शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 75, कुल 188 में से
संदर्भ में पढ़ें५८ शिवदृष्टिः [ आ०-२ आप्तानाप्तविचारो वा सर्वथैव निवर्तते ॥ ५९ ॥ भवद्भिः स्फोटः पश्यन्ती च नित्यत्वेनाभ्युपगतौ, ततः स्फोट एव वा पश्यन्ती स्यात् शब्दमात्रभेदात्, ततो वान्द्या, तत्र द्वैतं स्यात् । अन्यत्वपक्षे ऐक्ये वाभ्युपगते तत्पश्यन्त्याः संबन्धि सत्यार्थदर्शित्वं लभ्येत । 'अंगुल्यग्रे हस्तियूथशतमास्ते' इत्यनयाः वाक्यस्फोटप्रतीत्यात्र लोके न तु पश्यन्ती- संज्ञसत्यदर्शनरूपत्वेन सर्वस्य स्फोटस्य सत्याभिमतद्वाक्यात् विशिष्यमाणता लभ्यते । अन्यत्वपक्षे तु स्फोटस्य सत्यस्यापि असत्यार्थत्वं न दोषः१, पश्यन्त्यात्मनस्तु शुद्धसंविद्रूपस्य मिथ्यात्वं दोष एव पश्यन्त्यैक्येन स्फोट- सत्यार्थत्वात् । आप्तप्रणीतानाप्तप्रणीतत्वविचारो२ वा सर्वथा तदा निवर्तते सर्वेषामविशेषेण सम्यरूपत्वात्, पूर्वोक्तपश्यन्तीबहुत्ववन्नित्यस्फोटबहुत्वं ततश्चाद्वयहानिरित्येतदप्यत्र सूचितम् ॥ ५६ ॥ स्फोटस्य सत्यरूपैर्हि पदार्थैर्व्यङ्ग्यता कथम् । पश्यन्त्याः सत्यरूपाया असत्यैर्व्यङ्ग्यता न च ॥ ६० ॥ ताहग्व्यञ्जनसापेक्षा सा न किंचन जायते । स्फोटस्य च कूटस्थनित्यस्य सत्यस्य पदवर्णध्वनिभिरुपप्लुतैरकिं- चित्स्वरूपैरशक्तैरत्यन्तविजातीयैः कथं व्यंग्यता सत्यप्रकाशनसामर्थ्यं तेषां वानामप्यवयावान्तरैरित्यानन्त्यात् का व्यवस्था स्यात् । वर्णान्प्राप्य तु यद्यवयवकल्पनातो विरन्तव्यं तद्वाक्य एव निरम्यताम् । एवं पानकादि- वत्पदार्थेभ्योऽन्य एव वाक्यार्थरूपः स्फोट इति । यथा हि पानकं फाणितनारि- केलमरिचादिभ्योऽर्थान्तरमेव यथा च सिन्दूरलाक्षाहरितालादिभ्योऽर्थान्तर- मेव चित्रमिति सिद्धमेतत् । तत्र तयोः स्फोटशब्दब्रह्मणोरुभयोर्भेदे द्वैतापत्तिः । अभेदमेवमाहुः, यथा पदे वर्णा न सन्ति, वाक्येषु, पदानि न सन्ति तथा महावाक्येष्ववान्तरवाक्यान्यपि न स्युः, ततोऽपि महावाक्यान्यपि प्रकरणा- पेक्षया न स्युः, ततोऽपि प्रकरणान्यपि शास्त्रापेक्षया न स्युः, ततश्चैकमेवेदं शास्त्रतत्त्वमविभागमद्वयमापतति । इत्याक्षिप्ते तथाहूः । सत्यमेतत्, शब्द- ब्रह्मैवेदमद्वयमनाद्यविद्यावासनोपप्लवमानभेदमर्थभेदेन विवर्तते । न तु वाच- काद्भिभवतं वाच्यमपि नाम किञ्चनास्ति । तस्मात्काल्पनिक एवायं वाच्य- वाचकविभाग इति स्फोटवादः । तदनुपपत्तिं दर्शयति तदैक्येति वेति । १ अविद्योपगमात् । २ आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यं स्फोटस्य च नित्यत्वेनाप्तप्रणीतत्वम् । अतश्चानित्यत्वं वर्णात्मनः शब्दस्य, नासावर्थ-