शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
आ०-२ ] शिवदृष्टिः ३१ इति, 'प्रशान्तप्रत्यवभासा १ च ।' इति, अन्यद्वा अपि अतोऽधिकतरं प्रकृष्टरूपमस्याः स्यात्; तथापि सरो २ रस इति मध्यमायामुन्मिषतः क्रमस्य कारणभूतायां तत्क्रमशक्तिरस्त्येव । यदुक्तं-- 'प्रतिसंहृतक्रमाप्यन्तः सत्यपि अभेदे समाविष्टक्रमशक्तिः पश्यन्ती ।' इति । ततो न सा पूर्णा ३ पर्यन्तदशेति कथं तस्याः परस्थितिरूपता, परब्रह्मरूपता, शब्दब्रह्मरूपता ॥ १ ॥ तथा ४ च त एवमाहुरित्याह-- इत्याहुस्ते परं ब्रह्म यदनादि तथाक्षयम् ५ । तदक्षरं ६ शब्दरूपं सा पश्यन्ती परा ७ हि वाक् ॥ २ ॥ यदनादि अनन्तं च परं ब्रह्म चिद्रूपं तदक्षरं निर्विकारं शब्दरूपम् । सैव च पश्यन्तीसंज्ञा परा वाक् । वाग्रूपतां ८ विना परब्रह्माख्यश्चित्प्रकाशो- ऽपि न प्रकाशेत । सा हि प्रत्यवमर्शिनी । प्रत्यवमर्शनमेव ९ च प्रकाशन- मुच्यत इत्याहुस्ते ॥ २ ॥
१ गलितबाह्यविकल्पावभासा । २ तथापीति मूलभूतत्वात्तस्या यदि तस्यां सूक्ष्मक्रमकलना न स्यात् तर्हि सरो रस इत्यत्र क्रमस्मरणे निमित्ताभावादुत्क्रमेण स्मरणं मन्तव्यं, तत्र हि एकस्मृत्यूपारूढानां वर्णानामर्थावबोधकत्वमुक्तं, तच्च सति कारणे तादृक्प्रतिभासे भवति नान्यथेत्यर्थः । ३ अन्तःसमाविष्टक्रमत्वात् । ४ ननु च पश्यन्ती तादृश्यस्तु तस्याः कथं तत्र विवादः, ततोऽन्यापि काचिदस्त्यक्रमा इत्यत आह एवमिति, पश्यन्त्या एव परब्रह्मशब्दब्रह्मरूपतेत्यर्थः । ५ अक्षयमन्तरहितम् । ६ अक्षरं- कल्पनोज्झितम् । ७ सर्वतः पूर्णत्वात्सूक्ष्मा । ८ ननु वाचः प्राणस्पन्दात्मक- त्वात्कथं शब्दरूपमेव परं ब्रह्मेत्यत आह वाग्रूपतामिति । 'वाग्रूपता चेदुत्क्रामेद्वोधस्य शाश्वती । नप्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥' इति भर्तृहरिपादाः । ९ यद्यपि परं ब्रह्म चित्प्रकाश एवाभ्युपगतस्तथा चात्र कथं शब्द- रूपता, तथात्वे हि तत्प्रकाशतैव न कथंचन सिध्यति इति कैवोक्तिर्वाग्रूपतां
३२ उत्पलदेवकृतवृत्त्योपेता [ आ०-२ स एव चात्मेत्याह-- स¹ एवात्मा सर्वदेहव्यापकत्वेन वर्तते² । अन्तःपश्यदवस्थैव चिद्रूपत्वमरूपकम्³ ॥ ३ ॥ या अन्तः पश्यदवस्था⁴ भोक्तृतारूपा ज्ञेयरूपशून्यं चिद्रूपत्वं चैतन्य- मात्रं स एवात्मा कथ्यते, सर्वदेहव्यापकस्तद्भोगायतनावस्थितो⁵ भोग्यं भुङ्क्ते ॥ ३ ॥ स एव⁶ परमात्मा सर्वज्ञ इत्याह-- तावद्यावत्परा⁷ काष्ठा यावत्पश्यत्यनन्तकम् । अभ्यासप्रकर्षात्तथा काष्ठा⁸ प्राप्ता सा पश्यन्त्येव भवति, यथा अनन्तं सर्वमेव विश्वं पश्यति येन दर्शनक्रियार्थोऽस्याः पूर्यते ॥ ४ ॥ तदैवाविद्योपशमात् परमार्थोऽसावित्याह⁹-- अक्षादिवृत्तिभिर्हीनं¹⁰ देशकालादिशून्यकम् ॥ ४ ॥ सर्वतः क्रमसंहारमात्रमाकारवर्जितम्¹¹ । ब्रह्मतत्त्वं परा काष्ठा परमार्थस्तदेव¹² सः ॥ ५ ॥ विनेत्यादि । न, चिद्रूपस्य यच्चिद्रूपत्वं तदेव वाग्रूपतेति यतस्तन्मतमित्याह प्रत्यवमर्शनमेवेति । १ नन्वस्त्वेतादृल्लक्षणं शब्दब्रह्मानाद्यन्तं पूर्णं, तथापि कस्य बन्धः कस्य मोक्षः, तदर्थमेव व्यवहारप्रवृत्तिरिति तावद्भोक्तारं बन्ध- मोक्षाधिकारिणमविद्योपरागात् स्वतःस्वच्छं समर्थयति स एवेति । २ भोग्यं प्रति प्रवर्तते । ३ ज्ञेयेदन्ताविषयम् । ४ भोक्तृरूपत्वेन तस्यावस्थितिस्तेना- वस्थैव तावज्जीवता सिद्धा । ५ तस्य भोक्तुः । ६ अवस्थाया अवस्थातुर- व्यतिरिक्तत्वाद्भोग्यरूपावस्थानिवृत्तौ पुनरपि केवलमवस्थातैवावशिष्यत इत्याह । ७ अत्र परा काष्ठा इत्यावृत्तिपक्षेण योजनीयम् । तथाच यावत्परा काष्ठा प्राप्ता, तावदेवानन्तकं पश्यन्तीमयमेव सर्वं विश्वं पश्यति । यावदित्यवधारणे, ततः परा काष्ठा पश्यन्त्येव भवतीत्यर्थः । ८ भोग्य प्रवृत्तिरहिता च । ९ अविद्यालक्षणं तदवस्थारूपं भोक्तृतालक्षणं संसारिणं जीवमुपपाद्य तदनुषङ्गेण च शुद्धमपि परमात्मलक्षणं सर्वज्ञमुपपाद्य परमूपेय इत्याह परमार्थोऽसावित्यादि । १० सर्वतोऽवच्छेद- विरहात् । ११ ग्राह्यग्राहकाकारेण, नियतस्वरूपत्वस्यादिना गृहीतत्वाद् । १२ एवकारो भिन्नक्रमः स इत्यन्तरं योज्यः ।
आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३३ तदर्थप्रकाशनव्यापार इन्द्रियाद्यालोचनाद्युपायोपयोगो नास्ति देशकालजात्यवच्छेदश्च१, अत एव सर्वतो देशात् कालाच्च यः क्रमस्तदुप- पदेशमात्रं ब्रह्मतत्त्वं क्रमस्यैव२ संसाररूपत्वात्, अतश्च सर्वग्राह्यग्राहका- कारवर्जितं, ततः परतरस्याभावात्३ पराकाष्ठा, प्राप्तं तत् स एव च परमार्थः पश्यन्तीरूपः ॥ ५ ॥ स एव च पुनरेवं भवतीत्याह-- आस्ते विज्ञानरूपत्वे स शब्दोऽर्थविवक्षया । मध्यमा कथ्यते सैव बिन्दुनादमरुत्क्रमात् ॥ ६ ॥ स एव पश्यन्तीरूपः४ शब्दोऽर्थप्रतिपादनेच्छारूपया विवक्षया उप- लक्षिते मनोविज्ञानरूपत्वे५ आस्ते६। सैव च मध्यमा वाक् कथ्यते क्रमेण७ बिन्दुनादसंज्ञप्राणापानवाय्रूल्लासात् 'प्राणापानान्तरे नित्यमेका८ सर्वस्य तिष्ठति।' इति ॥ ६ ॥ पुनरप्येवमास्त इत्याह-- संप्राप्ता वक्त्रकुहरं कण्ठादिस्थानभागशः । वैखरी कथ्यते सैव बहिर्वासनया क्रमात् ॥ ७ ॥ घटादिरूपैर्व्यावृत्ता गृह्यते चक्षुरादिना । १ देशकालादयः शून्याः अत्रेति देशकालादिशून्यकं तेषामपि तदनतिरिक्तवृत्तिकत्वादत एव वृत्तौ देशकालजात्यवच्छेदश्चेत्युक्तम् । २ क्रम एव संसारस्तेन तदात्मत्वेऽपि क्रमाभावत्तच्छून्यत्वम् । ३ अन्य- स्याधिकस्य । ४ अथेदानीमादौ पारमार्थिकं पश्यन्तीस्वरूपमुक्त्वा, तदनन्तरं जीवपरमात्मपरस्थितीर्निगमय्य, पुनस्तत्प्रसरक्रमेण व्यावहारिकिं संसार- स्थितिं प्राह येनायं ग्राह्यग्राहकाडम्बरो विवर्तमान आस्ते इति स एवेत्या- शङ्कापूर्वकम् । ५ मनोविज्ञानरूपत्व इत्यनेन पश्यन्तीरूपस्य शब्दस्य यैवार्थ- प्रतिपादनेच्छा विवक्षारूपा, तदेव मनोविज्ञानरूपत्वं, स एव पश्यन्त्याम- भेदस्थितौ सत्यामपि क्रमोल्लासः, सैवान्तःसंजल्परूपा मध्यमेति सूचितम् । ६ स्थितिं भजते । ७ तेन प्रागापानवाय्रूल्लास एव क्रमाभास इत्यर्थः । ८ पश्यन्तीरूपा सुषुम्णा । ६ 'अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥' ३
३४ शिवदृष्टि; आ०-२ अत्रापि बिन्दुनादमरुत्क्रमात् सा पश्यन्ती संप्राप्ता वक्रकुहरमिति योज्यम्। तदुक्तं— 'प्राणो वर्णानभिव्यज्य वर्णेष्वेव प्रलीयते।' वाक्यप० १।११६ इति। ततो वक्त्रोदरं प्राप्ता कण्ठादिस्थानभागेषु विभक्तककारादिवर्ण - रूपा वैखरी वर्ण्यते— 'स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा। वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना॥' इति। परतोऽपि बाह्यार्थवासनया अविद्यारूपया क्रमेण घटपटाद्याकारै- विवृत्ता सैव वाक् चक्षुरादीनां ग्राह्यभावमापद्यते ॥ ७॥ तथा ते प्राहुरित्याह-- यस्मात्तैरुच्यते सद्भिरेव वस्तुप्रवृत्तये ॥ ८॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं१ यदक्षरम्। १ शब्दोपग्राह्यतया शब्दोपग्राहितया च शब्दतत्त्वम्, तथाहि सर्व- प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते, तदुल्लेखविरहिणोऽ- नासादितप्रकाशस्वभावस्य निर्विषयत्वात्, इदमीदृशमित्यादिपरामर्शः मुषितवपुषि वेदने वेदनात्मकतैव न भवेत्, अतः शब्दोन्मेषप्रभावप्राप्त- प्रकाशस्वभावत्वात् सर्वप्रत्ययानां शब्दानुविद्धबोधकत्वमिति सर्वं शब्द- तत्त्वमिति निश्चयः। ततश्च शब्दतत्त्वमेवार्थभावेन विवर्तते, तथाहि शब्दाख्यविशेषानुवेधवन्ध्यबोधविशेषाननुभवात् सर्वं निर्विकल्पकं सवि- कल्पकं वा ज्ञानं शब्दविशिष्टमर्थं भासयति। गौः शुक्लो गच्छति,–इति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट एवार्थः परि- स्फुरतीति। शब्दाख्यविशेषानुरक्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्द- मेव दर्शयति। शब्दापरित्यागलब्धप्रकाशस्वरूपयैवानुभूत्यानुभवामीति सोऽपि विशेष्यः शब्दस्वरूप एवेति। तदेवं शब्द एवार्थोपारूढः प्रतिभा- तीति व्यवतिष्ठते। इत्थं यदुपारूढः शब्दः प्रकाशते, तस्य पृथक् प्रदर्शयि- तुमनुभवितुं चाशक्यत्वाच्छब्द एव तथा तथा प्रतिभाति–इति शब्दविवर्त एवायमर्थो नान्यः कश्चिदिति। अतश्च शब्दब्रह्मेदमेकमविद्योपाधिदर्शित- विचित्रभेदमविद्योपरमे यथावस्थितस्वरूपं प्रकाशत इति स्थितम्।
आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३५ विवर्ततेऽर्थभावेन १ प्रक्रिया जगतो यतः ॥ ९ ॥ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १० ॥ अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । इत्यादिवाक्यरचनैस्तैरेवं प्रतिपादितम् ॥ ११ ॥ यस्मात्तैर्वैयाकरणैः सद्भिः साधुभिर्मुग्धैरेवमुक्तरूपं प्रतिपादितं पश्यन्ती रूपं शब्दतत्त्वमक्षरमनाद्यन्तं ब्रह्म विश्वार्थभावेन विवर्तते तदसत्य- रूपमात्मन्युपगच्छति ३, असत्यविभक्तान्यरूपोपग्राहिता विवर्तस्तस्यास्तत् विवर्तते, यतो विवर्तनात् प्रक्रिया भावभूतभुवनादिविन्यासवैचित्र्यमिति । तथा न स घटपटादिप्रत्ययो लोकव्यवहारेऽस्ति, यो वाचकशब्दानुगमवर्जितः वाग्रूपतां विना न ब्रह्मतत्त्वप्रकाशोऽपि प्रकाशेत, ‘सा हि प्रत्यवमर्शिनी ।’ इति । तथैवं भूते पश्यन्तीरूपे शब्दाख्ये ४ ब्रह्मणि यो निष्णातस्तेन ५ परं ब्रह्माधि- गतं भवतीति । तथा तच्च पश्यन्तीरूपं ग्राह्यग्राहकविभागक्रमरहितम् , १ शब्दब्रह्मैवेदमनाद्यविद्यावासनोपप्लवमानभेदमर्थभावेन विवर्तते, न तु वाचकादपि विभक्तं वाच्यमपि नाम किंचिदस्ति, काल्पनिक एव वाच्यवाचकविभागोऽयमविद्यैव विद्योपाय इत्याश्रीयते, वाग्रूपता तु तत्त्वं सर्वत्र प्रत्यये तदनपायात् । २ ‘अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा । स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥ केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥’ इति । ३ अङ्गीकरोति । ४ शब्दाख्ये शब्दस्वरूपे ब्रह्मणि निष्णातोऽभ्यास- प्रकर्षात्परधारारूढस्तेन परं ब्रह्माधिगतं स्वतोऽवगतं भवति, न शब्दब्रह्म- परब्रह्मणोर्भेद इत्यर्थः । यथोक्तम् — ‘द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥’ इति । ५ कृताभ्यासः ।
