शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 82, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६५ इति लक्षणेन१ दिग्देशकालैरवच्छेदो विशिष्यमाणता निषिद्धा। तच्चायुक्तं, परिमितदेशकालादर्थात्त्तस्यावच्छेदात्, अन्यथा२ सर्वदिक्कालादिविशेषण- भावे व्यापकत्वादि न स्यात् । व्यापको३ हि भवेत् सर्वदिक्षु अवश्यं वर्तमानः सर्वकालावच्छिन्नश्च४ नित्यः। व्यापकत्वमुपलक्षणं५ निर्दिष्टम् ॥ अथ दिक्कालविशेषावच्छेदाभावो मतः, तत्तथैव६ वक्तव्यं न सामा- न्येन न च तदपि युक्तमित्याह-- स्वानुभूतिर्वर्तमानकालेनास्य७ विभाव्यते ॥ ७३ ॥ एवं कालानवच्छेदः कथमस्योदितो हि तैः८ । यस्मिन् हि कालभागे स्थितः सांसारिकः प्रमाता तेनैव वर्तमान- कालेन भविष्यदादिना तदा तस्यावस्थानात् स्वानुभवविषयतास्योपलक्ष्यते, तत्कथं कालविशेषेणाप्यनवच्छेदः ॥ तेजस इति प्रकाशरूपत्वात् । शान्तायेति विकल्पोत्तीर्णत्वात् । तदेतदाभास- रूपतया न सम्यग्रूपमिति कथयति दिक्कालेति । १ असाधारणस्वरूपकथनं लक्षणम्। २ अयं भावः-यदि भवद्भिरत्र दिक्कालाकारविशेषणत्वेन तस्य विशेष्यस्य तदभावसाधनत्वमिष्टं, न तैरयं विशेष्यो भवतीत्येवं प्रकारं तर्हि परिमितादेव तत्सिद्धयति । न च तदिष्टम्, अथ किमिति परिमिता- देवेत्युच्यते । किमिति न सर्वस्मादित्युक्तो बाधमाहान्यथेत्यादि । ३ यदि हि भवतां सर्वस्माद्विशेष्यमाणत्वमिष्टं स्यात्तत्किमर्थं दिक्कालादिविशेषणत्वं निषिद्धम् । अनया हि भवदुक्तया तेऽपि किंचित्स्व- रूपका इत्युक्तं संभवत्येवेत्याह व्यापको हीत्यादि । ४ ननु च यथा भर्तृहरि- श्लोकेऽनन्त इदिशब्देन व्यापकत्वं नित्यत्वं चोक्तं तथैवात्रापि समर्थवाक्ये कथनीयमिति कथमुक्तम्- 'अवश्यं व्यापको यो हि सर्वदिक्षु स वर्तते ।' इति । ५ अत्र हि दिग्व्यापकत्वमेवोक्तं भवेदित्याशंकागर्भीकारेणाहोप- लक्षणं निर्दिष्टम् । तदाह सर्वकालावच्छिन्नश्च नित्य इति । ६ तत्तथा व्यापकत्वनित्यत्वे सिद्धे । तथैव विशेषतयैव । ७ न च भवद्भिरैतादृगेवा- नेनेष्टं येन दिक्कालविशेषावच्छेद एवेति कथयति स्वानुभूतिरिति । ८ यदि हि सर्वकालावच्छिन्नत्वेनैव भवतां कालानवच्छेद इष्टः स्यात्तत्स्वा- नुभूतीति वर्तमानकालानुभवविषयता कथमस्योच्येत ततश्च नैतद्भवता- मिष्टमिति सिद्धम् । ५