्वभेदाभावात् । ५ नन्वस्तु तस्या जाड्यं, यथा तत्र विषयः प्रतिबिम्बमर्पयति, तथा पुंस्प्रकाशोऽपि समर्पयति अन्यथा विषयव्यवस्थापि तथा न सिद्धयेत् तथा च चैतन्यं, न चेति चकारेणैतत्परिहरति । ६ सर्वासु दिक्षु वर्तमानं न तु तेनावच्छिन्नं, तथा च व्यापकत्वं विघटेत, उपलक्षणमेतत् तेन सार्वकालिक- मित्यपि बोध्यं, तदाह दिक्कालेति । ७ बोधमयमत्र प्रकृत्यर्थे मयट् बोधस्वभावमित्यर्थः, तदाह बोधमात्रमिति । तदेव बोधमात्रत्वं यदन्या- विषयत्वं, तदाहाबोध्यरूपमिति । ८ सहजं स्वरूपप्रत्यवमर्शस्वभावं नान्यत् । ९ तदेव स्वाभाविकत्वं यत् तत्प्रच्युतावपि भेदावभासे न तद्धानिरित्याह सदेति । १० विशेषस्य क्षोभाकारस्य सामान्यं विनास्थितेः । ११ तेषां न्यायवादिनाम् । २

१८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ः न्यायादिभिरिति१, तैर्न तुल्यत्वं प्राकृत्यां भेददशायां बुद्धियोगात्मनो ज्ञानस्य तथाभिधानात्, न त्वीश्वरे पररूपे ज्ञातरि, तदुक्तम् एष एव न्याय इच्छां प्रति स्फुटं ज्ञेयः । इच्छा चितेः प्रत्यगात्माश्रिता भेदमय्येव उक्ता यान्यैर्मनःसंकल्परूपा२, न तु परमेश्वरस्वभावभूता परापरा- वस्थास्थिता वा ॥ २६-२८ ॥ सर्वतत्त्वमयतया३ शिवतत्त्वावस्थानमाह-- तदेवं प्रसृतो देवः कदाचिच्छक्तिमात्रके ॥ २९ ॥ बिभर्ति रूपमिच्छात्तः कदाचिज्ज्ञानशक्तितः । सदाशिवत्वमुद्रेकात्कदाचिदैश्वरीं४ स्थितिम् ॥ ३० ॥ क्रियाशक्तिसमाभोगात्कदाचित्स्थूलवेदनात् । विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरात्मताम् ॥ ३१ ॥ १ 'न चास्य बाह्यकरणैः सिद्ध्यन्ति सकलाः क्रियाः । नहि स्मृतिसुखेच्छादौ चक्षुरादीनि साधनम् ॥' 'तेनेच्छास्मृतिसुखदुःखवेदनाना- माधारो न खलु मनो नचैन्द्रियाणि । देहोऽपि व्रजति न तत्समाश्रयत्वं तेभ्योऽन्यं पुरुषमतः प्रकल्पयामः ॥' सूत्रकारश्च--'इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' इति । २ न्यायवादिभिः । ३ सर्वतत्त्वमयतयेति, यथोक्तं 'यदिदं किञ्चिद्गर्भीकृतानन्तविचित्रभोक्तृभोग्यं विभवात्मकं भुवनजातमुक्तं तत्र यदनुगतं महाप्रकाशरूपं, तन्महासामान्यकल्पं शिवतत्त्वमिति ।' उक्तं च तन्त्रालोके- 'यान्युक्तानि पुराण्यमूनि विविधैर्भेदैर्यदेष्वन्वितं रूपं भाति परप्रकाशनिबिडं देवः स एकः शिवः । तत्स्वातन्त्र्यरसान्पुनः शिवपदादूर्ध्वे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥' ( ९।२ ) इति । ४ ज्ञानशक्तेरुद्रेकात् ।

आ०-१ ] शिवदृष्टिः १६ आत्मप्रच्छादनक्रीडां१ कुर्वतो वा कथंचन२ । मायारूपमितीत्यादि षट्त्रिंशत्तत्त्वरूपताम् ॥ ३२ ॥ बिभ्रद्विभर्ति३ रूपाणि तावता व्यवहारतः । यावत्स्थूलं जडाभासं संहृतं पार्थिवं घनम् ॥ ३३ ॥ तस्मादेवमुक्तेन क्रमेण स्वरूपानुप्रविष्टचिन्निर्वृतिरूपशक्तिद्वयः प्रकाशानन्दमयः पूर्णः परमेश्वरः शिवः प्रसृतः कदाचित् प्रथमतः४ । शक्तिमात्रक औन्मुख्ये विषयाननुष्वक्ते निर्वृतिमये इच्छापूर्वभागे परापरा- वस्थारम्भदशायां तदनुरूपं रूपं५ बिभर्ति ध्यायिनां ध्येयम् । कदाचिदि- च्छात्ः६ इच्छाशक्तिरूपत्वात् निमित्तात् । अथवा इच्छारूपमासाद्य७ तदनुरूपं पूर्ववद्रूपं८ बिभर्ति । कदाचित्पुनः ज्ञानशक्तिरूपत्वात् सदाशिव- रूपं बिभर्ति । क्रियातो ज्ञाने तु प्रागुक्तनयेनाधिक्यात्९ । ऐश्वरीं तु स्थितिं कदाचित्क्रियाशक्तेः समाभोगात् पर्यन्तप्राप्तविस्तारात् बिभर्ति । कदा- चित् परापरावस्थान्तरभिन्नशेषवेद्यवेदकरूपबोधात्मप्रमात्रवस्थया१० मन्त्रादिरूपतां बिभर्ति । एकान्तभिन्नतैव वेद्यस्य विश्वस्य स्थूलत्वम् । १ शिवादिमन्त्रमहेशान्तात्मत्वेनेदन्ताभासस्याहमात्मन्येव विश्रान्तेर्न किञ्चन स्वरूपान्यथाभाव इति द्योतयितुमात्मप्रच्छादनेत्यादि माया- रूपमित्युक्तम् । २ केनापि गणनानईेण रूपेणेत्यर्थः । ३ बिभ्रद्विभर्तीत्यनेन एतादृक्स्वरूपाभासनायामपि न तेषां स्वात्मनि किञ्चन् स्वातन्त्र्यमिति द्योतनार्थम्, अथवा शक्तिमच्छक्तिरूपतोभयविधत्वमागमेष्वेषां सूचितमेव । ४ उत्तरतत्त्वापेक्षयात्रापि क्रमः । ५ रूपमधिष्ठातृस्वरूपम् । ६ इच्छात् इति निमित्तपञ्चमी । ७ इच्छारूपमित्यर्थे ल्यब्लोपे पञ्चमी । ८ ध्यायिनां ध्येयमित्यर्थः । ९ अन्तःकरण इव वेद्यमिति नयेन । १० परापरावस्थायां सदाशिवेश्वररूपत्वेऽन्तरभेदेनैव केवलमिच्छाद्य- नुगुणविशेषविशिष्टं वेद्यवेदकरूपं बोधात्मैव भासते, तत्रैव सर्वस्मिन्प्रमात्रु- न्मीलनेन मन्त्रादिरूपता, तत्रापि चानुन्मीलितोन्मीलितन्यायेन विशेषः । ननु च किमिदमत्र स्थूलवेदनं नाम, तत्राह एकान्तभिन्नतेति । सा च प्रमात्र- भिनिवेशेनेति बोध्यम् ।

