शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 50, कुल 188 में से
संदर्भ में पढ़ें३६ शिवदृष्टिः [ आ०-२ अविभागा तु पश्यन्ती देशकालक्रमसंहारवती चेति आदिग्रहणात् प्रावप्रदर्शितमध्यमावैखर्यादिवाक्यरुक्तमिति १ ॥ ११ ॥ तदिदानीं विचार्यत इत्याह-- तद्विचाराय२ राद्धान्तः३ संप्रत्येष विधीयते । वैयाकरणोक्तविचारार्थं सिद्धान्तो वक्ष्यमाणो युक्तियुक्तत्वात्४ यः, स परिनिष्ठां५ प्राप्यते ॥ तथाचेताह-- आदौ६ तावदिन्द्रियत्वे स्थिता वाक्कर्मसंज्ञिते ॥ १२ ॥ तस्यात्मता ब्रह्मता वा वक्तुं शक्या न साधुभिः । १ विखरः शरीरस्तत्र वर्तमाना । २ एवं स्वसिद्धान्तस्थापनार्थं शब्दाद्वैतब्रह्मवादितमुपन्यस्तं, तत्र तु प्रथममेव तदनुपपत्तिः सूचिता 'अथास्माकम्' इत्यादिना । अधुना तत्तादृशमपि न युक्तियुक्तमित्येतदर्थ- मारम्भः । ३ राद्धान्तः पूर्वप्रसिद्ध एव, न तु स्वबुद्धिकौशलेनापूर्वतया कल्पित इत्यर्थः । यदि च स सिद्धान्तः स्वयमेव, तर्हि तत्राक्षेप्यत्वनिराकर्तव्या- योगात्कृतमनेनेत्यत आह विधीयत इति । पूर्वसिद्ध एव वादविप्रति- पत्त्यासिद्धकल्पः तन्निरसनेन परिस्थाप्यत इत्यर्थः । ४ युक्तियुक्तत्वमेव सिद्धान्तत्वम् । ५ परिनिष्ठां पर्यन्ततः स्थितिम् । ६ इत्थमत्र संबन्धः-- तस्यात्मनो ब्रह्मणो वा आत्मतात्मनो भावः स्वभावः, तथा ब्रह्मता तत्स्व- भावो वक्तुं न शक्या । अत्र हेतुरतिस्थूलकर्मेन्द्रियरूपत्वात्तस्याः । तत्र यद्वाचस्त्रैविध्यं तैरूवतं, तदनुमत्यैकत्वमेव वैखरी रूपमाश्रित्य प्रत्याचष्टे आदौ तावदित्यादिना । तथा हि एकैव वैखरी वाक् वागिति लोके प्रसिद्धा, अन्यत्र ह्यन्ययोर्द्वयोरपि निरसनमुक्तम् । 'अन्तःसङ्कल्पो वर्ण्यते मध्यमा वाक् सेयं बुद्ध्यात्मा नैष वाचः प्रभेदः । बुद्धिर्वाच्यं वा वाचकं वोल्लिखन्ती रूपं नात्मीयं बोधभावं जहाति ॥' तथा 'पश्यन्तीति तु निर्विकल्पकमतेर्नामान्तरं कल्पितं विज्ञानस्य हि न प्रकाशवपुषो वाग्रूपता शाश्वती ।' इति ।