शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 39, कुल 188 में से
संदर्भ में पढ़ेंआ०-१ ] शिवदृष्टिः २५ शिवभट्टारकस्यायुक्तं नित्यनिर्मलस्वभावत्वात् तद्विना १ मलानामेवा- नुतपत्तेस्तदधिष्ठानात्तेषाम् २ । ततस्तदज्ञानभागणुः तदैव मायाशक्तिवशात् उत्तिष्ठतीत्याणवमायामलद्वयोद्भवः ३ । कार्ममलश्च तत्प्रभवः ४ । स्वशिव- त्वमिवेति इवग्रहणं व्यपदेशग्रहणं च अज्ञानात्मकमेतत् न वस्तुतः कश्चित् ग्राह्यग्राहकभेद इति वक्तुम् । एतच्च ईश्वरप्रत्यभिज्ञायां निपुणं विवेचितम् । क्वचिन्महामायापर्यायविद्याशक्तिवशात्तद्रूपत्वेन ५ आत्मानं पश्यन् सर्वथा विश्वात्मतामनुगतः शान्त इव । अत्रापि इवशब्दो ज्ञानविशेषेण शान्तता, न तु वस्तुतः सार्वात्म्यविरह इति वक्तुम् । उत्तरत्रापीवशब्दस्तदर्थं योजनीयः । विद्याशक्तितारतम्यतश्च भेदात् क्वचिद्वैशेषिकादिमत- केवलेश्वरमात्रदृढाभिमानेन स्थितः, क्वचित् केवलशंभुसंज्ञा शिवभेदेन, क्वाप्यवस्थाभेदावस्थितविज्ञानमय एवाम्लानपशुभावः मायाख्यमलोप- स्थापितभिन्नग्राह्यशून्यः प्रलयकेवली भवति । अन्यत्र आत्मबोधी न तु पुर्यष्टकस्थः, प्रलयाकवलच्च ग्राह्यरहितः, कार्ममलास्पर्शी विज्ञान- केवलिरूपः ॥ ४३ ॥ इच्छावशेनैवमवस्थानमिति बहुतरवाद्युपेतदृष्टान्तमाह ६-- योगिनामिच्छया यद्वन्नानारूपोपपत्तित्ता । न चास्ति साधनं किंचिन्मृदादीच्छां विना प्रभोः ॥ ४४ ॥ गतस्य रूपस्य जडतयाभासयिष्यमाणत्वाज्जडं, सकलकार्यव्यापारादि- रूपत्वाच्च व्यापकं मायाख्यं तत्त्वमुपादानकारणं, तदवभासकारिणी च परमेश्वरस्य मायाशक्तिस्ततोऽन्यैवेत्याचार्य्याभिनवगुप्तपादाः । १ न च मलसम्बन्धेनेत्याह, तद्विनेति । २ परमेशेच्छामयत्वात् । ३ तदुक्तमीश्वर- प्रत्यभिज्ञायां-- 'स्वातन्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता । द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥ भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् । कर्तर्यबोधे कार्मं तु मायाशक्त्यैव तत्त्रयम् ॥' इति । ४ मायोद्भवः । ५ शिवत्वेन । ६ बहुतरवादीति-- 'न दृश्यते त्वत्प्रतिभासशक्तेः स्वप्नेऽर्थवैचित्र्यनिमित्तमन्यत् । तद्वदृष्टसामर्थ्यतया सदैव विश्वप्रपञ्चप्रथनेकहेतुः ॥'