२० उत्पलदेवकृतवृत्त्योपेता [ आ०-१ प्रमातृणां च बोधात्मत्वेऽपि शिवेच्छातो१ भेदापत्तेः स्थूलत्वम्। अतो२ वेदनस्यापि स्थूलत्वम्३, इदं तु विद्यात्वम्। अन्ये चैनां विद्यां भेदो- ल्लासात् महामायामिच्छन्ति४ । कदाचिदात्म५प्रच्छादनात्मकाभेदा६- ख्यातिमयीं संसाररूपां भ्रान्तिं७ क्रीडामेव कथंचन तथास्वभावत्वात् कुर्वतो मायाशक्तिपरावस्था बीजभूता रूपमिति८ चोक्तानि तत्त्वानि आदिभूतानि येषां षट्त्रिंशत्तस्तत्त्वानां, तद्रूपतां९ सामान्येन बिभ्रत् तद्विशेष- रूपाण्यपि बिभर्ति तावता प्रसिद्धव्यवहारनिष्पत्तेः। अप्रसिद्ध१०व्यवहारा- न्तरमस्तु ईश्वरस्य कार्याणामनियमात्११, तदात्मता तु तेषामपि१२ युक्ति- युक्ता न बाधितुं शक्या। इत्येतावत् प्रतिजानीमहे१३ षट्त्रिंशत्संख्या पूर्यते यावत्१४ पार्थिवं तत्त्वम्, तदनन्तरं नोपलभ्यतेऽत्र तथा। पार्थिवं तत्त्वं स्थूलत्वात् पर्यन्तवर्ति। अनेकसहकारिसंपाद्यविशेषं कारणात्कार्यं स्थूलं

१ ननु चास्या वेद्यवेदकबोधात्मकप्रमात्रवस्थाया अविशेषात् कथं तत्रानेकप्रमातृतैतत्याह शिवेच्छात इति। २ अतः-—प्रमाणप्रमेययोरधीन- त्वात्। ३ विद्यात्वविद्येशानत्वमन्त्रमन्त्रेश्वरेश्वरत्मकम्। ४ मायायां हि भेद उल्लसितोऽत्र तु तदुल्लास एवेति। यदुक्तमागमे-- ‘मायोपरि महामाया।’ इति। तेनात्र पर्यायभेद एव न परमार्थभेद इति। ५ स्वातन्त्र्यघनस्यात्मनः प्रकर्षेणाच्छादनं तद्धानिरूपणम्। ६ अभेदस्याप्यख्यातिरात्मनोऽप्याच्छादम्। ७ भ्रान्तिम्, पुनःपुनर्लौकिकया जननमरणस्वरूपां न तु व्यतिरेकेणाभासनात् व्यतिरिक्ताम्। ८ अपरैव रूपं रूपप्रसारः। ९ कतिपयकतिपयभेदानुगतं रूपं तत्त्वम्। ननु किमेतान्येव तत्त्वानि उतापराण्यपि सन्तीत्याह तद्विशेषरूपा- णीति। १० ननु यदि अन्यान्यपि सन्ति तत्किमिति नोपदिष्टानि इत्याह तावतेति। अप्रसिद्धेति, सामान्यलोकाविषयम्। 'परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम्। जडाद्विलक्षणो बोधो यतो न परिमीयते॥’ इति नीत्यापरिच्छिन्नत्वमेव, यत्पुनः षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युक्तं तन्नियमनमव्यवस्था मा भूदिति। ११ 'अपरिच्छिन्नशक्तेः कः कुर्याच्छक्ति- परिच्छेदम्।' इति नीत्या। १२ कार्याणाम्। १३ प्रतिज्ञां कुर्महे। १४ यावच्छब्दस्यावाधारणावधिवाचकत्वादिति भावः।

आ०-१ ] शिवदृष्टिः २१ भवति व्यक्ततरत्वात् १ न तु सूक्ष्मम् । महत्तत्त्वेऽपि २ प्रधानादेः कारणस्य सौक्ष्म्यमेव ३ । तथा चिन्मयत्वात् सर्वस्य यावत्प्रकाशान्वयः । सत्त्वा- त्प्रभृति जलतत्त्वेऽपि शुक्लप्रकाशवर्णं तावत्कारणता संभाव्या । पार्थि- वेऽपि तु यावत् तदस्ति चित्रप्रकाशैक्याख्यातिमात्रात् पृथक् ४ प्रकाशा- त्मत्वेऽपि । तदुक्तम् जडाभासं ५ कार्ष्ण्यात् जडोऽप्रकाश आभासो ६ रूपमस्येति तत् । आकाशादिमहाभूतमयन्तन्मात्र ७ पञ्चक ८ व्यूहनात्मतया संहतम् ९, अनन्तरं संपर्कान्तरासंभवादन्त्यकार्यम्, अत एव बहूनां संघा- ताद्घनं स्वदेशान्तरप्रतिबन्धकम् अत्यन्तपरसंमिश्रणासहं १० परिपुष्टद्वैत- दृष्टिपर्यन्तनिविष्टम् ॥ २६-३३ ॥ अत ११ ऊर्ध्वं यानि भुवनादीनि कार्याणि, तान्येवामेव भूतानां विभवभूतानि अपरिसंख्येयानि स एव निर्मिमीत इत्याह-- तथा नानाशरीराणि १२ भुवनानि तथा तथा । विसृज्य रूपं १३ गृह्णाति प्रोत्कृष्टाधममध्यमम् १४ ॥ ३४ ॥ १ पञ्चत्रिंशत्तत्त्वकारणं हि पार्थिवं तत्त्वं, तथा च तत्तत्सहकारि- कारणोपस्कृतत्वात्कारणादपि कार्यस्य व्यक्ततरत्वात्स्थूलत्वं कार्यस्य कारणेऽन्तर्भावात् । २ सर्वानुस्यूतत्वात् । ३ अव्यक्ततरत्वात् । ४ तत् पार्थिवं तत्त्वं 'नाप्रकाशः प्रकाशते' इति न्यायेन प्रकाशात्मत्वेऽपि चित्रप्र- काशैक्याख्यातिमात्रात्पृथगेवास्ति । ५ पार्थिवं तत्त्वम् । ६ जलेऽपि शुक्ल- वर्णाभासादस्त्येव प्रकाशान्वयः, पार्थिवे कार्ष्ण्याभासान्नास्तीत्यर्थः । ७ विशेषाणां सामान्यमूलत्वात्सामान्यकारं तन्मात्रपञ्चकम् । ८ व्यूहनं विशेष- रचना । ९ संहतं निविडं मिलितम् । शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यो व्यूढेभ्यः पार्थिवं तत्त्वमिति । १० जलादिषु ह्येतानि सर्वाण्यसंभाव्यानि । तानि ह्यन्यसंपर्कसहनशक्तानि, अघनानि, स्वदेशान्तराप्रतिबन्धकानि अत्यन्तपरसंमिश्रणासहानि, अत एव न द्वैतदृष्टिपरिपोषकाणि । ११ ननु किमिदं षट्त्रिंशत्तत्त्वरूपतां बिभ्रदित्युच्यते यावदन्यदपि विभवात्मकं भुवनजातमस्त्येवेत्याशङ्कयाह अत इत्यादि । १२ भोगसाधनानि शरीराणि । भुवनानि भोग्यानि । १३ भोक्तारं देवतिर्यङ्मनुष्यरूपम् । १४ अयमत्र तात्पर्यार्थः-आदौ ह्यपूर्णम्मन्यतारूपः परिस्पन्दोऽकर्मकमभिलाष- मात्रं भविष्यदवच्छेदयोग्यतेति । ततोऽपि रागः कर्माविच्छिन्नोऽभिलाषः । कर्म तु तत्र कर्ममात्रं, ततोऽपि कर्मभेदविचित्रो बुद्धिधर्मो राग इति । तदिदं

