शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 52, कुल 188 में से
संदर्भ में पढ़ें३८ शिवदृष्टिः [ आ०-२ अत्रोपासनया सिद्धिर्देवतायोगितेति चेत् ॥ १५ ॥ योगशास्त्रेषु सर्वेषां देवतासिद्धियोगिता । ये वै वाचमुपासते, तेषां तद्विदां सिद्धिरुक्ता, वागीश्वरी चाधि- ष्ठातृदेवता तत्रास्तीति सा सत्या,--इत्येतदपि न, योगशास्त्रादिषु अधिष्ठातृदेवताः, करणानां महाभूतानां च धारणावशात् सिद्धयोऽपि । ततस्तत्रापि प्रसङ्गः ॥ १५ ॥ ते१नैतन्मन्तव्यमित्याह२-- तस्माद्धिरण्यगर्भादियोगसांख्येतिहासताम् ॥ १६ ॥ विहाय शास्त्ररचना३ जातुचिन्न विराजते । पाण्यादीन्द्रियवन्नैतद्ब्रह्म वागिन्द्रियं भवेत् ॥ १७ ॥ तस्माद्ब्रह्मादिप्रणीतयोगशास्त्रसांख्यानामितिहासरूपं, तदुक्त- मर्थं प्रपञ्चयत् शास्त्रं४ कार्यं, तदितिहासात्मतां विहाय स्वमनी- षिकया शास्त्ररचना न शोभते । एवं च५ यथा पाण्यादीन्द्रियमनादि- शास्त्रसिद्धत्वान्न ब्रह्मरूपेण युक्तं विरच्यते६, अपितु तदनुसारेणैव, तथा वागपि७ ॥ १७ ॥ सांख्यादेरपि८ कथमनादित्वमित्याह-- अथोच्यते प्रक्रियासौ सांख्यादिरचिता न सा । तत्त्वोन्मेषप्रसरणे भवेत्संबन्धभागिनी ॥ १८ ॥ १ सत्यतापत्तिः । २ यतो भवन्मते तिलशोऽपि युक्तिसाधिते न कथंचनोपपत्तिरुपलभ्यते, तस्माद्भवद्भिरेतदस्मत्कथनमादर्तव्यमित्यर्थः । ३ नवप्रपञ्चरूपा । ४ तेन तस्यैव तदुक्तस्य विविच्य सविस्तरं कथनं शास्त्रमित्यर्थः । ५ ततोऽपि किमित्याह एवं चेति । ६ नवीनैस्तस्येन्द्रियत्वेन कथितत्वात् । ७ वागपि ब्रह्मरूपतया न विरचनीयेत्यर्थः । ८ ननु चास्तु ब्रह्मप्रणीतत्वाद् वेदस्य प्रामाण्यं, तत्र च वाग्ब्रह्मेत्यपि कथितं ततश्च कथमत्र विरोधः, सांख्यादेः पुनः कपिलादिप्रणीतत्वादस्मदीयशास्त्रवदादिमत्त्वमेव, कथं तदुक्तं प्रामाण्यं भजेत्, तत्र हि सर्वत्र वाच इन्द्रियत्वमेव समर्थित- मित्याशङ्कां गर्भीकृत्याह सांख्यादेरपीति ।