शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 83, कुल 188 में से
संदर्भ में पढ़ें६६ शिवदृष्टिः [ आ०-२ अनन्तस्यानुभूतिः¹ का परिच्छेदं विनात्मनः ॥ ७४ ॥ अनन्तेऽवगमः कुत्र² तेजस्वे शान्तता कथम् । असर्वगप्रमाणं हि मूर्त्तिर्नो³ लक्ष्यते चितः ॥ ७५ ॥ धातुषट्कोपगमाद्वेदवादे⁴ देशकालयोगोऽवश्यंभावीत्यनन्तत्वं देशकालपर्यवसानमुच्येत, अतश्चापर्यवसितदेशकालस्य⁵ सानुभूतिर्न तयोः संबन्धो युक्त इत्यर्थः । तथा⁶ हि आत्मनः स्वरूपस्य परिच्छेदमेयत्तां⁷ विना अनन्ते वस्तुनि कुत्रांशेऽवगमोऽस्तु भागानामपर्यवसानात् । अनन्तता⁸- प्रतीतिस्तु परिदृष्टतावतपदार्थनिषेधपुरःसरत्वेनाग्राह्याद्यन्तकोटिदीर्घ- वस्तुमात्रावसायिनी स्फुरति, न त्वनन्तेन रूपेणापरिच्छिन्नेनावभासन- संभवः । परिसमाप्तरूपनिश्चयो हि प्रतीतिः । तेजोरूपता चेत्, निरा- भासत्वाभावात् कथं शान्तता । तत्केयमुक्तिः 'शान्ताय तेजसे' इति । उपचारे च किं प्रयोजनम् असर्वगतद्रव्यपरिमाणं मूर्तिः काठिन्यं वा न चित् भवति, तत्कथं चिन्मूर्तय इति ॥ ७५ ॥ अत्रैव शब्दनित्यत्ववादिनो रूढतां गताः । अनादिनाथ तेनैव शब्दतत्त्वेन तुल्यता ॥ ७६ ॥ अन्ये वैयाकरणा एव स्फोटादन्यदेव शब्दात्मानं नित्यमिच्छन्ति, तत्रैव रूढाः । अथ तत्रापि⁹ तेषां पश्यन्तीरूपेणानादिनिधनात्मना शब्द- १ ननु 'निश्चयेनान्यसिद्धान्तं यो न वेत्ति बुधोऽबुधः । स्वयं स संशयानोऽन्यं कथं खण्डेत स्वल्पधीः ॥' इति नयेनानिश्चितपराशयेन कथं ग्राह्यते । तथा हि दिक्कालानवच्छेदे- नानन्तत्वं देशकालविप्रकृष्टत्वेन देशकालापर्यवसानमुच्यते । तथा च देश- कालसंनिकृष्टं वस्तु अव्यापकमनित्यं चोच्यते, देशकालविप्रकृष्टं तु व्यापकमिति नित्यमिति कथ्यते ततश्च का हानिरित्यत आह अनन्तस्यानु- भूतिः केति । २ अनन्ताय तेजसे इति यदुक्तं तदपि न युक्तमित्यत आह । ३ चिन्मात्रमूर्तय इति एतदपि मूर्तिभागं विदलयति । ४ नैयायिकादिमते । ५ यदि भवद्भिरनन्तत्वमुच्यत इति शेषः । ६ युक्त इत्यर्थ इत्यन्तं युगपदेव देशकालापर्यवसानत्वेन स्फुटमेवानन्त्यमिति निरस्यति । ७ देशेन कालेन च । ८ कुत इति समर्थयति । नित्यशब्दतत्त्वे । ९ तेषां नित्यशब्दात्म- तत्त्ववादिनाम् ।