शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 93, कुल 188 में से
संदर्भ में पढ़ें७६ शिवदृष्टिः [ आ०-३ शक्तिं मुञ्चतो विविक्तस्य शिवभट्टारकस्याभ्युपगमे' .... तत्त्वात्स्वा- तन्त्रचे ज्ञेयनिष्ठत्वाभावस ... ... ... माप्नोति ज्ञेया- प्रकाशनात् तच्च ... ... ... अथवा निजशक्ति- त्यागे ......... हि तस्य स्वस्वात्तन्त्रचस्य...... तथैव ज्ञानं स्यात्...... शक्ति- मतः शक्तेः पृथग्भावेन प्रतीतिरस्ति केवलमेकस्मिन्नेव यस्मिन् वस्तुनि प्रतीतेः किञ्चिद्भवति२ तत्समानं शक्तं व्यवहारसारमेवमुच्यते३ शक्ति- मानिति४ ॥ तदाह-- न५ हिमस्य पृथक् शैत्यं नाग्नेरौष्ण्यं पृथग्भवेत् । शक्तिः शक्तत्वं शक्तस्य धर्मः, न च धर्मो धर्मिणो भिद्यते तथा६ हिमवह्न्योः शीतोष्णस्पर्शौ न पृथगुपलभ्येते ॥ ६ ॥ स्वतन्त्रस्य शक्तिमतः स्वभावभूतो धर्मः स्वभाववन्तं विना न कथनार्हमिति भावः। १ अभ्युपगमे' इति प्रभृति 'ज्ञानं स्यात्' इत्यन्तं निम्नलिखितः पाठः कपुस्तके दृश्यते—नास्त्यत्र भवतो विप्रतिपत्तिसम्भावनापि केवलं स्वातन्त्र्ये शक्तिमन्तं विनापि शक्तौ स्वभावभूते धर्मे ज्ञानं स्वतः संभावनानिष्ठापत्ति- रायाति, न चेष्टा, नहि भवतां--२ आधिक्यमिव तस्याः स्पन्दस्वरूपं किंचिच्चलनात्मकत्वात् । ३ किंचिच्चलत्ताव्यवहारसारम् । ४ इदमत्र तात्पर्यम्, एकमेवेदं स्वस्वभावाख्यं शक्तिगर्भं शक्तिमत्स्वरूपं तत्रैतादृशे यत्किचित्प्रतीतेराधिक्यं यदा स्फुरति, तत्तदा शक्तिरिति भण्यते । तदा- श्रयत्वेन च तत्समानं तदेकसङ्घट्टमीहग्व्यवहारसारं चलत्तात्मकस्वरूपा- भासनविश्रान्ति सामरत एव शक्तमिति तच्छक्तिसहितं शक्तिमानिति कथ्यते, न तु शक्तिशक्तिमतोर्वस्तुतो भेदो लक्ष्यत इति । ५ नन्वस्तु शक्ति- शक्तिमतोरभेद एव तथापि यथाग्नितदौष्ण्ययोर्हिमशैत्ययोश्चभेदेऽपि औष्ण्य- शैत्याभ्यामेव व्यवहारो नाग्निना नापि हिमेन तथानयोरपि चोभेदेऽपि शक्तद्वयवाद एव युक्तियुक्तः, न शिवाद्रयवाद इत्याशङ्क्याह न हिमस्येति । अयं भावः—सत्यमेव शक्त्यैव व्यवहारदर्शनात्तद्द्वयवाद एव वक्तुं युक्त- मित्येतद्यद्यपि तथापि न धर्मिणं विना धर्मो व्यवहारशक्तः । न हि हिमाग्नी विना शैत्यौष्ण्यस्पर्शो जातुचित्संभवति तद्व्यवहारेऽपि। तथा शक्तिसंबन्धेऽपि सर्वत्र तद्व्यवहारदर्शनान्न तथा धर्मिणं व्यवधाय व्यवहारो युक्त इति शिवा- द्वयवाद एव युक्तियुक्तोऽङ्गीकर्तव्य इति । ६ यद्यपि हिमवह्न्योरत्र दृष्टान्तत्वेन