२२ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ एवं यथा विश्वप्रपञ्चतननक्षमं तत्त्वरूपं षट्त्रिंशत्संख्यं कार्यं रूपेण बिभर्ति, तथा तैरेव तत्त्वैर्जनकसंसारिपुरुषरूपेण निर्वर्तनीयानि न तु साक्षात् विधातुर्देवादिशरीराणि¹ कार्याणि, केवलं प्रत्यभिज्ञोक्तनीत्या² परस्या- किंचित्करत्वात्³ स एव स्वकमातापितृभूतादिरूपेण देवादीन् भुवनानि च तन्निवासरूपाणि विसृज्य, प्रोत्कृष्टादिदेवमनुष्यतिर्यग्योनिरूपं⁴ गृह्णाति ॥ ३४ ॥ शरीरभुवनवासना अन्योन्यानुरूपा गृह्णाति--इत्याह-- स्थानानुरूपतो देहान्देहाकारेण भावनाः । आददत्तेन तेनैव रूपेण प्रविभाव्यते ॥ ३५ ॥ अन्योन्यानुरूप्येणैवेषां देवादीनां विलक्षणव्यवहारनिर्वृत्तिः । स च शरीरादि आददत् तेनैव मायीयेनैव रूपेण उपलक्ष्यते प्रसिद्धः ॥ ३५ ॥ स्वस्वरूपाख्यातेर्नरकादावपि स एवास्तीत्याह-- क्रीडया⁵ दुःखवेद्यानि कर्मकारीणि तत्फलैः । संभत्स्यमानानि तथा नरकार्णवगह्वरे ॥ ३६ ॥ मलोपोद्वलितं कर्म संसारवैचित्र्यभोगे निमित्तमिति तद्भोगवास नानु- विद्धानामणूनां भोगसाधनार्थं शरीराणि स एव सूयत इत्युक्तं तथा नानेत्यादि । शरीरस्य भोगसाधनार्थं तानि तान्यनेकविधानि वासनानुसारेण भुवनानि, तदनुसारेण च भोगभुक्त्यन्तं तद्रूपतापरिग्रह इत्युक्तं प्रोत्कृष्टेति । १ परमेश्वरस्य सर्वकर्तुः । २ संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव विश्वभावशरीरः परमार्थतः सर्वजनकः । कथं तर्हि मातापित्रादेस्तदभिमान इति चेत्, इदं वक्तव्यं किं शरीरेन्द्रियाणां तत्सामर्थ्यमुत तद्व्यतिरिक्त- स्यान्यस्य कस्यचित् । शरीरेन्द्रियाणि हि जडस्वरूपत्वाद्ग्रावराशिमध्य एव निक्षिप्तानि कथं तेषामुत्पत्त्यभिमानः । या पुनस्तद्व्यतिरिक्ता संविन्नाम, तस्याश्च परमेश्वरसंविदोऽनधिकत्वमिति निर्णेष्यामः । तस्माद्यदत्र केचन शरणं सामग्रीवादमभ्युपागमन्सोऽपि परमेश्वरस्यैव कर्तृतोपोद्वलक इति । ३ तत्तत्प्रमातुः कर्तुश्च । ४ 'अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यश्चैकविधः समासतो भौतिकः सर्ग ॥' इति तत्तदवान्तरभेदेऽपि त्रिविधत्वमेवेति बोधयन् । ५ उक्तमिदं यत्किंचि- देतद्भासते, तत्सर्वं परमाद्वयनयोपदेशेन परस्वभावमयमेवेति । तत्र मा

आ०-१ ] शिवदृष्टिः २३ निवासीनि शरीराणि गृह्णाति परमेश्वरः । विश्वरचनामयक्रीडास्वभावेन, दुःखरूपतया वेदयिष्यमाणानि नरके, अथवा दुःखं वेदयिष्यमाणं नरके येषु तानि मायात्मकनियतिशक्तिवशात् पापकर्मकारीणि इह शरीराणि गृह्णाति, तथा नरक एवार्णवः तत्कुक्षा- वगाधभीषणे निवासीनि सन्ति तत्कर्मफलैः संबन्धमागमिष्यन्ति । परमेश्वरो नरकेऽपि स एवास्ते, न तु तदतिरिक्तः कश्चिदस्तीत्यैक्यमेव स्थिरीकृतम् ॥ ३६ ॥ एतदेव लौकिकदृष्टान्तेनाह-- यथा नृपः सार्वभौमः प्रभावामोदभावितः ॥ ३७ ॥ क्रीडन्करोति पादातधर्मांस्तद्धर्मधर्मतः । तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा ॥ ३८ ॥ यथैश्वर्यचमत्कारवासितः सार्वभौमो राजा निरर्गलतया क्रीडया तल्लक्षणस्वभावापत्तेः पदातिसम्बन्धिचेष्टितानि आचरति, तथा परमेश्वरः पूर्णत्वात् स्वत आनन्दघूर्णितैस्तैर्भूतभेदात्मभिः प्रकारैरेवमेतत्सदृशं क्रीडति । हर्षानुसारी स्पन्दः क्रीडा ॥ ३७-३८ ॥ पूर्वोक्तशक्त्यादितत्त्वमुपसंहर्तुमाह-- इत्थं १ शिवो बोधमयः स एव परानिवृतिः २ । सैव ३ चोन्मुखतां याति सेच्छाज्ञानक्रियात्मताम् ४ ॥ ३९ ॥ सैव ५ शाक्तशरीरादिनारकान्तं ६ हि भूतता । प्रसूयते स्वचिद्रूपप्रमुखं पार्थिवान्तकम् ॥ ४० ॥ पदार्थत्वेन भगवान्सर्वत्रैव तदात्मता । कश्चिद्देवं निषिद्धाचरणेन स्वात्मानमज्ञानी नरके निमज्जयेदित्यतः क्रीड- येति । अज्ञानी हि चर्यैकायत्तभोगमोक्षोऽतस्तदुल्लङ्घनेनावश्यं नरकपात- मर्हतीति, तथा परमानन्दघनोऽपि कथं नरकादावास्त इति यत्केचन भ्रान्तास्तान्प्रत्यद्वयप्रतिपत्तिदार्थ्यार्थमाह क्रीडयेति । १ 'आत्मैव सर्वभावेषु' इति नयेन । २ निर्वृतचिदित्यादिना । ३ यदा तु तस्येत्यादिना । ४ तस्येच्छेत्यादिना । ५ कदाचित्स्थूलवेदनात् विद्यात्वे- त्यादिना । ६ क्रीडयेत्यादिना ।

