शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 55, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४१ स्वरूपत्वे कस्य दर्शनम्, अतोऽपरिदृष्टानेव सृजेत्, तत् ज्ञातेषु सृष्टि- रिति पक्षो नोपपन्नः। अथवा अज्ञातेषु सृष्टिरिति न भवतां दर्शनं नाभ्यु- पगम इत्यर्थः। अज्ञातेष्वपि बुद्धिमतामबुद्धिपूर्वा कथं सृष्टिः। निष्प्रयोजना च कथं स्यात् सृष्टिः। क्रीडैव स्रष्टुः सृष्टिः सृष्टिस्वभावत्वं वेति हि भवतां नेष्टम्॥ २५॥ पुनर्विकल्पयन्नाह-- तानि दृष्ट्वानुसृजति¹ सृष्ट्वा वानुप्रपश्यति ॥ २६ ॥ पश्यन्त्याः२ सत्यरूपायास्तत्सत्यत्वे न दर्शनम्³ । असत्ये सत्यदृष्ट्यैव पश्यन्त्यां मलिनात्मता ॥ २७ ॥ असत्यान्सत्यरूपान्वा कथं सृजति कल्प्यताम्⁴ । तानि तानि वस्तूनि दृष्ट्वा ज्ञात्वा वा सृजति, सृष्ट्वा वा प्रपश्यति इत्येतद्यथास्तु⁵, अनुशब्दोऽत्र⁶ पश्चादर्थः नुशब्दो वा वितर्के। पश्यन्तीतत्त्वमेव न युक्तम्। तथा हि सत्यरूपा सा, तद्दृश्यानां च सत्यत्वे न दर्शनं नाभ्युपगमो द्वैतप्रसङ्गात् । अथ तेषामसत्यत्वं, ततो यथैव सत्यसर्गे मलिनता, तद्वदसत्यसृष्टौ मुख्यैव भ्रान्तिरूपता। पुनरपि च असत्या- नर्थान् सत्यान्⁷ वा पश्यन्ती क्रीडाद्यभावेऽपि केन प्रयोजनप्रकारेण सृजतीति विमृश्यताम् ॥ २७ ॥ असत्यसत्यसर्गदर्शने प्रागुक्तेऽप्यविद्यापर्याप्तपर्यालोचना प्रसङ्ग- १ दृष्ट्वा अवबुध्य । २ उभयमपि मिथ्यात्वेन कथयति । ३ भवदभिमतशासनम् । ४ समर्थ्यताम् । ५ स्वरूपेण स्थीयताम् । ‘ज्ञातान्सृजत्यसौ तान्वा’ इति पूर्वमेव तन्निरसनप्रकारस्योक्तत्वात् । ६ अनुशब्दोऽत्रेति तानि तान्यादौ ज्ञात्वा स्वविमर्शेनाकालय्यानु पश्चात् सृजतीत्यर्थः । ननु च ‘अत्रासवं पीत्वा गायति’ इत्यादौ यथादो तत्पानं, ततश्च गानं पूर्वकालद्योतकत्वात् क्त्वान्तत्वेनैव प्रतीयते, न तत्र पश्चाच्छब्दादिनोपयोगः, ततश्च किमर्थमनुशब्दप्रयोग इत्या- शङ्क्याह नुशब्दो वा । वाशब्दः पक्षान्तरे । नुशब्दो वितर्के, उभयकोट्य- वलम्बी वितर्कः । ७ ततश्च न भ्रान्तिरूपता ।