शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 91, कुल 188 में से
संदर्भ में पढ़ें७४ शिवदृष्टिः [ आ०-३ दुष्करानिच्छामात्रेण शक्तः शिवः कर्तुमिति व्यवहारेऽप्यभेदः, शक्तितद्वतो- र्भेदाख्यानुपपद्यमानत्वात् शैवे न कदाचिदवान्तरादिभेदेष्वपि वर्ण्यते यथा- न्यत्राप्रामाणिकदर्शनेषु ॥ ३ ॥ तदेव विचारयन्नाह— शक्तेरेव स्वतन्त्रत्वात्कर्तुं भावान्विचित्रकान् । सामर्थ्यं यदि कल्प्येत तन्नामानन्त्यमेव वा ॥ ४ ॥ भेदे १ हि शक्तिः किं कार्यं करोत्युत च शक्तिमान् । तत्र यदि शक्तिस्तत्किमसौ २ शक्ता करोति अथाशक्ता, अशक्तस्य करणेऽतिप्रसङ्गः ३, शक्तत्वे ४ तस्याः शक्त्यन्तरयोगे शक्तचाश्रयस्य शिव- स्यैव ५ शक्तिरिति नाम स्यात् । अथ ६ शक्त्यैव सत्या भिन्नशक्तियोगस्तत्सैव भिन्नशक्तिः कार्यं कुर्यात्, कथं वा कुर्यादशक्ता, शक्तत्वे शक्त्यन्तरकल्पनेना- नवस्था स्यात् आनन्त्यापत्तेः ॥ १ अभेदेन व्यवस्थाप्य भेदं तयोः खण्डयितुमाह भेदे इति । २ ननु सत्यमेतत्— शक्तिशक्तिमतोर्भेदः शैवे जातु न वर्ण्यते ।' इति, तथापि यदेव शक्तिमतः शक्तित्वं नाम स्वातन्त्र्यं तेनैव तस्य शक्तिमतोऽपि स्वरूपलाभेऽपि शक्तिप्रसर इत्यलं शक्तिमत्स्वरूपविस्त्रम्भेण । येनोक्तं— 'तथा तद्व्यपदेशश्चैद्व्यपदेशः शिवात्मकः ।' इत्यादि, तत्र पृच्छति तत्किमसौ शक्तेति । ३ शून्यादपि सर्वभावोत्पत्तिः स्यात् । अनिष्टापत्तिः प्रसङ्गः । ४ तदेव शक्तत्वं यत्स्वात्मनि शक्त्य- विच्छेदः, शक्तिसमवायं विना शक्तत्वस्यैवानिर्वाहात् । ५ यदि च शक्ति- योगः शक्तेस्तर्हि फलितं ममैव मनोरथकल्पलतेत्याह शिवस्यैव शक्ति- रिति नाम स्यादिति । ६ अथेदानीमभेदपक्षे न कथंचनापि शक्तिव्यपदेशो यदि शक्तिवादी भेदपक्षमनयोराश्रुणोति तत्र विवेचयितुमाह अथेत्यादिना । यदुक्तं शक्तिमतः शक्तत्वं धर्मभूतं स्वभावकल्पमेव येन शक्तिमानिति व्यपदेशः । तन्न, भिन्नैव शक्तिः शक्तिमत इति तत्रापि पृच्छति तद्भिन्न- शक्तिरिति । अत्रापि पूर्ववन्न्यायः, अशक्तस्य करणेऽतिप्रसङ्गः शक्तत्वे पुनस्तस्याप्यन्यत्तस्याप्यन्यदित्यानन्त्यापत्त्यानवस्थाप्रसङ्ग इति ।