२४ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ अनेनोक्तप्रकारेण शिवो भगवान् बोधमात्ररूपः पूर्णो निरपेक्षः आनन्दात्मा सदैव । तथा मायाशक्तिवशादात्माख्यातिः आनन्दातिरिक्त इव तत्त्वतामेति जगन्निर्माणेच्छाशिरूपेण स्थातुम् । तस्याः१ क्रियात्वात् तत्पूर्वभागात्मकोन्मुखतां याति । सा च क्रमेण इच्छाज्ञानक्रियात्मतां याति । एतावता निर्मातृत्वेन शाक्तशरीरप्रभृतिनारकशरीरान्तरूपं प्रसूयते२ स एव जायते । सा च भूतता भूतसर्गः । निजचिन्मात्ररूपशिवतत्त्वादिपार्थिव- तत्त्वान्तं रूपं पदार्थत्वेन तैस्तैरुच्यमानं भगवान् प्रसूयते । अतः सर्वत्रैव तदात्मता । युक्तिश्च वक्ष्यते ॥ ४० ॥ भूतसर्गे प्रमातृपञ्चकं निदर्शयन्नाह-- स्वशिवत्वमिवाजानन्पश्चात्मव्यपदेशतः ॥ ४१ ॥ तद्रूपत्वेन३ वा पश्यन्स्थितः शान्त४ इव क्वचित् । केवलेशदृढत्वेन५ क्वचित्केवलशंभुता ॥ ४२ ॥ अप्रबुद्धो६ निष्कलश्च क्वचित्प्रलयकेवली७ । आत्मबोधो विकलवत्क्वचिद्विज्ञानकेवली८ ॥ ४३ ॥ स्वशिवत्वमजानन्निव पश्चात्मव्यपदेशमासाद्य स्थितः । स्वरूपभेदा ख्यातिरेव हि मायाशक्तिकृता ग्राह्यग्राहकरूपसंसारात्मतया अवतिष्ठते । तत्र ग्राहकः पशुः पुर्यष्टकावच्छिन्नं चैतन्यम् । स एव परिमितत्वादणुः चैतन्यात्मतया नित्योऽमूर्तश्च९, विश्वात्मतात्यागेनाज्ञः, अस्वातन्त्र्यात् क्रियागुणरहितोऽनीश्वरश्च वेद्यपुर्यष्टकात्मनि भिन्न इव रागितया भोगोपायविचिन्तको, मायाकृतत्वात्१० मायोदरान्तःस्थः । स्वशिवत्वाज्ञानं १ तस्या इच्छायाः । २ स एव तादृशो जायते । ३ शुद्धशिवत्वेन । ४ ग्राह्यग्राहकक्षोभरहितः । ५ तत्तन्निर्माणचतुरस्तत्तदुपादाननिमित्तकारणा- न्युपादाय स्वतन्त्रं चतुर्दशविधभूतसृष्टिकारी क्लेशकर्मविपाकाशयैः स्वयम- परामृष्टोऽन्यांश्च तत्र योजयन् स्वकर्मानुसारेण फलदाता पुरुषविशेष ईश्वर इति । ६ स्वरूपबोधेन हि पशुत्वम्लानिः, तदभावे भिन्नग्राह्यशून्यतायामपि न पाशच्छेदः । ७ प्रलयाकलः कार्मणमलद्वयभाजनं, विज्ञानकलः स्वातन्त्र्यहानिरूपाणवमलभाजनम् । ८ स्वातन्त्र्यहान्या । ९ पशुर्नाम किल चिदचिद्रूपावभास एव। अचिद्रूपत्वं पुनर्मल- लक्षणम्, तद्रूपमप्याह अज्ञ इत्यादि । १० • अनेनास्या द्विरूपता साधिता । तथाहि तस्य च सृजतः परमेश्वरेच्छामयं, तत एव च नित्यं स्रक्ष्यमाणवस्तु-

आ०-१ ] शिवदृष्टिः २५ शिवभट्टारकस्यायुक्तं नित्यनिर्मलस्वभावत्वात् तद्विना १ मलानामेवा- नुतपत्तेस्तदधिष्ठानात्तेषाम् २ । ततस्तदज्ञानभागणुः तदैव मायाशक्तिवशात् उत्तिष्ठतीत्याणवमायामलद्वयोद्भवः ३ । कार्ममलश्च तत्प्रभवः ४ । स्वशिव- त्वमिवेति इवग्रहणं व्यपदेशग्रहणं च अज्ञानात्मकमेतत् न वस्तुतः कश्चित् ग्राह्यग्राहकभेद इति वक्तुम् । एतच्च ईश्वरप्रत्यभिज्ञायां निपुणं विवेचितम् । क्वचिन्महामायापर्यायविद्याशक्तिवशात्तद्रूपत्वेन ५ आत्मानं पश्यन् सर्वथा विश्वात्मतामनुगतः शान्त इव । अत्रापि इवशब्दो ज्ञानविशेषेण शान्तता, न तु वस्तुतः सार्वात्म्यविरह इति वक्तुम् । उत्तरत्रापीवशब्दस्तदर्थं योजनीयः । विद्याशक्तितारतम्यतश्च भेदात् क्वचिद्वैशेषिकादिमत- केवलेश्वरमात्रदृढाभिमानेन स्थितः, क्वचित् केवलशंभुसंज्ञा शिवभेदेन, क्वाप्यवस्थाभेदावस्थितविज्ञानमय एवाम्लानपशुभावः मायाख्यमलोप- स्थापितभिन्नग्राह्यशून्यः प्रलयकेवली भवति । अन्यत्र आत्मबोधी न तु पुर्यष्टकस्थः, प्रलयाकवलच्च ग्राह्यरहितः, कार्ममलास्पर्शी विज्ञान- केवलिरूपः ॥ ४३ ॥ इच्छावशेनैवमवस्थानमिति बहुतरवाद्युपेतदृष्टान्तमाह ६-- योगिनामिच्छया यद्वन्नानारूपोपपत्तित्ता । न चास्ति साधनं किंचिन्मृदादीच्छां विना प्रभोः ॥ ४४ ॥ गतस्य रूपस्य जडतयाभासयिष्यमाणत्वाज्जडं, सकलकार्यव्यापारादि- रूपत्वाच्च व्यापकं मायाख्यं तत्त्वमुपादानकारणं, तदवभासकारिणी च परमेश्वरस्य मायाशक्तिस्ततोऽन्यैवेत्याचार्य्याभिनवगुप्तपादाः । १ न च मलसम्बन्धेनेत्याह, तद्विनेति । २ परमेशेच्छामयत्वात् । ३ तदुक्तमीश्वर- प्रत्यभिज्ञायां-- 'स्वातन्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥ भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् । कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥' इति । ४ मायोद्भवः । ५ शिवत्वेन । ६ बहुतरवादीति-- 'न दृश्यते त्वत्प्रतिभासशक्तेः स्वप्नेऽर्थवैचित्र्यनिमित्तमन्यत् । तद्वदृष्टसामर्थ्यतया सदैव विश्वप्रपञ्चप्रथनेकहेतुः ॥'

२६ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ तथा भगवदिच्छैव तथात्वेन प्रजायते । योगिनामिच्छामात्रेण¹ नानागृहादिरूपाणामुपपत्तिता क्रियात्मत्व- मासाद्यते इति शेषः । न च मृत्काष्ठादि तेषां तक्षादीनामिव किंचित्साधन- मस्ति परमेश्वरेच्छातिरिक्तम् । तद्रूपतापत्त्या हि ते² निर्मिमते । तथा भगवदिच्छामात्रमेव विश्वरूपत्वं संपद्यते ॥ ४४ ॥ दृष्टमुदाहरणमाह³-- दृश्यन्तेऽत्र तदिच्छातो भावाः कामादियोगतः ॥ ४५ ॥ तत्र मिथ्यास्वरूपं चेत्स्थाप्याग्रे सत्यतेदृशाम् । कामशोकभयादियोगाच्च ते ते भावाः पुरः⁴ स्फुरन्तो दृश्यन्ते । तत्र भगवदिच्छैव⁵ कारणं तावत्यंशे भावनावशादीश्वरतावेशात् । न च तत्र चौरादयो मिथ्यारूपा भान्ति-यतोऽग्रे सत्यत्वमीदृशानामवश्यं स्थाप- नीयम् ॥ ४५ ॥ इति भट्टदिवाकरवत्सोक्तनयेन यद्यपि स्वप्नसंकल्पकामशोकादिविषयपरि- दृष्टभावाभासनिर्माणसामर्थ्यं संविद एवानुभूयते, तथापि घटादेः प्रसिद्ध- मृदादिकारणपरम्परापराकरणेन तदत्रासत्यं घटादीति केचन विप्रति- पन्नास्तान्प्रति योगिदृष्टान्तेनेच्छानिर्माणं समर्थयति । १ योगी हि पुरसेनादि- निर्माणमिच्छावशादेव करोतीति सिद्धम् । तत्र हि तदिच्छया झटिति संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घटसंपादकः समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः कपालादि- कारणकलापोऽभ्युपेयते, तत्कुलालविशेष एवायं योगीत्यायातम् । अहो तर्हि तस्य योगिनो योगित्वमिति तत्र तदुल्लङ्घनमेवेत्याह इच्छामात्रेणोपपत्तिता क्रियात्मत्वमासाद्यत इति । २ योगिनश्च शरीरप्राणाद्यारूपितमपि चैतन्यं तावन्नैर्मल्यान्निर्मातृ स्वशरीरप्राणादिसहितप्रमात्रन्तरापेक्षया बाह्यत्वेन तस्यार्थस्य चित्तत्त्वमेव सर्वत्र निर्मातृ । ३ प्रत्यक्षसिद्धम् । ४ प्रत्यक्षत एवार्थक्रियाकारित्वात् । ५ भगवदिच्छेति, चित्तत्त्वं यतः स्वात्मरूपमहमित्यनन्यापेक्षप्रकाशविमर्शं ततस्तस्य यदाभासनं, तत्तावदुपपन्नं न प्रयत्नसाध्यं तदभेदिनश्च भावराशेः प्रकाशात्मकत्वादुपपन्नमाभासनमित्यर्थः ।