३६ शिवदृष्टिः [ आ०-२ अविभागा तु पश्यन्ती देशकालक्रमसंहारवती चेति आदिग्रहणात् प्रावप्रदर्शितमध्यमावैखर्यादिवाक्यरुक्तमिति १ ॥ ११ ॥ तदिदानीं विचार्यत इत्याह-- तद्विचाराय२ राद्धान्तः३ संप्रत्येष विधीयते । वैयाकरणोक्तविचारार्थं सिद्धान्तो वक्ष्यमाणो युक्तियुक्तत्वात्४ यः, स परिनिष्ठां५ प्राप्यते ॥ तथाचेताह-- आदौ६ तावदिन्द्रियत्वे स्थिता वाक्कर्मसंज्ञिते ॥ १२ ॥ तस्यात्मता ब्रह्मता वा वक्तुं शक्या न साधुभिः । १ विखरः शरीरस्तत्र वर्तमाना । २ एवं स्वसिद्धान्तस्थापनार्थं शब्दाद्वैतब्रह्मवादितमुपन्यस्तं, तत्र तु प्रथममेव तदनुपपत्तिः सूचिता 'अथास्माकम्' इत्यादिना । अधुना तत्तादृशमपि न युक्तियुक्तमित्येतदर्थ- मारम्भः । ३ राद्धान्तः पूर्वप्रसिद्ध एव, न तु स्वबुद्धिकौशलेनापूर्वतया कल्पित इत्यर्थः । यदि च स सिद्धान्तः स्वयमेव, तर्हि तत्राक्षेप्यत्वनिराकर्तव्या- योगात्कृतमनेनेत्यत आह विधीयत इति । पूर्वसिद्ध एव वादविप्रति- पत्त्यासिद्धकल्पः तन्निरसनेन परिस्थाप्यत इत्यर्थः । ४ युक्तियुक्तत्वमेव सिद्धान्तत्वम् । ५ परिनिष्ठां पर्यन्ततः स्थितिम् । ६ इत्थमत्र संबन्धः-- तस्यात्मनो ब्रह्मणो वा आत्मतात्मनो भावः स्वभावः, तथा ब्रह्मता तत्स्व- भावो वक्तुं न शक्या । अत्र हेतुरतिस्थूलकर्मेन्द्रियरूपत्वात्तस्याः । तत्र यद्वाचस्त्रैविध्यं तैरूवतं, तदनुमत्यैकत्वमेव वैखरी रूपमाश्रित्य प्रत्याचष्टे आदौ तावदित्यादिना । तथा हि एकैव वैखरी वाक् वागिति लोके प्रसिद्धा, अन्यत्र ह्यन्ययोर्द्वयोरपि निरसनमुक्तम् । 'अन्तःसङ्कल्पो वर्ण्यते मध्यमा वाक् सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः । बुद्धिर्वाच्यं वा वाचकं वोल्लिखन्ती रूपं नात्मीयं बोधभावं जहाति ॥' तथा 'पश्यन्तीति तु निर्विकल्पकमतेर्नामान्तरं कल्पितं विज्ञानस्य हि न प्रकाशवपुषो वाग्रूपता शाश्वती ।' इति ।
आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३७ प्रथमं तावद्वाचोयुक्तिरेवैषा¹ विरुद्धा। तथा हि वाक् स्थिता अति- स्थूलकर्मेन्द्रियत्वे, बुद्धीन्द्रियस्य बोधोपयोगोऽपि भवेत्, तस्य पर्यन्तवर्त्तिन आत्मनो ब्रह्मतत्त्वस्य वा संबन्धी स्वभावो भवेत्, तस्मात् तैः पूर्ववत्साधु- भिस्तद्रूपत्वं वक्तुमेव न शक्यम् ॥ १२ ॥ तस्या² अविद्यायां स्थितत्वात् पाणिपादादिव्यावृत्त्या परमार्थत्वं न युज्यत इत्याह-- इन्द्रियत्वेऽपि सामान्ये पाण्यादेर्ब्रह्मता न किम् ॥ १३ ॥ तत्र चेत्सूक्ष्मकलना³ सर्वत्र कलनाग्रतः। वाचः सूक्ष्मपश्यन्तीरूपतया ब्रह्मता अस्ति, तेनैषोक्ता इति चेत्, सा सत्यरूपता सर्वत्र पाण्यादौ⁴ घटादावपि चाग्रे कलयिष्यते ॥ १३ ॥ अथ⁵ वाग्व्यपदेशोऽपि ध्यानावस्थायां हृत्कण्ठतालुभ्रूमध्यादिस्थाना- न्तराक्रमणात् तस्या उत्कर्षो, न तु पाण्यादेरेवमस्तीत्याह-- अन्तः क्रमो हृदादेश्चेत्प्राणादेः किं न सत्यता ॥ १४ ॥ सर्वस्यान्तःपरामर्शपूर्णतास्ति प्रवर्त्तते। प्राणापानसमानोदानादेरपि हृद्याद्याक्रमणात्सत्यता स्यात्। सर्वस्य चार्थस्य प्रवृत्तिकालेऽन्तःपरामर्शोऽस्ति। नहि पश्यन्त्यभिमता- वस्थायां शब्दस्येव शब्दार्थस्यापि⁶ न परामर्शः केवलमभेदेनेति सर्वं तथा स्यात् ॥ १४ ॥ अथ⁷ वाचः सिद्धिप्रदत्वादिनोत्कर्ष इत्याह-- १ ब्रह्मत्वनिरूपणात्मिका। २ तस्या वाचः। अयमत्र भावः-यदि वाचः पाण्यादिसामान्यत्वेन वर्तमानाया ब्रह्मता, तदा तन्न किमाधिक्येनान्यत्र कथं नेति, यदि तद्व्यावृत्त्या विशेषरूपत्वेन, तदपि नेत्याह परमार्थत्वं न युज्यत इति। ३ ततश्चात्मता ब्रह्मता वा। ४ ततश्चैतदुक्तं भवति-किमिति तत्रैव ब्रह्मता, न पाण्यादौ, नापि घटादौ। साहि सत्यता सर्वत्रास्तीत्यतः किमत्रैव हेतुरित्यर्थः। ५ कर्मेन्द्रियसमानत्वेऽपि चास्याः शक्तित्वाद्दीदृक्त्वं, पाण्यादेस्तदभावान्नेदृक्त्वमित्याशयेनाह। ६ यथा तत्र शब्दस्य परा- मर्जोऽस्त्येव, न नास्तीति, तथा शब्दार्थ स्थाप्यस्त्येवेत्यर्थः। ७ पुनरपि कर्मेन्द्रियसाम्यतायामपि वाच एव एवंविधत्वादुत्कर्षः, न पाण्यादेरिति तथात्वमस्याः, न परस्येत्याशङ्कापूर्वकं प्रत्याचष्टे।
३८ शिवदृष्टिः [ आ०-२ अत्रोपासनया सिद्धिर्देवतायोगितेति चेत् ॥ १५ ॥ योगशास्त्रेषु सर्वेषां देवतासिद्धियोगिता । ये वै वाचमुपासते, तेषां तद्विदां सिद्धिरुक्ता, वागीश्वरी चाधि- ष्ठातृदेवता तत्रास्तीति सा सत्या,--इत्येतदपि न, योगशास्त्रादिषु अधिष्ठातृदेवताः, करणानां महाभूतानां च धारणावशात् सिद्धयोऽपि । ततस्तत्रापि प्रसङ्गः ॥ १५ ॥ ते१नैतन्मन्तव्यमित्याह२-- तस्माद्धिरण्यगर्भादियोगसांख्येतिहासताम् ॥ १६ ॥ विहाय शास्त्ररचना३ जातुचिन्न विराजते । पाण्यादीन्द्रियवन्नैतद्ब्रह्म वागिन्द्रियं भवेत् ॥ १७ ॥ तस्माद्ब्रह्मादिप्रणीतयोगशास्त्रसांख्यानामितिहासरूपं, तदुक्त- मर्थं प्रपञ्चयत् शास्त्रं४ कार्यं, तदितिहासात्मतां विहाय स्वमनी- षिकया शास्त्ररचना न शोभते । एवं च५ यथा पाण्यादीन्द्रियमनादि- शास्त्रसिद्धत्वान्न ब्रह्मरूपेण युक्तं विरच्यते६, अपितु तदनुसारेणैव, तथा वागपि७ ॥ १७ ॥ सांख्यादेरपि८ कथमनादित्वमित्याह-- अथोच्यते प्रक्रियासौ सांख्यादिरचिता न सा । तत्त्वोन्मेषप्रसरणे भवेत्संबन्धभागिनी ॥ १८ ॥ १ सत्यतापत्तिः । २ यतो भवन्मते तिलशोऽपि युक्तिसाधिते न कथंचनोपपत्तिरुपलभ्यते, तस्माद्भवद्भिरेतदस्मत्कथनमादर्तव्यमित्यर्थः । ३ नवप्रपञ्चरूपा । ४ तेन तस्यैव तदुक्तस्य विविच्य सविस्तरं कथनं शास्त्रमित्यर्थः । ५ ततोऽपि किमित्याह एवं चेति । ६ नवीनैस्तस्येन्द्रियत्वेन कथितत्वात् । ७ वागपि ब्रह्मरूपतया न विरचनीयेत्यर्थः । ८ ननु चास्तु ब्रह्मप्रणीतत्वाद् वेदस्य प्रामाण्यं, तत्र च वाग्ब्रह्मेत्यपि कथितं ततश्च कथमत्र विरोधः, सांख्यादेः पुनः कपिलादिप्रणीतत्वादस्मदीयशास्त्रवदादिमत्त्वमेव, कथं तदुक्तं प्रामाण्यं भजेत्, तत्र हि सर्वत्र वाच इन्द्रियत्वमेव समर्थित- मित्याशङ्कां गर्भीकृत्याह सांख्यादेरपीति ।
आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३६ विमर्शानुभवेनैषा१ यथा वाक् प्रथमं श्रिता । लक्ष्यते बोधरूपेण न तथा चरणादिकम् ॥ १९ ॥ इति चेच्चर्च्यतां तावत्पश्यन्ती युज्यते यथा । सांख्यादिसिद्धान्तेषु रचना वाक्कर्मेन्द्रियमिति प्रणेतृसंबन्धि- कल्पनामात्रमेतत्, न तु परमार्थसंवित्पर्यालोचनस्पर्शोऽस्ति । न च प्रक्रिया परमार्थविचारेषु संबद्धतां याति । तथा हि सर्वेऽर्थाः संविदि प्रतिष्ठामुप- यान्ति, असंविदिता असन्त एव । संविच्च विमर्शशून्या संविदेव न भवति । ततश्च समस्ततत्त्वसारस्वरूपोऽयं विमर्शोऽनुभूयमानोऽभिलापमय एवेति वाचा सह का स्पर्धा पाण्यादीनाम् । बोधमयो हि अर्थसत्ताप्रारम्भः, बोधश्च विमर्शात्मा प्रथमं वाचैवानुविद्धो, न तु पाणिपादादिना इति चेत्, तदेवमपि२ बोधो विमर्शात्मा वाङ्मय एवेति । आस्तामन्यदेतत्३, पश्यन्ती तावत् स्वरूपाभिधानाभ्यां विचार्यतां यथा पश्यन्ती भवति पश्यन्तीतत्त्वेन युक्तैवेत्यर्थः ॥ १९ ॥ स्वरूपमभिधानं च तस्याश्चर्चयितुमाह-- वर्तमानसमारूढा क्रिया पश्यन्त्युदाहृता ॥ २० ॥ दृशिः सकर्मको धातुः किं पश्यन्तीति कथ्यताम् । वर्तमानकालारूढा दर्शनक्रिया हि वागात्मककर्तृनिष्ठा४ पश्यन्ती- शब्दस्यार्थः । दृशिश्च धातुः सकर्मकः५ सकर्मकक्रिय इति दृश्यमत्र कर्म निरूपणीयम् ॥ २० ॥ तदेव६ पर्यालोचयन्नाह-- यद्याभासान्बहिर्भूतांस्तत्सतोऽप्यसतोऽपि७ वा ॥ २१ ॥ सत्यत्वे दर्शन८भ्रंशो ह्यसत्ये सत्यता कथम् ।
१ यद्यपि 'शास्त्रतो गुरुतः स्वतः' इत्यस्ति त्रिधा नियमस्तथापि स्वतः इत्यस्य तयोरुपायभूतत्वात् तथेह तस्यैव प्रधानभूतत्वात् तेनैव कथ- नीयमित्याह विमर्शानुभवेत्यादि । २ ननु तथापि बोध एव संवित्परमार्थोऽर्थ- सत्ताप्रारम्भरूपत्वादस्यालमनेन वागात्मनेति तत्राह तदेवमिति । ३ अन्य- दशान्तरमित्यर्थः । ४ क्रियायाः कर्तृरूढिता सिद्धैवान्यथास्वभावकथने तद्गतोऽनुद्देशो दोषावह इति समर्थयति वागात्मकेति । ५ तदेवमत्र कर्तृक्रिया कर्मेति त्रिधा वस्त्ववस्थितमिति । ६ किं कर्मेति । ७ विवर्तरूपतया बहि- रिष्टान् । ८ स्वमतप्रच्युतिः ।
४० शिवदृष्टिः [ आ०-२ यद्याभासान् घटपटादिरूपान् इदन्तया पश्यति, तत् तेषां सत्या- सत्यताविचारे सत्यता तावदसत्यविभक्तान्यरूपोपग्राहितात्मकं विवर्त- मिच्छद्भिः दर्शनभ्रंशभयान्न वाच्या, असत्ये पुनर्दृश्ये नासत्यार्थदर्शित्वे पश्यन्त्याः सत्यतायोगः ॥ २१ ॥ अविद्यावाद्योऽपि न युक्त इत्याह-- गृह्णात्यथाविद्यया वा साप्यस्याः कथमास्थिता ॥ २२ ॥ सत्या ह्यसावसत्या वा सत्यत्वे दर्शनक्षतिः । असत्ययापि सत्यस्य संबन्धोऽतीव दुर्घटः ॥ २३ ॥ अनाद्यविद्यावशादपि असत्यदर्शने मिथ्यात्वं तावदस्याः स्थितम्, अविद्ययापि च संबन्धो न तस्या घटते, अविद्या हि अविद्यात्वाभ्युपगमा- देवासत्या, न चासत्यया संबन्धो रूपश्लेषमयो युक्तः ॥ २३ ॥ न च पश्यन्त्यप्यसत्या युक्तेत्याह-- असत्या यदि पश्यन्ती पश्यन्ती ब्रह्म चित्रता । पश्यन्ती यद्यसत्या, तत् पश्यन्ती ब्रह्मतत्त्वमित्याश्चर्यरूपता- स्यार्थस्य ॥ अन्यच्चाह-- बहिर्भावान्विसृज्यादौ पश्चात्पश्यति१ साथ किम् ॥ २४ ॥ सत्या सृजत्यसत्यानि विचित्रमभिधीयते । किं तत्त्वान्तराभावाद्विश्वे भावाः पश्यन्त्यैव स्रष्टव्याः, तांश्च सृष्ट्वा लब्धस्वरूपान् सा पश्चात्पश्यति, एतदेव हि युक्तम्२ । तत्र सा सत्या सती असत्यानि रूपाणि सृजतीत्येतत् तु असंभावादाश्चर्यं सत्कार्य- वादोपपत्तेः३ कारणस्य कार्यव्यतिरेकेणासत्यताप्राप्तेः, असत्यसर्गेऽप्य- समञ्जसकारित्वेन मालिन्यप्रसङ्गात् ॥ २४ ॥ न च क्रीडार्था वान्यथा वा सृष्टिरित्याह-- ज्ञातान्सृजत्यसौ तान्वा नेति ज्ञातेष्वदर्शनम् ॥ २५ ॥ अज्ञातेषु न सृष्टिः स्यादिष्टं क्रीडादिकं न च । सृष्टिश्च ज्ञातपूर्वाणामुताज्ञातानाम् । तत्र४ सृष्टेः पूर्वमलब्ध- १ पश्चात्-सृष्टिसमनन्तरम् । २ किमित्यनेन संबन्धः । ३ असतः कारणत्वे सर्वस्मात्सर्वोत्पत्तिप्रसङ्गः । ४ पक्षद्वयमध्ये ।
आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४१ स्वरूपत्वे कस्य दर्शनम्, अतोऽपरिदृष्टानेव सृजेत्, तत् ज्ञातेषु सृष्टि- रिति पक्षो नोपपन्नः। अथवा अज्ञातेषु सृष्टिरिति न भवतां दर्शनं नाभ्यु- पगम इत्यर्थः। अज्ञातेष्वपि बुद्धिमतामबुद्धिपूर्वा कथं सृष्टिः। निष्प्रयोजना च कथं स्यात् सृष्टिः। क्रीडैव स्रष्टुः सृष्टिः सृष्टिस्वभावत्वं वेति हि भवतां नेष्टम्॥ २५॥ पुनर्विकल्पयन्नाह-- तानि दृष्ट्वानुसृजति¹ सृष्ट्वा वानुप्रपश्यति ॥ २६ ॥ पश्यन्त्याः२ सत्यरूपायास्तत्सत्यत्वे न दर्शनम्³ । असत्ये सत्यदृष्ट्यैव पश्यन्त्यां मलिनात्मता ॥ २७ ॥ असत्यान्सत्यरूपान्वा कथं सृजति कल्प्यताम्⁴ । तानि तानि वस्तूनि दृष्ट्वा ज्ञात्वा वा सृजति, सृष्ट्वा वा प्रपश्यति इत्येतद्यथास्तु⁵, अनुशब्दोऽत्र⁶ पश्चादर्थः नुशब्दो वा वितर्के। पश्यन्तीतत्त्वमेव न युक्तम्। तथा हि सत्यरूपा सा, तद्दृश्यानां च सत्यत्वे न दर्शनं नाभ्युपगमो द्वैतप्रसङ्गात् । अथ तेषामसत्यत्वं, ततो यथैव सत्यसर्गे मलिनता, तद्वदसत्यसृष्टौ मुख्यैव भ्रान्तिरूपता। पुनरपि च असत्या- नर्थान् सत्यान्⁷ वा पश्यन्ती क्रीडाद्यभावेऽपि केन प्रयोजनप्रकारेण सृजतीति विमृश्यताम् ॥ २७ ॥ असत्यसत्यसर्गदर्शने प्रागुक्तेऽप्यविद्यापर्याप्तपर्यालोचना प्रसङ्ग- १ दृष्ट्वा अवबुध्य । २ उभयमपि मिथ्यात्वेन कथयति । ३ भवदभिमतशासनम् । ४ समर्थ्यताम् । ५ स्वरूपेण स्थीयताम् । ‘ज्ञातान्सृजत्यसौ तान्वा’ इति पूर्वमेव तन्निरसनप्रकारस्योक्तत्वात् । ६ अनुशब्दोऽत्रेति तानि तान्यादौ ज्ञात्वा स्वविमर्शेनाकालय्यानु पश्चात् सृजतीत्यर्थः । ननु च ‘अत्रासवं पीत्वा गायति’ इत्यादौ यथादो तत्पानं, ततश्च गानं पूर्वकालद्योतकत्वात् क्त्वान्तत्वेनैव प्रतीयते, न तत्र पश्चाच्छब्दादिनोपयोगः, ततश्च किमर्थमनुशब्दप्रयोग इत्या- शङ्क्याह नुशब्दो वा । वाशब्दः पक्षान्तरे । नुशब्दो वितर्के, उभयकोट्य- वलम्बी वितर्कः । ७ ततश्च न भ्रान्तिरूपता ।
४० शिवदृष्टिः [ आ०-२ यद्याभासान् घटपटादिरूपान् इदन्तया पश्यति, तत् तेषां सत्या- सत्यताविचारे सत्यता तावदसत्यविभक्तान्यरूपोपग्राहितात्मकं विवर्त- मिच्छद्भिः दर्शनभ्रंशभयान्न वाच्या, असत्ये पुनर्दृश्ये नासत्यार्थदर्शित्वे पश्यन्त्याः सत्यतायोगः ॥ २१ ॥ अविद्यावादोऽपि न युक्त इत्याह-- गृह्णात्यथाविद्यया वा साप्यस्याः कथमास्थिता ॥ २२ ॥ सत्या ह्यसावसत्या वा सत्यत्वे दर्शनक्षतिः । असत्ययापि सत्यस्य संबन्धोऽतीव दुर्घटः ॥ २३ ॥ अनाद्यविद्यावशादपि असत्यदर्शने मिथ्यात्वं तावदस्याः स्थितम्, अविद्ययापि च संबन्धो न तस्या घटते, अविद्या हि अविद्यात्वाभ्युपगमा- देवासत्या, न चासत्यया संबन्धो रूपश्लेषमयो युक्तः ॥ २३ ॥ न च पश्यन्त्यप्यसत्या युक्तेत्याह-- असत्या यदि पश्यन्ती पश्यन्ती ब्रह्म चित्रता । पश्यन्ती यद्यसत्या, तत् पश्यन्ती ब्रह्मतत्त्वमित्याश्चर्यरूपता- स्यार्थस्य ॥ अन्यच्चाह-- बहिर्भावान्विसृज्यादौ पश्चात्पश्यति¹ साथ किम् ॥ २४ ॥ सत्या सृजत्यसत्यानि विचित्रमभिधीयते । किं तत्त्वान्तराभावाद्विश्वे भावाः पश्यन्त्यैव स्रष्टव्याः, तांश्च सृष्ट्वा लब्धस्वरूपान् सा पश्चात्पश्यति, एतदेव हि युक्तम्² । तत्र सा सत्या सती असत्यानि रूपाणि सृजतीत्येतत् तु असंभवादाश्चर्यं सत्कार्य- वादोपपत्तेः³ कारणस्य कार्यव्यतिरेकेणासत्यताप्राप्तेः, असत्यसर्गोऽप्य- समञ्जसकारित्वेन मालिन्यप्रसङ्गात् ॥ २४ ॥ न च क्रीडार्था वान्यथा वा सृष्टिरित्याह-- ज्ञातान्सृजत्यसौ तान्वा नेति ज्ञातेष्वदर्शनम् ॥ २५ ॥ अज्ञातेषु न सृष्टिः स्यादिष्टं क्रीडादिकं न च । सृष्टिश्च ज्ञातपूर्वाणामुताज्ञातानाम् । तत्र⁴ सृष्टेः पूर्वमलब्ध- १ पश्चात्-सृष्टिसमनन्तरम् । २ किमित्यनेन संबन्धः । ३ असतः कारणत्वे सर्वस्मात्सर्वोत्पत्तिप्रसङ्गः । ४ पक्षद्वयमध्ये ।
स्वरूपत्वे कस्य दर्शनम्, अतोऽपरिदृष्टानेव सृजेत्, तत् ज्ञातेषु सृष्टि- रिति पक्षो नोपपन्नः। अथवा अज्ञातेषु सृष्टिरिति न भवतां दर्शनं नाभ्यु- पगम इत्यर्थः। अज्ञातेष्वपि बुद्धिमतामबुद्धिपूर्वा कथं सृष्टिः। निष्प्रयोजना च कथं स्यात् सृष्टिः। क्रीडैव स्रष्टुः सृष्टिः सृष्टेस्वभावत्वं वेति हि भवतां नेष्टम्॥ २५॥ पुनर्विकल्पयन्नाह-- तानि दृष्ट्वानुसृजति१ सृष्ट्वा वानुप्रपश्यति॥ २६॥ पश्यन्त्याः२ सत्यरूपायास्तत्सत्यत्वे न दर्शनम्३। असत्ये सत्यदृष्ट्यैव पश्यन्त्यां मलिनात्मता॥ २७॥ असत्यान्सत्यरूपान्वा कथं सृजति कल्प्यताम्४। तानि तानि वस्तूनि दृष्ट्वा ज्ञात्वा वा सृजति, सृष्ट्वा वा प्रपश्यति इत्येतद्यथास्तु५, अनुशब्दोऽत्र६ पश्चादर्थः नुशब्दो वा वितर्के। पश्यन्तीतत्वमेव न युक्तम्। तथा हि सत्यरूपा सा, तद्दृश्यानां च सत्यत्वे न दर्शनं नाभ्युपगमो द्वैतप्रसङ्गात्। अथ तेषामसत्यत्वं, ततो यथैव सत्यसर्गे मलिनता, तद्वदसत्यसृष्टौ मुख्यैव भ्रान्तिरूपता। पुनरपि च असत्या- नर्थान् सत्यान्७ वा पश्यन्ती क्रीडाद्यभावेऽपि केन प्रयोजनप्रकारेण सृजतीति विमृश्यताम्॥ २७॥ असत्यसत्यसर्गदर्शने प्रागुक्तेऽप्यविद्यापर्याप्तपर्यालोचना प्रसङ्ग-
