भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 40, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 40

२६ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ तथा भगवदिच्छैव तथात्वेन प्रजायते । योगिनामिच्छामात्रेण¹ नानागृहादिरूपाणामुपपत्तिता क्रियात्मत्व- मासाद्यते इति शेषः । न च मृत्काष्ठादि तेषां तक्षादीनामिव किंचित्साधन- मस्ति परमेश्वरेच्छातिरिक्तम् । तद्रूपतापत्त्या हि ते² निर्मिमते । तथा भगवदिच्छामात्रमेव विश्वरूपत्वं संपद्यते ॥ ४४ ॥ दृष्टमुदाहरणमाह³-- दृश्यन्तेऽत्र तदिच्छातो भावाः कामादियोगतः ॥ ४५ ॥ तत्र मिथ्यास्वरूपं चेत्स्थाप्याग्रे सत्यतेदृशाम् । कामशोकभयादियोगाच्च ते ते भावाः पुरः⁴ स्फुरन्तो दृश्यन्ते । तत्र भगवदिच्छैव⁵ कारणं तावत्यंशे भावनावशादीश्वरतावेशात् । न च तत्र चौरादयो मिथ्यारूपा भान्ति-यतोऽग्रे सत्यत्वमीदृशानामवश्यं स्थाप- नीयम् ॥ ४५ ॥ इति भट्टदिवाकरवत्सोक्तनयेन यद्यपि स्वप्नसंकल्पकामशोकादिविषयपरि- दृष्टभावाभासनिर्माणसामर्थ्यं संविद एवानुभूयते, तथापि घटादेः प्रसिद्ध- मृदादिकारणपरम्परापराकरणेन तदत्रासत्यं घटादीति केचन विप्रति- पन्नास्तान्प्रति योगिदृष्टान्तेनेच्छानिर्माणं समर्थयति । १ योगी हि पुरसेनादि- निर्माणमिच्छावशादेव करोतीति सिद्धम् । तत्र हि तदिच्छया झटिति संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घटसंपादकः समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः कपालादि- कारणकलापोऽभ्युपेयते, तत्कुलालविशेष एवायं योगीत्यायातम् । अहो तर्हि तस्य योगिनो योगित्वमिति तत्र तदुल्लङ्घनमेवेत्याह इच्छामात्रेणोपपत्तिता क्रियात्मत्वमासाद्यत इति । २ योगिनश्च शरीरप्राणाद्यारूपितमपि चैतन्यं तावन्नैर्मल्यान्निर्मातृ स्वशरीरप्राणादिसहितप्रमात्रन्तरापेक्षया बाह्यत्वेन तस्यार्थस्य चित्तत्त्वमेव सर्वत्र निर्मातृ । ३ प्रत्यक्षसिद्धम् । ४ प्रत्यक्षत एवार्थक्रियाकारित्वात् । ५ भगवदिच्छेति, चित्तत्त्वं यतः स्वात्मरूपमहमित्यनन्यापेक्षप्रकाशविमर्शं ततस्तस्य यदाभासनं, तत्तावदुपपन्नं न प्रयत्नसाध्यं तदभेदिनश्च भावराशेः प्रकाशात्मकत्वादुपपन्नमाभासनमित्यर्थः ।

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक) · पृष्ठ 40, कुल 188 में से · BharatKosha