आ०-१ ] शिवदृष्टि: २७ एवमेतदप्यग्रे वक्ष्यते इत्याह-- एवं सर्वेषु भावेषु यथा सा शिवरूपता ॥ ४६ ॥ नीरूपता निर्वृतिर्वा शक्तित्रितययोगिता । सच्चित्त्वं संस्थितं नित्यं कथनीयं तथाग्रतः ॥ ४७ ॥ उक्तं तावत्-- 'पदार्थत्वेन भगवान्.........।' (४१) इत्यादिना तत्त्वभूतमुखेन सर्वस्य शिवरूपत्वम् । इदानीं यथा घटपटादिष्वपि भावेषु शिवता, तद्रूपत्वाच्च १ परिमितरूपैर्नीरूपत्वं, निर्वृति:२, इच्छादि- योगिता, सच्चित्त्वमजडत्वं च सम्यगेव स्थितमुपपन्नम् ३, तथाग्रतोऽवश्यं कथनीयम् ॥ ४७ ॥ एवं स्थिते ४ यद्ब्रूवति, तदाह-- एवं सर्वपदार्थानां समैव शिवता स्थिता । परापरादिभेदोऽत्र ५ श्रद्धानैरुदाहृतः ॥ ४८ ॥ परमशिवात्प्रभृति घटाद्यन्तानामपि पदार्थानां समैवान्यूना अनति- रिक्ता च शिवता पूर्णचिद्रूपानतिरेकान्नियता ६ सर्वेषां तथा सामरस्या- सादनात् कापि स्थिति: ७ स्यादित्यर्थः । एवं च सर्वस्य शिवरूपसामरस्यात् तदख्यातिमयशुद्धयशुद्धिरूपपरापरादिभेदो भावानामुक्तः । तत्र श्रद्धा- मात्रेणोपपत्तिरहितेन जन्तूनां, न तु वस्तूनां शुद्धिरशुद्धिर्वा काचित् ॥ ४८ ॥ एवं सर्वेषां सत्यत्वमाह--


१ तत्र सर्वेषां भावानां तथा शिवता भवति, यदि तद्धर्मयोगस्तत्रापि भवति, नान्यथा,-इत्यतः सर्वं तत्समर्थकं समर्थयति तद्रूपत्वादिति । २ कर्माविच्छिन्ना औन्मुख्यरूपा । ३ युक्त्यानुभूतम् । ४ सर्वपदार्थानां सर्व- शक्तिसंपूर्णशिवत्वे स्थिते । ५ ननु यदि संपूर्णैव तेष्वपि शिवता, तत्कि- मित्यागमेषु परापरादिभेदो नियमेन कथ्यत इत्याशङ्क्याह परापरेत्यादि । ६ सर्वस्य पदार्थजातस्यावश्यंभाविनी । ७ ननु च भवतु सर्वत्र पूर्णशिव- तत्त्वोपयोगस्तथापि स्वात्मनि स्थितत्वात्कश्चमत्कारातिशय इत्यत आह स्थितिरिति । योगिनो हीदृशी यदि स्थितिस्तदा सर्वचमत्कार एवेत्यर्थः ।

२८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ एवं भेदात्मकं नित्यं शिवतत्त्वमनन्तकम् । तथा तस्य व्यवस्थानान्नानाऽरूपेऽपि सत्यता ॥ ४९ ॥ उक्तक्रमेण १ भेदात्मकं, न तु २ भावभेदपृथग्भूतम् । भेदा अपि तदात्मकाः ३, अत एव तदनन्तकं भिन्नार्थसद्भावे सति अन्तः स्यात् तद्रूपाना- क्रमणात् । एवं व्यवस्थानात्स्वभावत्वात् तस्य परमेश्वरस्य नानारूपेऽपि विश्वस्मिन् सत्यतैवेति ॥ ४६ ॥ इति श्रीशिवदृष्टौ श्रीमदुत्पलदेवप्रभुपादनिर्मितायां वृत्तौ प्रथममाह्निकम् १ रूपप्रसाररसत् इत्यादिना । २ अनेन न तेषां स्वकीयं रूपं किंचिदिति द्योतितम् । ३ ननु भेदोऽपि भाति, किं चात्र शरणमित्याह तदात्मका इति ।

अथ द्वितीयमाह्निकम् ईश्वराद्वयवाद¹ एव युक्तियुक्तो², न तु शब्दपरब्रह्माद्वयवाद इति वक्तुं, वैयाकरणोपेतशब्दाद्वैतं तावन्निराकर्तुमुपक्रममाण आह-- अथास्माकं³ ज्ञानशक्तिर्या सदाशिवरूपता । वैयाकरणसाधूनां पश्यन्ती सा परा स्थितिः ॥ १ ॥ पश्यन्ती यद्यपि⁴ नादरूपतया विश्वमामृशन्ती क्रियाशक्तिरूपतया समन्विता, तथापि पश्यन्ती इति दर्शनप्राधान्यात् उपचारिज्ज्ञानशक्ति- रूपत्वेऽप्याश्रीयमाणे⁵ परमशिवरूपताया अत्यन्तदूरवर्तिनी न तु पर्यन्त- १ तदेवमियता सर्वशासनार्थसंक्षेपार्थसूचकेन पीठिकाबन्धरूपेणो- पोद्घातपरेणानेन प्रथमाह्निकेन परमेश्वर एक एव तावत् स्वरूपप्रसारेण परापरादिरूपतया भासते, तथात्वेऽपि न खण्डितव्यपदेशव्यवहार्यः । तथाहि-परावस्थायां तावत्पूर्णानन्दस्वभाव एव, परापरायामपि रूपप्रसार- रसादेव न काचन विकल्पकलङ्ककल्पना, अपरावस्थायां पुनः प्राकृतप्रजा- यामपि च तस्य सहजप्रकाशबोधोऽस्तीत्यपि समर्थितम्। तदेतत्त्रिधात्व- मप्यन्यवादिमतेऽनुपपत्त्या समर्थितमपि शिथिलितमिव भाति । तस्मिन् हि निरसिते सर्वमिदं मेघावरणविगमेनेव स्वप्रकाशभानुकिरणवृन्दमत्यन्तस्वच्छं भासते नान्यथा, पांसुपातेन हि न मणेर्महार्घतापगच्छति, परं मलिनो भाति । तत्र प्राधान्येनेह परब्रह्माद्वयवाद एव निरसनीयः, प्रसङ्गागतस्य च शब्दब्रह्माद्वयवादस्य निरसनं तावत्तण्डुलशुद्धाविव कणनिरसनमिति तन्निरा- सनायाह न शब्दब्रह्मेत्यादि । २ अनुभवानुवर्ती सत्तर्कप्रकारो युक्तिः । ३ अथेति स्वसिद्धान्तकथनानन्तरं परप्रक्रियारम्भे । ४ ज्ञानशक्तौ हीच्छायां यद्बीजतयावस्थितं तदेव विकसितं, ततश्चात्रामर्शासंभवात् कथं ज्ञान- शक्तित्वमिहाप्युक्तं ज्ञानदर्शनयोग्यतेत्यत्र योग्यतेति, ततश्च कथमुक्तं ज्ञान- शक्तिः पश्यन्तीति मत्वाह् यद्यपीति । ५ अपिशब्दोऽत्रोपरोधेनैव ज्ञान- शक्तित्वं न तु वस्तुत इति द्योतयति ।

