शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 45, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] शिवदृष्टिः ३१ इति, 'प्रशान्तप्रत्यवभासा १ च ।' इति, अन्यद्वा अपि अतोऽधिकतरं प्रकृष्टरूपमस्याः स्यात्; तथापि सरो २ रस इति मध्यमायामुन्मिषतः क्रमस्य कारणभूतायां तत्क्रमशक्तिरस्त्येव । यदुक्तं-- 'प्रतिसंहृतक्रमाप्यन्तः सत्यपि अभेदे समाविष्टक्रमशक्तिः पश्यन्ती ।' इति । ततो न सा पूर्णा ३ पर्यन्तदशेति कथं तस्याः परस्थितिरूपता, परब्रह्मरूपता, शब्दब्रह्मरूपता ॥ १ ॥ तथा ४ च त एवमाहुरित्याह-- इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् ५ । तदक्षरं ६ शब्दरूपं सा पश्यन्ती परा ७ हि वाक् ॥ २ ॥ यदनादि अनन्तं च परं ब्रह्म चिद्रूपं तदक्षरं निर्विकारं शब्दरूपम् । सैव च पश्यन्तीसंज्ञा परा वाक् । वाग्रूपतां ८ विना परब्रह्माख्यश्चित्प्रकाशो- ऽपि न प्रकाशेत । सा हि प्रत्यवमर्शिनी । प्रत्यवमर्शनमेव ९ च प्रकाशन- मुच्यत इत्याहुस्ते ॥ २ ॥
१ गलितबाह्यविकल्पावभासा । २ तथापीति मूलभूतत्वात्तस्या यदि तस्यां सूक्ष्मक्रमकलना न स्यात् तर्हि सरो रस इत्यत्र क्रमस्मरणे निमित्ताभावादुत्क्रमेण स्मरणं मन्तव्यं, तत्र हि एकस्मृत्यूपारूढानां वर्णानामर्थावबोधकत्वमुक्तं, तच्च सति कारणे तादृक्प्रतिभासे भवति नान्यथेत्यर्थः । ३ अन्तःसमाविष्टक्रमत्वात् । ४ ननु च पश्यन्ती तादृश्यस्तु तस्याः कथं तत्र विवादः, ततोऽन्यापि काचिदस्त्यक्रमा इत्यत आह एवमिति, पश्यन्त्या एव परब्रह्मशब्दब्रह्मरूपतेत्यर्थः । ५ अक्षयमन्तरहितम् । ६ अक्षरं- कल्पनोज्झितम् । ७ सर्वतः पूर्णत्वात्सूक्ष्मा । ८ ननु वाचः प्राणस्पन्दात्मक- त्वात्कथं शब्दरूपमेव परं ब्रह्मेत्यत आह वाग्रूपतामिति । 'वाग्रूपता चेदुत्क्रामेद्वोधस्य शाश्वती । नप्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥' इति भर्तृहरिपादाः । ९ यद्यपि परं ब्रह्म चित्प्रकाश एवाभ्युपगतस्तथा चात्र कथं शब्द- रूपता, तथात्वे हि तत्प्रकाशतैव न कथंचन सिध्यति इति कैवोक्तिर्वाग्रूपतां