१ दृष्ट्वा अवबुध्य। २ उभयमपि मिथ्यात्वेन कथयति। ३ भवदभिमतशासनम्। ४ समर्थ्यताम्। ५ स्वरूपेण स्थीयताम्। 'ज्ञातान्सृजत्यसौ तान्वा' इति पूर्वमेव तन्निरसनप्रकारस्योक्तत्वात्। ६ अनुशब्दोऽत्रेति तानि तान्यादौ ज्ञात्वा स्वविमर्शेनाकलय्यानु पश्चात् सृजतीत्यर्थः। ननु च 'अत्रासवं पीत्वा गायति' इत्यादौ यथादो तत्पानं, ततश्च गानं पूर्वकालद्योतकत्वात् क्त्वान्तत्वेनैव प्रतीयते, न तत्र पश्चाच्छब्दादिनोपयोगः, ततश्च किमर्थमनुशब्दप्रयोग इत्या- शङ्क्याह नुशब्दो वा। वाशब्दः पक्षान्तरे। नुशब्दो वितर्के, उभयकोट्य- वलम्बी वितर्कः। ७ ततश्च न भ्रान्तिरूपता।
४२ शिवदृष्टिः [ आ०-२ दानाय पुनर्विकल्पिते प्रयोजनं विनैवाविद्याकृतः सर्ग¹ इति पर्या²- लोचयन्नाह— अविद्यास्याः स्वधर्मः³ किं परधर्मोऽथवा भवेत् ॥ २८ ॥ स्वधर्मत्वेऽस्या⁴ मालिन्यं परधर्मेऽपि कस्य सा⁵ । परस्य शास्त्रानिष्टस्य⁶ स्वतन्त्रा वा तथापि सा ॥ २९ ॥ स्वातन्त्र्याद्दुर्न्निवारैव स्वतन्त्रः⁷ केन वार्यते । अविद्या किं पश्यन्त्याः स्वधर्मः, उत परधर्मः ? स्वधर्मत्वे तस्या अविद्यास्वभावत्वे मालिन्यं स्यात्, परधर्मत्वे वा कस्य परस्यासौ धर्मः । न ह्यद्वयवादे⁸ ब्रह्मणः कश्चिदर्थः परोऽस्तीति शास्त्रेऽभीष्टः । अथाविद्या स्वतन्त्रैव, न तु कस्यचिद्धर्मभूता, तथापि सा दुरुच्छेदेव स्वातन्त्र्याद्धेतोः स्यात् । स्वतन्त्रो हि केनान्येन निवार्यते, केन वा प्रवर्त्यते, तथाहि स्वतन्त्र एव न स्यात् । अतः प्रवृत्तौ स्वतन्त्रा निवृत्तिः पुनरस्याः परकार्यापि स्यात्, तन्निवृत्तिकारणाभावमुखप्रेक्षिप्रवृत्तिकत्वेना- स्वातन्त्र्यापत्तेः ॥ २६ ॥ अवाच्यत्वमविद्याया⁹ विमृशन्नाह-- ¹⁰तत्त्वान्यत्वैरवाच्या¹¹ वा यद्यविद्याभिधीयते ॥ ३० ॥ १ एतदेव ह्यविद्याया अविद्यात्वं, यदनपेक्ष्यैव प्रयोजनं सृष्टिः । २ विवेचयन् । ३ धर्मः स्वभावः, स्वभावश्च स्वभाविनोऽव्यतिरिक्तः । ४ अस्याः पश्यन्त्याः । ५ सा अविद्या । ६ पक्षद्वययोरनुपपत्ताह--परश्च तस्या नाम न कश्चिदित्याह शास्त्रानिष्टस्येति, शास्त्रानिष्टस्य-शास्त्रेऽनभि- हितस्येत्यर्थः । ७ एतदेव हि स्वतन्त्रस्य स्वातन्त्र्यं नाम, यदन्येनानिरा- करणम् । ८ अस्तु परो नाम, तथापि किमित्यत आह नहीति । ९ ननु अत एवेयमविद्या सत्त्वासत्त्वतदन्यत्वादिनानिर्वचनीयेति कथ्यते । यद्येतादृग्वि- चारयोग्या स्यात्, तदा केनानिर्वाच्यत्वं स्यादायोग्यत्वे त्वनिर्वाच्यता सिद्धेत्यपि समर्थयति । १० अविद्या हीयमवस्तुरूपा माया मिथ्यावभास- स्वभावाभिधीयते तत्त्वाग्रहणं यतोऽविद्या, अग्रहणं च नाम कथं वस्तुधर्मे- र्विकल्प्येत तदेतदाह तत्त्वान्यत्वैरिति । अत्राश्रयगतं बहुत्वमपेक्ष्य बहुवचनं ततस्तत्त्वान्यत्वाभ्यां नित्यत्वानित्यत्वव्यापकत्वाव्यापकत्वपरिग्रह इत्यर्थः । ११ अवस्तुरूपत्वात् ।
आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४३ पश्यन्त्या लक्षितासौ वा न वा यदि न लक्षिता । पश्यन्ती जाड्यमायाति¹ लक्षिता तर्हि लक्षिता ॥ ३१ ॥ वस्तूनि हि तत्त्वान्यत्वनित्यत्वानित्यत्वादिभिर्वस्तुधर्मैर्वाच्यानि । अवस्तु पुनरविद्या निःस्वभावा कथं स्वभाववत्तया व्यपदेशार्हा स्यादिति चेत्, तद्वस्तुभूता सा पश्यन्त्या दृष्टा न वा । यदि न दृष्टा, तर्हि पश्यन्ती जाड्यमायाति सर्वदर्शनाभावादपश्यन्ती स्यादित्यर्थः । अथ तया दृष्टा, तत् दृष्टैव उपलक्षितैव अपरविवेकेनैव प्रतिभातत्वात् तदनुसारितया वाच्यापि भवेदिति यावत् । तत्त्वान्यत्वैरिति बहुवचनं शौण्डार्धर्चादिन्यायेन² ॥ ३१ ॥ अवाच्यत्वेनापि अव्यवहार्यता तस्याः स्यादित्याह-- अवाच्यत्वेन भवतां तस्या रूपं कुतो गतम्³ । अलक्षितस्वरूपाया अविद्यात्वं कथं स्थितम् ॥ ३२ ॥ अलक्षितत्वे⁴ सति अवाच्यत्वेनापि तदीयं रूपं कुतः प्रमाणाद्भवता- मवगतं तस्याप्यलक्षितत्वात्, अलक्षितस्वरूपत्वे५ चावाच्यत्ववदविद्यात्वमपि कथं⁶ व्यवस्थाप्येत ॥ ३२ ॥ अनुमानसिद्धतां⁷ कल्पयन्नाह-- भेदबुद्ध्यनुमानाच्चेल्लक्षिता⁸ तर्हि लक्षिता । १ स्वभावप्रच्युतत्वात् । २ 'सप्तमी शौण्डैः । अर्धर्चाः पुंसि च ।' इति पाणिनीये यथा बहुत्वेनाश्रयगतं बहुत्वं लक्ष्यते यथा शौण्डादय अर्धर्चादय इति च । ३ अत्र गतमित्यत्र 'बुध अवगमने' इति ज्ञापकात् 'सर्वे गत्यर्था ज्ञानार्थाः' इत्यानुशासिकशासनेन ज्ञानार्थतया मतिबुद्धीत्यादिना क्तप्रत्यये, भवतामिति कर्तरि षष्ठी । ४ यदि भवद्भिर्विभीषिकयावाच्यत्व- मिति तस्या गीयते, तद् लक्षितत्वे कथं, लक्षित एव तद्व्यपदेशोऽपि युक्तः । ५ नामस्वरूपयोर्द्वयोरलक्षितत्वे निरास इत्यर्थः । ६ कथं केनानुभवप्रकारेणे- त्यर्थः । ७ ननु केनेदमुक्तं कुतः प्रमाणादिति, अस्ति हि प्रत्यक्षतो बलवत्तर- मनुमानं नाम प्रमाणं--तथाहि नदीपूरभेदेनालक्षिताया अपि वृष्टेरनुमानं यथा, तथा अक्रमेऽखण्डितशब्दात्मकज्योतिःस्वरूपे भावभेदक्रमस्यान्यथानुपपत्त्या भवितव्यमेवानुमानेनात्रापीति समर्थयत्यनुमानसिद्धतामिति । ८ भेदज्ञानं हि कुतेऽविद्यां विना संभवेदिति ह्यविद्या संभवत्येव ।