३० उत्पलदेवकृतवृत्त्योपेता [ आ०-२ दशासौ ज्ञानशक्तेः सदाशिवरूपत्वात् परापरव्यवस्थात्र । तेषां पुनः सा परावस्था मता । सदाशिवरूपत्वे¹ च क्रियाशक्तिरपि न परित्यक्ता । यदुक्तं-- 'ज्ञानक्रिये सादाख्यम्' इति । शक्तिशक्तिमतोरभेदात्² ज्ञानशक्तिमान् सदाशिवः, उद्रिक्तक्रिया- शक्तिरीश्वर इति । अत³ एवेच्छाशक्तिमयः शिवो यावच्चित्स्वातन्त्र्य- शक्तिमान् पर्यन्ते परमशिवः । अत्रान्तरे चौन्मुख्यनिवृत्त्यपेक्षयाधिकतत्त्व- संभवः । तदस्तु, मा वा भूत्, नैतदिह मुख्यवृत्त्या प्रतिपाद्यम्, अत एवाधिकशक्तिप्रदर्शने कृतेऽप्युक्तं 'षट्त्रिंशत्तत्त्वरूपतां बिभ्रत्' इति । शिवभेदतात्पर्यं⁴ तु न खण्ड्यत इति नियमः । मायोत्तीर्णेऽप्यध्वनि⁵ विद्योन्मेषेऽपि कार्ममलानुल्लासात् संसारासंपर्केऽपि परमेश्वरऽभेदाख्यातेः सर्वथैवाविच्छेदादागमावगतेश्वरेच्छावशोत्यपरापरदशाव्यपदेश्योक्ततत्त्वोप - गमः⁶ । वैयाकरणसाधूनामिति साधुग्रहणमेषां⁷ जाड्यख्यापनाय । परमपि हि रूपं यदि पश्यन्त्याः यदुक्तं-- 'प्रतिलब्धसमाधाना⁸ च ।' इति, 'विशुद्धा९ च ।' १ ननु यदि भवद्भिः पश्यन्त्या नादशक्तिरूपतया क्रियाशक्तिरेवाभ्यु- पगता येन यद्यपीत्याद्युक्तं, सूत्रकारेण कथं ज्ञानशक्तिः सदाशिवरूपतेति महानयं स्वकटकक्षोभः संपन्न इत्याशङ्क्याह सादाशिवरूपत्वे चेतिः ज्ञान- शक्तियोग्यता क्रियाशक्तिप्रारम्भः सदाशिवत्वमित्यर्थः । २ ननु ज्ञानशक्तिः सदाशिवतेति कोऽयं निर्देश इत्यत आह शक्तीति । ३ प्रसङ्गागतमाह अत एवेति । ४ ननु किं तर्हि अत्र प्रतिपाद्यं सर्वथा हि निःशेषतः कथिते प्रकृतं साध्यं सिद्ध्यत्यत आह शिवाभेद इति, सर्वथा हि शिवाभेदतात्पर्यमिह साध्य- मिति नियमः । तच्च, अस्तु वाधिक्यं मास्तु वा, न खण्ड्यत इत्यर्थः । ५ ननु व सर्वत्र हि मायाया उच्छेद एवाङ्गीकृतः, स च ज्ञानशक्ता- वप्यस्ति ततोऽलमनेन ज्ञानशक्तिरस्माकं तेषां परा स्थितिरिति शङ्कित्वाह मायोत्तीर्ण इति । ६ तेन नात्र परतत्त्वस्थितिरित्यर्थः । ७ यथा लौकिकेऽपि अत्यन्तमूर्खेऽपि साधुरयमिति । ८ केवलशब्दार्थरहितस्वरूपसमाहितिः । ९ ग्राह्यग्राहककल्लोलरहिता ।

आ०-२ ] शिवदृष्टिः ३१ इति, 'प्रशान्तप्रत्यवभासा १ च ।' इति, अन्यद्वा अपि अतोऽधिकतरं प्रकृष्टरूपमस्याः स्यात्; तथापि सरो २ रस इति मध्यमायामुन्मिषतः क्रमस्य कारणभूतायां तत्क्रमशक्तिरस्त्येव । यदुक्तं-- 'प्रतिसंहृतक्रमाप्यन्तः सत्यपि अभेदे समाविष्टक्रमशक्तिः पश्यन्ती ।' इति । ततो न सा पूर्णा ३ पर्यन्तदशेति कथं तस्याः परस्थितिरूपता, परब्रह्मरूपता, शब्दब्रह्मरूपता ॥ १ ॥ तथा ४ च त एवमाहुरित्याह-- इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् ५ । तदक्षरं ६ शब्दरूपं सा पश्यन्ती परा ७ हि वाक् ॥ २ ॥ यदनादि अनन्तं च परं ब्रह्म चिद्रूपं तदक्षरं निर्विकारं शब्दरूपम् । सैव च पश्यन्तीसंज्ञा परा वाक् । वाग्रूपतां ८ विना परब्रह्माख्यश्चित्प्रकाशो- ऽपि न प्रकाशेत । सा हि प्रत्यवमर्शिनी । प्रत्यवमर्शनमेव ९ च प्रकाशन- मुच्यत इत्याहुस्ते ॥ २ ॥

१ गलितबाह्यविकल्पावभासा । २ तथापीति मूलभूतत्वात्तस्या यदि तस्यां सूक्ष्मक्रमकलना न स्यात् तर्हि सरो रस इत्यत्र क्रमस्मरणे निमित्ताभावादुत्क्रमेण स्मरणं मन्तव्यं, तत्र हि एकस्मृत्यूपारूढानां वर्णानामर्थावबोधकत्वमुक्तं, तच्च सति कारणे तादृक्प्रतिभासे भवति नान्यथेत्यर्थः । ३ अन्तःसमाविष्टक्रमत्वात् । ४ ननु च पश्यन्ती तादृश्यस्तु तस्याः कथं तत्र विवादः, ततोऽन्यापि काचिदस्त्यक्रमा इत्यत आह एवमिति, पश्यन्त्या एव परब्रह्मशब्दब्रह्मरूपतेत्यर्थः । ५ अक्षयमन्तरहितम् । ६ अक्षरं- कल्पनोज्झितम् । ७ सर्वतः पूर्णत्वात्सूक्ष्मा । ८ ननु वाचः प्राणस्पन्दात्मक- त्वात्कथं शब्दरूपमेव परं ब्रह्मेत्यत आह वाग्रूपतामिति । 'वाग्रूपता चेदुत्क्रामेद्वोधस्य शाश्वती । नप्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥' इति भर्तृहरिपादाः । ९ यद्यपि परं ब्रह्म चित्प्रकाश एवाभ्युपगतस्तथा चात्र कथं शब्द- रूपता, तथात्वे हि तत्प्रकाशतैव न कथंचन सिध्यति इति कैवोक्तिर्वाग्रूपतां

