शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 38, कुल 188 में से
संदर्भ में पढ़ें२४ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ अनेनोक्तप्रकारेण शिवो भगवान् बोधमात्ररूपः पूर्णो निरपेक्षः आनन्दात्मा सदैव । तथा मायाशक्तिवशादात्माख्यातिः आनन्दातिरिक्त इव तत्त्वतामेति जगन्निर्माणेच्छाशिरूपेण स्थातुम् । तस्याः१ क्रियात्वात् तत्पूर्वभागात्मकोन्मुखतां याति । सा च क्रमेण इच्छाज्ञानक्रियात्मतां याति । एतावता निर्मातृत्वेन शाक्तशरीरप्रभृतिनारकशरीरान्तरूपं प्रसूयते२ स एव जायते । सा च भूतता भूतसर्गः । निजचिन्मात्ररूपशिवतत्त्वादिपार्थिव- तत्त्वान्तं रूपं पदार्थत्वेन तैस्तैरुच्यमानं भगवान् प्रसूयते । अतः सर्वत्रैव तदात्मता । युक्तिश्च वक्ष्यते ॥ ४० ॥ भूतसर्गे प्रमातृपञ्चकं निदर्शयन्नाह-- स्वशिवत्वमिवाजानन्पश्चात्मव्यपदेशतः ॥ ४१ ॥ तद्रूपत्वेन३ वा पश्यन्स्थितः शान्त४ इव क्वचित् । केवलेशदृढत्वेन५ क्वचित्केवलशंभुता ॥ ४२ ॥ अप्रबुद्धो६ निष्कलश्च क्वचित्प्रलयकेवली७ । आत्मबोधो विकलवत्क्वचिद्विज्ञानकेवली८ ॥ ४३ ॥ स्वशिवत्वमजानन्निव पश्चात्मव्यपदेशमासाद्य स्थितः । स्वरूपभेदा ख्यातिरेव हि मायाशक्तिकृता ग्राह्यग्राहकरूपसंसारात्मतया अवतिष्ठते । तत्र ग्राहकः पशुः पुर्यष्टकावच्छिन्नं चैतन्यम् । स एव परिमितत्वादणुः चैतन्यात्मतया नित्योऽमूर्तश्च९, विश्वात्मतात्यागेनाज्ञः, अस्वातन्त्र्यात् क्रियागुणरहितोऽनीश्वरश्च वेद्यपुर्यष्टकात्मनि भिन्न इव रागितया भोगोपायविचिन्तको, मायाकृतत्वात्१० मायोदरान्तःस्थः । स्वशिवत्वाज्ञानं १ तस्या इच्छायाः । २ स एव तादृशो जायते । ३ शुद्धशिवत्वेन । ४ ग्राह्यग्राहकक्षोभरहितः । ५ तत्तन्निर्माणचतुरस्तत्तदुपादाननिमित्तकारणा- न्युपादाय स्वतन्त्रं चतुर्दशविधभूतसृष्टिकारी क्लेशकर्मविपाकाशयैः स्वयम- परामृष्टोऽन्यांश्च तत्र योजयन् स्वकर्मानुसारेण फलदाता पुरुषविशेष ईश्वर इति । ६ स्वरूपबोधेन हि पशुत्वम्लानिः, तदभावे भिन्नग्राह्यशून्यतायामपि न पाशच्छेदः । ७ प्रलयाकलः कार्मणमलद्वयभाजनं, विज्ञानकलः स्वातन्त्र्यहानिरूपाणवमलभाजनम् । ८ स्वातन्त्र्यहान्या । ९ पशुर्नाम किल चिदचिद्रूपावभास एव। अचिद्रूपत्वं पुनर्मल- लक्षणम्, तद्रूपमप्याह अज्ञ इत्यादि । १० • अनेनास्या द्विरूपता साधिता । तथाहि तस्य च सृजतः परमेश्वरेच्छामयं, तत एव च नित्यं स्रक्ष्यमाणवस्तु-