शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 76, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ५६ सत्यतापत्तेः । पश्यन्त्यात्मत्वेऽपि च स्फोटस्यासत्यव्यञ्जकता तथैव न युक्ता, असत्येनाविद्यात्मनाव्यज्यमानालोकेन रूपमिव स्वयं प्रकाशनशक्त्या न किंचिदेवाविद्यैव सा स्यात् तावत्प्रपञ्चरूपैव अविद्येति कृत्वा १ ॥ पश्यन्ती २ वा प्रमाणेन केनासौ प्रतिपाद्यते ३ ॥ ६१ ॥ प्रत्यक्षस्यागोचरत्वादत्नुमानं प्रदूषितम् । भवद्भिरेव नाप्तस्याननुभूतार्थवक्तृता ४ ॥ ६२ ॥ प्रमाणेन वा केन पश्यन्ती भवद्भिर्व्यवस्थाप्यते । प्रत्यक्षं तावदत्र ५ चक्षुरादिमनोगोचरातिक्रमान्नास्ति । अवस्थेत्यादिना भवद्भिरेव तस्य दूषणाच्चानुमानं न सम्यगवबोधकम् । आप्तस्यापि नाननुभूतार्थवक्तृता, तदपि ६ न प्रमाणम् ॥ अथ ७ स्वानुभवेनैव पश्यन्तीं पश्य युक्तितः । एवं तर्ह्यपरस्यासौ पश्यन्ती कर्मतां गता ॥ ६३ ॥ यो हि पश्यति पश्यन्तीं स देवः परमो मतः । अथ भवन्तो ८ मामाहुः-स्वगतेनानुभवेन प्रमाणेन पश्यन्तीं युक्तितो योगात्समाधेरवधानात् पश्येति । एवं तर्हि अपरस्य स्वानुभवसंज्ञकस्य प्रमाणस्य पश्यन्ती कर्मत्वं प्राप्ता, ततश्च सा परमार्थत्वेनोपगता ९ न तथा स्यात् । यस्मात् स १० एव तदानीं पराकाष्ठाप्राप्तो देवत्वेन सर्वोत्कर्षेण भवतां मतः स्यात् यस्तामपि ११ सर्वदर्शिनीं पश्यति, ततश्च दर्शनत्यागः ॥ प्रतीतिहेतुरतो न प्रमाणम् । यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दस्तस्य नानित्यत्वं, न चाप्तप्रणीतत्वमिति सर्वथा व्यवस्थाप्तानाप्तभाषणे नश्येदेव स्फोटाभ्युपगमे । १ इत्यनेन विचारेण । २ प्रमाणव्यवस्थापितं हि वस्त्वस्तु, स्वरूपलक्षणाभ्यां मास्तु, तेनैव प्रमाणेन तस्य दृढं व्यवस्थापितत्वादिति प्रमाणमेव तावद्विकल्पयति पश्यन्ती वेत्यादिना । ३ दृढीक्रियते । ४ अनुभूतमेवार्थमाप्तोपि वक्तीत्यर्थः । ५ अत्र पश्यन्तीविवेके । ६ तदाप्त- वचनमपि । ७ ननु चानुभवाख्यसुदृढप्रमाणरक्षिते वस्तुन्यलमन्थेन प्रत्यक्षा- दिना प्रमाणेन बाह्यार्थनिष्ठेनान्तःस्वरूपेऽनभिज्ञातवार्तालेशेनापि इति समर्थयति अथ स्वानुभवेत्यादि । ८ पूर्वपक्षवादिनो मामुत्तरपक्षवादिनम् । ९ उपगता अंगीकृता तथा परमार्थभूता । १० स एव स्वानुभवः । ११ सर्वो- त्कर्षतामेवास्य दर्शयति यस्तामिति ।