४४ शिवदृष्टिः [ आ०-२ भावभेदसिद्धयन्यथानुपपत्त्या तथात्वेनाविद्या१ यदि लक्षिता अनुमितेत्यर्थः । एवं तर्हि लक्षितैव, तत्किमित्यलक्षितत्वमुच्यतेऽस्या अवाच्यत्वं वा ॥ एवमपि२ न सिद्ध्येत्याह-- न चानुमानमिष्टं तेऽप्यवस्थेत्यादिदूषणात् ॥ ३३ ॥ न चापि भवतोऽनुमानं सम्यग्ज्ञानमिष्टम्-- 'अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥' ( वाक्य प० १ । ३२ ) इति, 'हस्तस्पर्शादिवान्धेन विषमे पथि धावता । अनुमानप्रधानेन विनिपातो न दुर्लभः ॥' ( १।४२ ) इति चान्यच्च वदतः । नहि वस्तुव्यवस्थापने शक्ततायां प्रत्यक्षात् न्यूनता तस्य स्यात्, अशक्ततायां तु अप्रामाण्यमेव ॥ ३३ ॥ १ तत्कारणतया । २ एवमनुमानकल्पनायामपि । ननु चास्तु तस्याः कार्यावस्थायां लक्षितत्वं यतो भावभेदानुपपत्त्यैव तत् कल्पितं, कारणा- वस्थायां च तस्यां अलक्षितत्वमेवेति सिद्धेऽपि तत्रालक्षितत्वे पूर्वोक्तमेव दूषणं, लक्षितत्वेऽवाच्यत्वहानिरिति, यत्पुनरलक्षितलक्षितत्वं नामानुमान- कल्पितं, तत्र-- 'अर्थवत्त्वं न चेज्जातं मुख्यैर्यस्य प्रयोजनैः । तस्यानुषङ्गिकेष्वाशा कुशकाशावलम्बनम् ॥' इति नयेनानुभानस्यैव भवन्मतेऽनुपपत्तिता, येनार्धजरतीयन्यायेन लक्षिता- लक्षितत्वं सिद्ध्येदित्याह--एवमपीति । 'बहुकृत्वोऽपि वस्त्वात्मा तथैति परिनिश्चितः । देशकालादिभेदेन दृश्यते पुनरन्यथा ॥' तथा 'ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि मवादृशाः । किं दिव्यचक्षुषां तेषामनुमानप्रयोजनम् ॥'
आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४५ सत्या वा स्यादसत्या वा न मध्यायाः१ समन्वयः । विद्या२ न भवतीत्येवं तत्तुल्या काचिदापतेत् ॥ ३४ ॥ सत्यैव यदि विद्यानामभावस्तर्हि३ शून्यता । शून्यया बाध्यते चित्रं पश्यन्ती दर्शनात्मिका । ३५ ॥ सत्या सति सत्ये साधुः सती वा स्यादविद्या, असत्या तद्विपरीता वेत्यर्थः । न मध्यायाः संभवः सदासतोः परस्पराभावरूपत्वान् न तृतीय- राशिसंभवो यतः । तथा हि इयमविद्या विद्या न भवति,-इत्येवं विद्यापर्यु- दासेन४ समस्तविश्वात्मतया प्रथमाना न प्रतिषेधमात्ररूपा, अतश्च विद्या- सदृशी काचिद्विश्वात्मिका स्यादविद्या सत्यैव, अतश्च नानिर्वाच्यत्वं, नाप्यद्वयम् । विद्यानां सम्यग्ज्ञानानामभावः प्रसज्यप्रतिषेधोऽपि५ यद्यविद्या, तत् सा शून्यता निवृत्तिमात्रं न किञ्चिदिति यावत् । ततश्च शून्यया नीरूपया पश्यन्ती नाम सम्यग्ज्ञानात्मकः पक्षो बाध्यते इति चित्रम् । सम्यग्दर्शन- १ मध्याया इति--सदसदुभयात्मिकायाः-- ‘असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद्द्भवेत् । सदसद्व्यतिरिक्तो हि राशिरत्यन्तदुर्लभः ॥’ इति । २ सत्या वासत्या वा इति पक्षद्वयामाशङ्क्य निरस्यति विद्या नेत्यादिना सत्यतापक्षं, यदीत्यादिनासत्यतापक्षम् । ३ प्रतिषेधपक्षमाश्रित्याह-तर्हीति । ४ 'प्राधान्यं तु विधेर्यत्र प्रतिषेधेऽप्रधानता । पर्युदासः स विज्ञेयः क्रिया सह यत्र नञ् ॥' इति पर्युदासलक्षणम् । तथाचान्यत्र ‘नञ्युक्तं यत्, तदन्यस्मिंस्तत्सदृशे संघटते’ यथा-अब्राह्मणमानयेति वाक्ये ब्राह्मणसदृशस्तत्तुल्योदरपाणिपाद- नयन एवानीयते, नाश्वो न वा गर्दभ इति । ५ प्रतिषेधमात्रप्रधानः प्रसज्यप्रतिषेधः । तथाचोक्तं-- ‘अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता । प्रसज्यप्रतिषेधोऽसौ यत्रोत्तरपदेन नञ् ॥’ इति । तथा-अश्राद्धभोजी ब्राह्मणः श्राद्धे न भुङ्क्ते इत्यर्थः । उक्तं च वृद्धैः ‘अभावे स्वल्पभावे च सादृश्ये च विपर्यये । कुत्सायामपि नञ् ज्ञेयो रिष्टादौ च शुभोक्तिषु ॥’ इति ।
४६ शिवदृष्टिः [ आ०-२ बाधेनैव द्वैतभ्रान्तिः, अकिञ्चिद्रूपस्य बाधनशक्त्यभावान्न संभवत्येतदित्यर्थः । पश्यन्ती च नेश्वरप्रत्यभिज्ञोक्तन्यायेन शब्दनात्मिका परमेश्वरशक्तिरिष्यते भवद्भिरीश्वरोपगमप्रसङ्गात्१, अपि तु सूक्ष्मो वाच्याभेदेन स्थितो वाचकः शब्द इत्येवं शब्दात्मासौ ॥ ३५ ॥ इन्द्रियत्वाभावेऽपि पाण्यादि२ यथा पार्थिवत्वान्न परमार्थः, तथा वायवी वागपीत्याह-- पाण्यादेश्चेद्धराद्यात्मा३ वाचो वाय्वात्मता न किम् । सिन्धुशब्दादिवच्छब्दो न पश्यन्त्यादिके४ भवेत् ॥ ३६ ॥ न शब्दमात्रं पश्यन्तीमध्यमादौ स्थातुमुत्सहते समुद्रघोषादिरिव तथा तत्रादर्शनात् ॥ ३६ ॥ न पश्यन्त्याः सत्यभूताया अविद्यया बाधनम्५, अपि तु मध्यमाया इत्याह-- अथ मध्यमया बाह्या७ भावा ग्राह्या ह्यविद्यया । तस्या एव हि संयोगो बुद्ध्या संकल्पनात्मना ॥ ३७ ॥ मध्यमाख्यया वाचा बाह्यत्वेन भेदेनाभास्यमाना भावा अविद्यावशात् ग्राह्याः । तस्या एव संकल्पनात्मना अर्थावसायरूपया८ १ भवतां हि नेश्वरोपगमः अविद्यावादकल्पनात् । २ इत्थं वाच इन्द्रियत्वमभ्युपगम्य परवादिमतं निरस्तम् । अथेदानों कारणानुगमतया तदेव निरस्यति पाण्यादेरित्यादिना । ३ धरादितत्त्वं पाण्यादेरात्मा स्वभावो न ब्रह्मतयाभ्युपगम्यते, तथा वागपीति । ४ पश्यन्त्यादित इति पश्यन्ती आदिः प्रधानं यस्येति सार्वविभक्तिकस्तसिल् । ५ अविद्याकर्तृका बाधा न पश्यन्तीविषय इत्यर्थः, ततश्च न पश्यन्त्यां काचित् क्षतिः । ६ तदेवं पश्यन्त्यां न कथंचनापि ह्यविद्यायोग इति समर्थितं द्वैतप्रथा चाभासमाना कथं सिद्धेत्यर्थानुरोधेन यतो द्वैतप्रथा मध्यमायामेवाभासते, ततोऽस्या एव तद्योगे न काचनानुपपत्तिर्नाम, तस्याः स्वरूपज्योतीरूपत्वादस्याश्च स्फुटमेव संजल्परूपत्वादित्याह पूर्वपक्षमा- शङ्कमानत्वेनाथेत्यादि । ७ बाह्यत्वेन भास्यमानाः । ८ पश्यन्त्यां हि स्वरूपज्योतीरूपायां सर्वात्मनार्थोऽपि तन्मय एवेत्यतो मध्यमायां पदार्था- वसायरूपत्वेनान्तःसंजल्पाकारेणावश्यमविद्यायोग इत्यर्थः ।
आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४७ बुद्ध्या सम्बन्धोऽन्तःकरणे प्राणापानपथे तस्या एवावस्थानात्, न तु पश्यन्त्याः१ ॥ ३७ ॥ इतदपि२ नेत्याह— तत्रापि मध्यमा कस्य कार्यं पश्यन्त्यवस्थया। सा जन्या३ हेतुना केन शबलां जनयेदसौ ॥ ३८ ॥ तत्रापि मध्यमाया बुद्धिपदे वेद्यवेदकद्वैतावभासिनि स्थिताया अविद्या- योग इत्यभ्युपगमे मध्यमा४ वाक् कदाचिद्भावात् कार्यभावात्-- 'वाच एव च पूर्वस्याः सा कार्या स्यात्...।' इति न्यायेन अन्यकारणाभावात्५ पश्यन्त्यवस्थयैव६ सा जन्या प्राप्ता७। एवं च सति केन हेतुना तां मध्यमां शबलां भिन्नग्राह्याच्छुरितामसौ८ शुद्धस्वभावा९ सती जनयेत् ॥ ३८ ॥ न कथञ्चित्तज्जननं१० युक्तमित्याह-- नहि तस्या११ निमित्तं वा कारणं समवायि१२ वा। निमित्तत्वे१३ पृथक्त्वं स्यात्समवाये तदात्मता ॥ ३९ ॥ असावित्यनुवर्तते। असौ पश्यन्ती तस्या१४ निमित्तमात्रं१५ कारणं १ नत्विति तदुत्तीर्णस्वरूपायाः। २ इत्थं पश्यन्त्यसमर्थनया संकु- चितेन प्रतिवादिना मध्यमाकृत एवायमविद्यावाद इति गृहीतं, तदसहमान आह एतदपि नेति। ३ व्यतिरिक्तकारणाभावात्। ४ अत्रेत्थं व्याप्तिः- मध्यमा वाक् कादाचित्कावभासमयीत्यात् कार्यैव। यत्किंचित्कादाचित्का- वभासमयं नास्ति, तत्कार्यमपि नास्ति। अस्ति चेयं कादाचित्कावभासा- भावा पश्यन्ती, न ततः कार्यरूपेति। मध्यमा पुनः कादाचित्कावभासा, ततश्च कार्यरूपेत्यर्थः। ५ भवद्भिरपि द्वैतवादाभ्युपगमानभिमतत्वात्। ६ नत्वविद्यया। ७ भवदनभिमतावपि बलादेवायाता। ८ कृतोपरागाम्। ९ शुद्धस्वभाववत्त्वमेवात्राभेदे हेतुः। १० इत्थं तत्कार्यता न कथंचन मध्यमाया युक्ता, तत्कार्यत्वे कारणसदृशं कार्यमिति नीत्या विलक्षण- स्वभावतानुपपत्तिः, तदकार्यत्वे कारणान्तरं कथनीयं, न च तदिष्टं तदभावा- देव, द्वैतापत्तिर्हि तथा स्यादिति। ११ तस्यः-मध्यमायाः। १२ पश्यन्ती। १३ तद्बाधामाह-निमित्तेति। १४ तस्याः-कार्यत्वेन पूर्वप्रक्रान्तायाः। १५ यत्कार्यसिद्धौ बहूपकारकमसंबद्धं च, तन्निमित्ताख्यं कारणं यथा पटोत्पत्तौ वेमादि।
विजातीयम्१, नापि समवायिकारणं सजातीयतयाविभागेन वा स्थितं, निमित्तमात्रत्वे द्वैतापत्तिः२, समवायित्वे३ तु क्षीरस्येव दध्युपादान- कारणत्वे सति उपादानोपादेययोरेकप्रवाहरूपत्वेनाभिन्नयोगक्षेमता४ प्राप्ता, कालभेदेऽप्यन्यथात्वातथात्वं५ न स्यात् । पटं प्रति तन्तूनामिव वा समवायित्वे पश्यन्तीमध्यमयोस्तन्तुपटवदभिन्नात्मता६ भेदेना- प्रथनात् ॥ ३६ ॥ ततश्च दोषमभिधाय द्वये७ पश्यन्तीतवमप्यनुपपन्नमित्याह-- तथाप्यविद्यया८ योगः पश्यन्त्यात्मानमेव चेत् । अन्धमूकं जगद्बाह्ये सर्वमेव भविष्यति९ ॥ ४० ॥ इन्द्रियादेर्मनोवृत्तेः१० सर्वस्या एव लोपिता । पश्यन्त्या मध्यमाया सहैकयोगक्षेमत्वेन ऐक्येन वा मध्यमाया इवाविद्यायोगदोषः शुद्धताहानेः । अथ शुद्धैव पश्यन्ती यतो न भेदेनार्थान् पश्यति अपि त्वात्मरूपान् ततो नाविद्यायोगदोषस्तस्या इति । एवं सति मध्यमाया अपि तदभेदात्, तथात्वे बाह्ये भिन्नेऽर्थजाते अन्धमज्ञम् अश्रवणाच्च उच्चाराद्यव्युत्पत्तेः मूकमपि सर्वमेव जगत् भविष्यति११ १ कार्येणासदृशम् । २ कार्यकारणयोः पृथक्स्थितत्वात् । ३ यत्कार्योत्पत्तौ नित्यमेव संबद्धं तत् समवायिकारणं-यथा घटोत्पत्तौ मृत्तिका, दध्न वा क्षीरम् । ४ स्वरूपेण स्थितियोगः, अर्थवत्तया स्थितिः क्षेमः । ५ द्वन्द्दान्ते श्रूयमाणः शब्दः प्रत्येकमभिसंबध्यत इति शासनेनान्य- थात्वं तथात्वं न स्यात्, क्षीराद्दध्नो नान्यथात्वं, नापि तथात्वमित्यर्थः । तथा पश्यन्त्या मध्यमाया नान्यथात्वं, नापि तथात्वमित्यर्थः । ६ तन्तु- पटयोरुभयोरऽपि कार्योत्पत्तावपि न स्वरूपान्यथाभावोऽत्र । पूर्वत्र तु कार्योत्पत्तौ स्वरूपान्यथाभावः परिणामभावेनास्त्येवेत्यनयोर्विशेषः । ७ द्वये-पूर्वोक्ते पक्षद्वयेऽपि । ८ तथापीति, समवायित्व इत्यर्थः । तथा च पश्यन्त्याः शुद्धताहानिः । यदि च पश्यन्त्याः शुद्धत्वमेव, तर्हि तेनापि प्रकारेण दोषमाह । ९ भवन्मताश्रयणे । १० प्रत्यक्षबाधामस्यार्थस्याह- इन्द्रियादेरिति । ११ तदेवं पश्यन्तीमध्यमोभयमुख्यगौणभावेन संबन्धो योज्यः, यदि चैक्ये पश्यन्तीमाहात्म्यमेव पोस्फुरीति, तर्ह्यविद्याकालुष्ये भेदप्रथाया- मपि सर्वत्र तज्ज्योतिर्भावात् कथं व्यवहारोपपत्तिः । अथाविद्यामाहात्म्यान्न पश्यन्ती स्वरूपमहो रूपा वरीवर्ति, किंतु मध्यमा, तत्पश्यन्त्याः स्वरूप- प्रच्युतेर्न तथात्वमित्युभयथापि दोषाभ्युच्चयः ।