शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 84, कुल 188 में से
संदर्भ में पढ़ेंआ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६७ तत्त्वेन तुल्या प्रमाणाभावादिदूषणता स्फोटात्मना¹ वा ॥ ७६ ॥ तदाह— आप्तानामभाषितत्वे विशेषो नास्ति शब्दगः । नित्यत्वे शब्दतत्त्वस्य व्यङ्ग्यत्वं ध्वनिभिर्न च ॥ ७७ ॥ व्योमवच्चेन्न तुल्यत्वं सदा व्योम्न्यनुमेयता । अनाप्तभाषितस्यापि नित्यत्वाविशेषात् तुल्यप्रमाणता² स्यात् । न³ च नित्यस्य ध्वनिभिः कदाचिद्व्यङ्ग्यत्वं युक्तं नित्यमेकरूपत्वेन व्यक्ताव्यक्ततायोगात् । अथ यथा नित्यमेकमपि चाकाशं ध्वनिभि- र्व्यज्यते घटाकाशादि वा घटादिभिः तथा शब्दोऽपीति । तन्न⁴ तुल्यत्व- मत्र, यतः सदा व्योम्नि शब्दगुणादिनानुमेयता न तु प्रत्यक्षाख्या व्यक्तिः । भवत्पक्षे⁵ न किं न्याय एष आयाति चेच्छिवे ॥ ७८ ॥ तथा रूपानुरूपत्वात्प्रसूतेः शिवरूपतः⁶ । सत्यत्वाच्च न तुल्य⁷त्वमतोऽस्मात्प्रविरम्यताम्⁸ ॥ ७९ ॥ १ तुल्येति संबन्धः । तत्तुल्यत्वमेवाह आप्तेति । २ तथा चाव्यवस्था न चेष्टेति भावः । ३ ननु च नित्यत्वेऽपि शब्दतत्त्वस्याप्ता- नाप्तभाषितव्यवस्था सिद्धयत्येव, नित्यत्वेऽपि ध्वनिभिरेव तस्य व्यङ्ग्य- त्वादाप्तध्वनिव्यंग्यत्वे सत्यता, अनाप्तध्वनिव्यंग्यत्वेऽसत्यतेति । तथा च न कश्चिद्दोष इत्यत आह न चेत्यादि । ४ तन्नेति न शब्दः काकाक्षि- वद्योज्यः । तन्नेति भग्नद्वचनमयुक्तमित्यर्थः । न हि तुल्यमत्रेति योज्यम् । ५ ननु च ‘अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत्’ इत्याप्तोक्ति- रेवैतादृग्विषयेऽनुमन्तव्या कोऽत्र निर्बन्धो ‘यद्याभासान्’ इत्यादि । तथा चाप्तोक्तत्वान्मौनमेवात्र शरणम् । नहि अचिन्त्येऽपि तर्कोद्युक्तस्य कदा- चिदपि सत्यार्थपरिनिष्ठितिः स्यात् । अथ चेत्तर्क एव शरणं, तर्हि किमिति भवद्भिर्वयमेव प्रत्याक्षिप्ताः । भवतामप्यत्र का युक्तिरित्याशंकापूर्वं स्वमतो- त्कर्षं प्रथयति भवत्पक्ष इत्यादिना । न किंशब्दः शिरश्चालने, न किमायाति आयात्येवेत्यर्थः । इति शब्दस्याध्याहारोऽत्र कर्तव्यः । ६ ‘रूपप्रसाररसतो गर्हितत्वमयुक्तिमत्’ इति प्रथमाह्निक एवोक्तत्वादित्यर्थः । ७ भवन्मतेन । ८ भवद्भिरत्र दूषणारोपणादिनेत्यर्थः । अथ वास्मात्प्रविरम्यतामिति