भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 68, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 68

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता यत एव पश्यन्ती असौ विभक्तदृश्यार्थोन्मुखी स्मृता, ततः कथम- विभागा स्यात् यतो लक्ष्यलक्षणपदयोरन्योन्यविरहः ॥ ४५ ॥ तथाहि— यानि¹ पश्यति किं स्वाक्यरूपदिक्कालभागशः । अतथा यदि पश्यन्ती मिथ्या पश्यन्त्युदाहृता ॥ ४६ ॥ यथारूपेण² पश्यन्ती निर्विभागा कथं भवेत् । स्वकेन³ स्वकेन रूपदिक्कालभागेन किं दृश्यवस्तूनि पश्यति यानि द्रष्टुं प्रवृत्तेत्यध्याहारः । युक्तं⁴ ह्येतत्, यदि पुनरतथा विपर्ययेण⁵ पश्यन्ती भवति, तन्मिथ्या⁶ अज्ञानरूपा पश्यन्ती अथवा मिथ्या पश्यन्त्यु- दाहृता पश्यन्तीत्यर्थः । अविभक्ता तु तदा⁷ स्यात् भिन्नदृश्यवस्तव⁸- भावात् । पश्यन्तीत्वानुरोधात्तु यथास्थितरूपेण स्वरूपानतिक्रमेण वा पश्यन्ती विभक्तदृश्यवस्तुयुक्ता निर्विभागा कथं भवेदित्युक्तम् । स्वकमेव स्वाक्यम्९ ॥ १ यदुक्तं लक्ष्यलक्षणपदयोर्विरहः, लक्ष्यपदं पश्यन्ती, लक्षण- पदमविभागेत्यादि लक्षणं हि लक्ष्यसिद्धये प्रयुज्यते तद्विरहात्प्रत्युत विरोधावहं, तदाह यानि पश्यतीति । पश्यन्ती सकर्मकत्वाद्धि किंचित्कर्माक्षिपेत्येव । तच्च कर्मरूपं दृश्यं यदि तद्दृश्यवस्तुस्वरूपतद्देश- तत्कालभागमवलम्बते, तर्हि तस्य दृश्यस्य सम्यग्ज्ञानरूपत्वाद्भवदभ्युपगता पश्यन्ती युक्तैवः परंतु तत्र लक्षणविगमः तत्तद्दृश्यदेशकालस्वरूपत्वेन सविभागत्वान्निर्विभागा कथं संभसतीत्यर्थः । लक्षणव्यवस्थार्थं पुनराह अतथेति, न स्वकस्वरूपदेशकालसहितानि वस्तूनि पश्यति येन निर्विभागता- पवादः, किंतु तत्तद्देशकालरहितमेवेति चेत्तर्हि लक्षणाविगमेऽपि लक्ष्यस्यैवा- संभवादलं तेन । तथाहि स्वरूपदेशकालरहितं हि मिथ्याज्ञानं, तदुपादा- नात्सापि मिथ्येत्यर्थः । २ पश्यन्तीति निर्देशात् । ३ तत्तद्दृश्यस्य । ४ सम्यग्ज्ञानस्यैव युक्तात्वात् । ५ न स्वकेन रूपदेशकालेन । ६ प्रथमे नियमे मिथ्येति पृथक्पदन्, द्वितीये समुदायेन । तत्र द्वितीयस्य पश्यन्तीशब्दस्याध्या- हारः कर्तव्यः । ७ तदेति तत्तद्दृश्यानामस्वीयरूपादिग्रहणकाल इत्यर्थः । ८ पश्यन्ती हि ज्योतिरूपत्वान्न मिथ्याज्ञानप्रत्यवमर्शात्मिकेति । ९ स्वाक्य- मित्यत्र स्वार्थे ष्यञ्प्रत्ययः ।

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक) · पृष्ठ 68, कुल 188 में से · BharatKosha