शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 51, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ३७ प्रथमं तावद्वाचोयुक्तिरेवैषा¹ विरुद्धा। तथा हि वाक् स्थिता अति- स्थूलकर्मेन्द्रियत्वे, बुद्धीन्द्रियस्य बोधोपयोगोऽपि भवेत्, तस्य पर्यन्तवर्त्तिन आत्मनो ब्रह्मतत्त्वस्य वा संबन्धी स्वभावो भवेत्, तस्मात् तैः पूर्ववत्साधु- भिस्तद्रूपत्वं वक्तुमेव न शक्यम् ॥ १२ ॥ तस्या² अविद्यायां स्थितत्वात् पाणिपादादिव्यावृत्त्या परमार्थत्वं न युज्यत इत्याह-- इन्द्रियत्वेऽपि सामान्ये पाण्यादेर्ब्रह्मता न किम् ॥ १३ ॥ तत्र चेत्सूक्ष्मकलना³ सर्वत्र कलनाग्रतः। वाचः सूक्ष्मपश्यन्तीरूपतया ब्रह्मता अस्ति, तेनैषोक्ता इति चेत्, सा सत्यरूपता सर्वत्र पाण्यादौ⁴ घटादावपि चाग्रे कलयिष्यते ॥ १३ ॥ अथ⁵ वाग्व्यपदेशोऽपि ध्यानावस्थायां हृत्कण्ठतालुभ्रूमध्यादिस्थाना- न्तराक्रमणात् तस्या उत्कर्षो, न तु पाण्यादेरेवमस्तीत्याह-- अन्तः क्रमो हृदादेश्चेत्प्राणादेः किं न सत्यता ॥ १४ ॥ सर्वस्यान्तःपरामर्शपूर्णतास्ति प्रवर्त्तते। प्राणापानसमानोदानादेरपि हृद्याद्याक्रमणात्सत्यता स्यात्। सर्वस्य चार्थस्य प्रवृत्तिकालेऽन्तःपरामर्शोऽस्ति। नहि पश्यन्त्यभिमता- वस्थायां शब्दस्येव शब्दार्थस्यापि⁶ न परामर्शः केवलमभेदेनेति सर्वं तथा स्यात् ॥ १४ ॥ अथ⁷ वाचः सिद्धिप्रदत्वादिनोत्कर्ष इत्याह-- १ ब्रह्मत्वनिरूपणात्मिका। २ तस्या वाचः। अयमत्र भावः-यदि वाचः पाण्यादिसामान्यत्वेन वर्तमानाया ब्रह्मता, तदा तन्न किमाधिक्येनान्यत्र कथं नेति, यदि तद्व्यावृत्त्या विशेषरूपत्वेन, तदपि नेत्याह परमार्थत्वं न युज्यत इति। ३ ततश्चात्मता ब्रह्मता वा। ४ ततश्चैतदुक्तं भवति-किमिति तत्रैव ब्रह्मता, न पाण्यादौ, नापि घटादौ। साहि सत्यता सर्वत्रास्तीत्यतः किमत्रैव हेतुरित्यर्थः। ५ कर्मेन्द्रियसमानत्वेऽपि चास्याः शक्तित्वाद्दीदृक्त्वं, पाण्यादेस्तदभावान्नेदृक्त्वमित्याशयेनाह। ६ यथा तत्र शब्दस्य परा- मर्जोऽस्त्येव, न नास्तीति, तथा शब्दार्थ स्थाप्यस्त्येवेत्यर्थः। ७ पुनरपि कर्मेन्द्रियसाम्यतायामपि वाच एव एवंविधत्वादुत्कर्षः, न पाण्यादेरिति तथात्वमस्याः, न परस्येत्याशङ्कापूर्वकं प्रत्याचष्टे।