शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 90, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७३ तदनन्तरं निर्देशमर्हति । यतस्तैरेव१ ततः परावस्थातोऽनन्तरं शक्तिदशा किंचिदुच्छूनतेत्यादिनोक्ता ततो यैः शक्तेः परत्वं गीयते तैस्तया धर्म- भूतया धर्मी स्वाश्रयः स्वतन्त्रो वास्तवाभेदयुक्त्या देवः शिवः प्रकाशितः । अनिमित्तमेव२ तु विशेषात्मनि स्त्रीलिङ्गे किमित्यभिनिवेशः, पुंस्त्वं३ हि स्त्रीपुंसयोः सामान्यं लिङ्गं, नपुंसकं४ पुनः शक्ततापर्यायरूपं नैवं- विधविश्वेश्वरनिर्देशावसरे युक्तोपादानमित्यभेदाभिधानार्थं शक्तितद्वतोः पुंस्त्वेनोपपत्तिः ॥ १ ॥ तथा तद्व्यपदेशश्चेद्व्यपदेशः शिवात्मकः । तथा स्त्रीलिङ्गेन परमशिवस्यैव व्यपदेशो मतश्चेत्तत्सोऽपि व्यपदेश उक्तन्यायाच्छिवशब्दात्मकः५ कार्यः । अभेदमेवाह-- न६ शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥ २ ॥ शिवः शक्तस्तथा भावानिच्छया कर्तुमीदृशान् । शक्तिशक्तिमतोर्भेदः७ शैवे जातु न वर्ण्यते ॥ ३ ॥ शक्त्या रहितः शून्यो न यद्यपि शिवस्तथापि कथमैक्यं तदाह न शक्तिव्यतिरेकिणीति । तथाहि तेन तेनैव वैचित्र्येण ईदृशानति-
तत्पारतन्त्र्येणेति । तस्याः स्वयं स्वातन्त्र्यं व्याघातविरोधादिदोषप्रसङ्गा- दित्यर्थः । १ न च तेषामेतदनभिप्रेतं येन तदुक्तिरन्यवादिवत्प्रतिक्षेप्यपक्षे ; व्यवतिष्ठेतेत्याह यतस्तैरित । २ विशेषेण तत्पक्षं व्यवस्थापयति अनिमित्त- मित्यादिना । ३ का हानिरत्रेत्याह पुंस्त्वं हीति । ४ नन्वत्र यदि स्त्रीलिङ्गव्यपदेशे विशेषरूपत्वादोष आशंक्यते तर्हि पुंलिङ्गेऽपि शक्ति- मत्स्वरूपप्रख्यापके दोष आपतत्येव स्थूलदृशामिति निर्दोषं नपुंसकलिङ्गमेव गृह्यतां येन शक्तिरिति स्वातन्त्र्यं नपुंसकलिङ्गेनैव तन्निर्देश्टुमर्हतीत्यत आह नपुंसकमिति । ५ पुंल्लिङ्गं सामान्यमिति न्यायात् । ६ न चानयोः परस्परं भेदो युक्तः येन स्त्रीलिङ्गव्यपदेशोऽप्युपपत्स्यत इति स्वमतेन सिद्धान्तयति । ७ शैव इति प्रामाणिकत्वकथनार्थं, तेन च तेषामपि तद्व्यवस्थितिरेव दर्शिता नान्यदर्शनस्थितिरत एव वृत्तिकारेण स्वयूथ्यानिति कथितम् ।