३२ उत्पलदेवकृतवृत्त्योपेता [ आ०-२ स एव चात्मेत्याह-- स¹ एवात्मा सर्वदेहव्यापकत्वेन वर्तते² । अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम्³ ॥ ३ ॥ या अन्तः पश्यदवस्था⁴ भोक्तृतारूपा ज्ञेयरूपशून्यं चिद्रूपत्वं चैतन्य- मात्रं स एवात्मा कथ्यते, सर्वदेहव्यापकस्तद्भोगायतनावस्थितो⁵ भोग्यं भुङ्क्ते ॥ ३ ॥ स एव⁶ परमात्मा सर्वज्ञ इत्याह-- तावद्यावत्परा⁷ काष्ठा यावत्पश्यत्यनन्तकम् । अभ्यासप्रकर्षात्तथा काष्ठा⁸ प्राप्ता सा पश्यन्त्येव भवति, यथा अनन्तं सर्वमेव विश्वं पश्यति येन दर्शनक्रियार्थोऽस्याः पूर्यते ॥ ४ ॥ तदैवाविद्योपशमात् परमार्थोऽसावित्याह⁹-- अक्षादिवृत्तिभिर्हीनं¹⁰ देशकालादिशून्यकम् ॥ ४ ॥ सर्वतः क्रमसंहारमात्रमाकारवर्जितम्¹¹ । ब्रह्मतत्त्वं परा काष्ठा परमार्थस्तदेव¹² सः ॥ ५ ॥ विनेत्यादि । न, चिद्रूपस्य यच्चिद्रूपत्वं तदेव वाग्रूपतेति यतस्तन्मतमित्याह प्रत्यवमर्शनमेवेति । १ नन्वस्त्वेतादृल्लक्षणं शब्दब्रह्मानाद्यन्तं पूर्णं, तथापि कस्य बन्धः कस्य मोक्षः, तदर्थमेव व्यवहारप्रवृत्तिरिति तावद्भोक्तारं बन्ध- मोक्षाधिकारिणमविद्योपरागात् स्वतःस्वच्छं समर्थयति स एवेति । २ भोग्यं प्रति प्रवर्तते । ३ ज्ञेयेदन्ताविषयम् । ४ भोक्तृरूपत्वेन तस्यावस्थितिस्तेना- वस्थैव तावज्जीवता सिद्धा । ५ तस्य भोक्तुः । ६ अवस्थाया अवस्थातुर- व्यतिरिक्तत्वाद्भोग्यरूपावस्थानिवृत्तौ पुनरपि केवलमवस्थातैवावशिष्यत इत्याह । ७ अत्र परा काष्ठा इत्यावृत्तिपक्षेण योजनीयम् । तथाच यावत्परा काष्ठा प्राप्ता, तावदेवानन्तकं पश्यन्तीमयमेव सर्वं विश्वं पश्यति । यावदित्यवधारणे, ततः परा काष्ठा पश्यन्त्येव भवतीत्यर्थः । ८ भोग्य प्रवृत्तिरहिता च । ९ अविद्यालक्षणं तदवस्थारूपं भोक्तृतालक्षणं संसारिणं जीवमुपपाद्य तदनुषङ्गेण च शुद्धमपि परमात्मलक्षणं सर्वज्ञमुपपाद्य परमूपेय इत्याह परमार्थोऽसावित्यादि । १० सर्वतोऽवच्छेद- विरहात् । ११ ग्राह्यग्राहकाकारेण, नियतस्वरूपत्वस्यादिना गृहीतत्वाद् । १२ एवकारो भिन्नक्रमः स इत्यन्तरं योज्यः ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३३ तदर्थप्रकाशनव्यापार इन्द्रियाद्यालोचनाद्युपायोपयोगो नास्ति देशकालजात्यवच्छेदश्च१, अत एव सर्वतो देशात् कालाच्च यः क्रमस्तदुप- पदेशमात्रं ब्रह्मतत्त्वं क्रमस्यैव२ संसाररूपत्वात्, अतश्च सर्वग्राह्यग्राहका- कारवर्जितं, ततः परतरस्याभावात्३ पराकाष्ठा, प्राप्तं तत् स एव च परमार्थः पश्यन्तीरूपः ॥ ५ ॥ स एव च पुनरेवं भवतीत्याह-- आस्ते विज्ञानरूपत्वे स शब्दोऽर्थविवक्षया । मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ॥ ६ ॥ स एव पश्यन्तीरूपः४ शब्दोऽर्थप्रतिपादनेच्छारूपया विवक्षया उप- लक्षिते मनोविज्ञानरूपत्वे५ आस्ते६। सैव च मध्यमा वाक् कथ्यते क्रमेण७ बिन्दुनादसंज्ञप्राणापानवाय्रूल्लासात् 'प्राणापानान्तरे नित्यमेका८ सर्वस्य तिष्ठति।' इति ॥ ६ ॥ पुनरप्येवमास्त इत्याह-- संप्राप्ता वक्त्रकुहरं कण्ठादिस्थानभागशः । वैखरी कथ्यते सैव बहिर्वासनया क्रमात् ॥ ७ ॥ घटादिरूपैर्व्यावृत्ता गृह्यते चक्षुरादिना । १ देशकालादयः शून्याः अत्रेति देशकालादिशून्यकं तेषामपि तदनतिरिक्तवृत्तिकत्वादत एव वृत्तौ देशकालजात्यवच्छेदश्चेत्युक्तम् । २ क्रम एव संसारस्तेन तदात्मत्वेऽपि क्रमाभावत्तच्छून्यत्वम् । ३ अन्य- स्याधिकस्य । ४ अथेदानीमादौ पारमार्थिकं पश्यन्तीस्वरूपमुक्त्वा, तदनन्तरं जीवपरमात्मपरस्थितीर्निगमय्य, पुनस्तत्प्रसरक्रमेण व्यावहारिकिं संसार- स्थितिं प्राह येनायं ग्राह्यग्राहकाडम्बरो विवर्तमान आस्ते इति स एवेत्या- शङ्कापूर्वकम् । ५ मनोविज्ञानरूपत्व इत्यनेन पश्यन्तीरूपस्य शब्दस्य यैवार्थ- प्रतिपादनेच्छा विवक्षारूपा, तदेव मनोविज्ञानरूपत्वं, स एव पश्यन्त्याम- भेदस्थितौ सत्यामपि क्रमोल्लासः, सैवान्तःसंजल्परूपा मध्यमेति सूचितम् । ६ स्थितिं भजते । ७ तेन प्रागापानवाय्रूल्लास एव क्रमाभास इत्यर्थः । ८ पश्यन्तीरूपा सुषुम्णा । ६ 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥' ३

३४ शिवदृष्टि; आ०-२ अत्रापि बिन्दुनादमरुत्क्रमात् सा पश्यन्ती संप्राप्ता वक्रकुहरमिति योज्यम्। तदुक्तं— 'प्राणो वर्णानभिव्यज्य वर्णेष्वेव प्रलीयते।' वाक्यप० १।११६ इति। ततो वक्त्रोदरं प्राप्ता कण्ठादिस्थानभागेषु विभक्तककारादिवर्ण - रूपा वैखरी वर्ण्यते— 'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना॥' इति। परतोऽपि बाह्यार्थवासनया अविद्यारूपया क्रमेण घटपटाद्याकारै- विवृत्ता सैव वाक् चक्षुरादीनां ग्राह्यभावमापद्यते ॥ ७॥ तथा ते प्राहुरित्याह-- यस्मात्तैरुच्यते सद्भिरेव वस्तुप्रवृत्तये ॥ ८॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं१ यदक्षरम्। १ शब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वम्, तथाहि सर्व- प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते, तदुल्लेखविरहिणोऽ- नासादितप्रकाशस्वभावस्य निर्विषयत्वात्, इदमीदृशमित्यादिपरामर्शः मुषितवपुषि वेदने वेदनात्मकतैव न भवेत्, अतः शब्दोन्मेषप्रभावप्राप्त- प्रकाशस्वभावत्वात् सर्वप्रत्ययानां शब्दानुविद्धबोधकत्वमिति सर्वं शब्द- तत्त्वमिति निश्चयः। ततश्च शब्दतत्त्वमेवार्थभावेन विवर्तते, तथाहि शब्दाख्यविशेषानुवेधवन्ध्यबोधविशेषाननुभवात् सर्वं निर्विकल्पकं सवि- कल्पकं वा ज्ञानं शब्दविशिष्टमर्थं भासयति। गौः शुक्लो गच्छति,–इति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट एवार्थः परि- स्फुरतीति। शब्दाख्यविशेषानुरक्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्द- मेव दर्शयति। शब्दापरित्यागलब्धप्रकाशस्वरूपयैवानुभूत्यानुभवामीति सोऽपि विशेष्यः शब्दस्वरूप एवेति। तदेवं शब्द एवार्थोपारूढः प्रतिभा- तीति व्यवतिष्ठते। इत्थं यदुपारूढः शब्दः प्रकाशते, तस्य पृथक् प्रदर्शयि- तुमनुभवितुं चाशक्यत्वाच्छब्द एव तथा तथा प्रतिभाति–इति शब्दविवर्त एवायमर्थो नान्यः कश्चिदिति। अतश्च शब्दब्रह्मेदमेकमविद्योपाधिदर्शित- विचित्रभेदमविद्योपरमे यथावस्थितस्वरूपं प्रकाशत इति स्थितम्।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३५ विवर्ततेऽर्थभावेन १ प्रक्रिया जगतो यतः ॥ ९ ॥ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १० ॥ अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । इत्यादिवाक्यरचनैस्तैरेवं प्रतिपादितम् ॥ ११ ॥ यस्मात्तैर्वैयाकरणैः सद्भिः साधुभिर्मुग्धैरेवमुक्तरूपं प्रतिपादितं पश्यन्ती रूपं शब्दतत्त्वमक्षरमनाद्यन्तं ब्रह्म विश्वार्थभावेन विवर्तते तदसत्य- रूपमात्मन्युपगच्छति ३, असत्यविभक्तान्यरूपोपग्राहिता विवर्तस्तस्यास्तत् विवर्तते, यतो विवर्तनात् प्रक्रिया भावभूतभुवनादिविन्यासवैचित्र्यमिति । तथा न स घटपटादिप्रत्ययो लोकव्यवहारेऽस्ति, यो वाचकशब्दानुगमवर्जितः वाग्रूपतां विना न ब्रह्मतत्त्वप्रकाशोऽपि प्रकाशेत, ‘सा हि प्रत्यवमर्शिनी ।’ इति । तथैवं भूते पश्यन्तीरूपे शब्दाख्ये ४ ब्रह्मणि यो निष्णातस्तेन ५ परं ब्रह्माधि- गतं भवतीति । तथा तच्च पश्यन्तीरूपं ग्राह्यग्राहकविभागक्रमरहितम् , १ शब्दब्रह्मैवेदमनाद्यविद्यावासनोपप्लवमानभेदमर्थभावेन विवर्तते, न तु वाचकादपि विभक्तं वाच्यमपि नाम किंचिदस्ति, काल्पनिक एव वाच्यवाचकविभागोऽयमविद्यैव विद्योपाय इत्याश्रीयते, वाग्रूपता तु तत्त्वं सर्वत्र प्रत्यये तदनपायात् । २ ‘अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥ केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥’ इति । ३ अङ्गीकरोति । ४ शब्दाख्ये शब्दस्वरूपे ब्रह्मणि निष्णातोऽभ्यास- प्रकर्षात्परधारारूढस्तेन परं ब्रह्माधिगतं स्वतोऽवगतं भवति, न शब्दब्रह्म- परब्रह्मणोर्भेद इत्यर्थः । यथोक्तम् — ‘द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥’ इति । ५ कृताभ्यासः ।

३६ शिवदृष्टिः [ आ०-२ अविभागा तु पश्यन्ती देशकालक्रमसंहारवती चेति आदिग्रहणात् प्रावप्रदर्शितमध्यमावैखर्यादिवाक्यरुक्तमिति १ ॥ ११ ॥ तदिदानीं विचार्यत इत्याह-- तद्विचाराय२ राद्धान्तः३ संप्रत्येष विधीयते । वैयाकरणोक्तविचारार्थं सिद्धान्तो वक्ष्यमाणो युक्तियुक्तत्वात्४ यः, स परिनिष्ठां५ प्राप्यते ॥ तथाचेताह-- आदौ६ तावदिन्द्रियत्वे स्थिता वाक्कर्मसंज्ञिते ॥ १२ ॥ तस्यात्मता ब्रह्मता वा वक्तुं शक्या न साधुभिः । १ विखरः शरीरस्तत्र वर्तमाना । २ एवं स्वसिद्धान्तस्थापनार्थं शब्दाद्वैतब्रह्मवादितमुपन्यस्तं, तत्र तु प्रथममेव तदनुपपत्तिः सूचिता 'अथास्माकम्' इत्यादिना । अधुना तत्तादृशमपि न युक्तियुक्तमित्येतदर्थ- मारम्भः । ३ राद्धान्तः पूर्वप्रसिद्ध एव, न तु स्वबुद्धिकौशलेनापूर्वतया कल्पित इत्यर्थः । यदि च स सिद्धान्तः स्वयमेव, तर्हि तत्राक्षेप्यत्वनिराकर्तव्या- योगात्कृतमनेनेत्यत आह विधीयत इति । पूर्वसिद्ध एव वादविप्रति- पत्त्यासिद्धकल्पः तन्निरसनेन परिस्थाप्यत इत्यर्थः । ४ युक्तियुक्तत्वमेव सिद्धान्तत्वम् । ५ परिनिष्ठां पर्यन्ततः स्थितिम् । ६ इत्थमत्र संबन्धः-- तस्यात्मनो ब्रह्मणो वा आत्मतात्मनो भावः स्वभावः, तथा ब्रह्मता तत्स्व- भावो वक्तुं न शक्या । अत्र हेतुरतिस्थूलकर्मेन्द्रियरूपत्वात्तस्याः । तत्र यद्वाचस्त्रैविध्यं तैरूवतं, तदनुमत्यैकत्वमेव वैखरी रूपमाश्रित्य प्रत्याचष्टे आदौ तावदित्यादिना । तथा हि एकैव वैखरी वाक् वागिति लोके प्रसिद्धा, अन्यत्र ह्यन्ययोर्द्वयोरपि निरसनमुक्तम् । 'अन्तःसङ्कल्पो वर्ण्यते मध्यमा वाक् सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः । बुद्धिर्वाच्यं वा वाचकं वोल्लिखन्ती रूपं नात्मीयं बोधभावं जहाति ॥' तथा 'पश्यन्तीति तु निर्विकल्पकमतेर्नामान्तरं कल्पितं विज्ञानस्य हि न प्रकाशवपुषो वाग्रूपता शाश्वती ।' इति ।