शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 59, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ४३ पश्यन्त्या लक्षितासौ वा न वा यदि न लक्षिता । पश्यन्ती जाड्यमायाति¹ लक्षिता तर्हि लक्षिता ॥ ३१ ॥ वस्तूनि हि तत्त्वान्यत्वनित्यत्वानित्यत्वादिभिर्वस्तुधर्मैर्वाच्यानि । अवस्तु पुनरविद्या निःस्वभावा कथं स्वभाववत्तया व्यपदेशार्हा स्यादिति चेत्, तद्वस्तुभूता सा पश्यन्त्या दृष्टा न वा । यदि न दृष्टा, तर्हि पश्यन्ती जाड्यमायाति सर्वदर्शनाभावादपश्यन्ती स्यादित्यर्थः । अथ तया दृष्टा, तत् दृष्टैव उपलक्षितैव अपरविवेकेनैव प्रतिभातत्वात् तदनुसारितया वाच्यापि भवेदिति यावत् । तत्त्वान्यत्वैरिति बहुवचनं शौण्डार्धर्चादिन्यायेन² ॥ ३१ ॥ अवाच्यत्वेनापि अव्यवहार्यता तस्याः स्यादित्याह-- अवाच्यत्वेन भवतां तस्या रूपं कुतो गतम्³ । अलक्षितस्वरूपाया अविद्यात्वं कथं स्थितम् ॥ ३२ ॥ अलक्षितत्वे⁴ सति अवाच्यत्वेनापि तदीयं रूपं कुतः प्रमाणाद्भवता- मवगतं तस्याप्यलक्षितत्वात्, अलक्षितस्वरूपत्वे५ चावाच्यत्ववदविद्यात्वमपि कथं⁶ व्यवस्थाप्येत ॥ ३२ ॥ अनुमानसिद्धतां⁷ कल्पयन्नाह-- भेदबुद्ध्यनुमानाच्चेल्लक्षिता⁸ तर्हि लक्षिता । १ स्वभावप्रच्युतत्वात् । २ 'सप्तमी शौण्डैः । अर्धर्चाः पुंसि च ।' इति पाणिनीये यथा बहुत्वेनाश्रयगतं बहुत्वं लक्ष्यते यथा शौण्डादय अर्धर्चादय इति च । ३ अत्र गतमित्यत्र 'बुध अवगमने' इति ज्ञापकात् 'सर्वे गत्यर्था ज्ञानार्थाः' इत्यानुशासिकशासनेन ज्ञानार्थतया मतिबुद्धीत्यादिना क्तप्रत्यये, भवतामिति कर्तरि षष्ठी । ४ यदि भवद्भिर्विभीषिकयावाच्यत्व- मिति तस्या गीयते, तद् लक्षितत्वे कथं, लक्षित एव तद्व्यपदेशोऽपि युक्तः । ५ नामस्वरूपयोर्द्वयोरलक्षितत्वे निरास इत्यर्थः । ६ कथं केनानुभवप्रकारेणे- त्यर्थः । ७ ननु केनेदमुक्तं कुतः प्रमाणादिति, अस्ति हि प्रत्यक्षतो बलवत्तर- मनुमानं नाम प्रमाणं--तथाहि नदीपूरभेदेनालक्षिताया अपि वृष्टेरनुमानं यथा, तथा अक्रमेऽखण्डितशब्दात्मकज्योतिःस्वरूपे भावभेदक्रमस्यान्यथानुपपत्त्या भवितव्यमेवानुमानेनात्रापीति समर्थयत्यनुमानसिद्धतामिति । ८ भेदज्ञानं हि कुतेऽविद्यां विना संभवेदिति ह्यविद्या संभवत्येव ।