शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 37, कुल 188 में से
संदर्भ में पढ़ेंआ०-१ ] शिवदृष्टिः २३ निवासीनि शरीराणि गृह्णाति परमेश्वरः । विश्वरचनामयक्रीडास्वभावेन, दुःखरूपतया वेदयिष्यमाणानि नरके, अथवा दुःखं वेदयिष्यमाणं नरके येषु तानि मायात्मकनियतिशक्तिवशात् पापकर्मकारीणि इह शरीराणि गृह्णाति, तथा नरक एवार्णवः तत्कुक्षा- वगाधभीषणे निवासीनि सन्ति तत्कर्मफलैः संबन्धमागमिष्यन्ति । परमेश्वरो नरकेऽपि स एवास्ते, न तु तदतिरिक्तः कश्चिदस्तीत्यैक्यमेव स्थिरीकृतम् ॥ ३६ ॥ एतदेव लौकिकदृष्टान्तेनाह-- यथा नृपः सार्वभौमः प्रभावामोदभावितः ॥ ३७ ॥ क्रीडन्करोति पादातधर्मांस्तद्धर्मधर्मतः । तथा प्रभुः प्रमोदात्मा क्रीडत्येवं तथा तथा ॥ ३८ ॥ यथैश्वर्यचमत्कारवासितः सार्वभौमो राजा निरर्गलतया क्रीडया तल्लक्षणस्वभावापत्तेः पदातिसम्बन्धिचेष्टितानि आचरति, तथा परमेश्वरः पूर्णत्वात् स्वत आनन्दघूर्णितैस्तैर्भूतभेदात्मभिः प्रकारैरेवमेतत्सदृशं क्रीडति । हर्षानुसारी स्पन्दः क्रीडा ॥ ३७-३८ ॥ पूर्वोक्तशक्त्यादितत्त्वमुपसंहर्तुमाह-- इत्थं १ शिवो बोधमयः स एव परानिवृतिः २ । सैव ३ चोन्मुखतां याति सेच्छाज्ञानक्रियात्मताम् ४ ॥ ३९ ॥ सैव ५ शाक्तशरीरादिनारकान्तं ६ हि भूतता । प्रसूयते स्वचिद्रूपप्रमुखं पार्थिवान्तकम् ॥ ४० ॥ पदार्थत्वेन भगवान्सर्वत्रैव तदात्मता । कश्चिद्देवं निषिद्धाचरणेन स्वात्मानमज्ञानी नरके निमज्जयेदित्यतः क्रीड- येति । अज्ञानी हि चर्यैकायत्तभोगमोक्षोऽतस्तदुल्लङ्घनेनावश्यं नरकपात- मर्हतीति, तथा परमानन्दघनोऽपि कथं नरकादावास्त इति यत्केचन भ्रान्तास्तान्प्रत्यद्वयप्रतिपत्तिदार्थ्यार्थमाह क्रीडयेति । १ 'आत्मैव सर्वभावेषु' इति नयेन । २ निर्वृतचिदित्यादिना । ३ यदा तु तस्येत्यादिना । ४ तस्येच्छेत्यादिना । ५ कदाचित्स्थूलवेदनात् विद्यात्वे- त्यादिना । ६ क्रीडयेत्यादिना ।