शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 94, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७७ मन्त्रस्तम्भनतायां१ हि नासौ वह्निस्तदोच्यते । ७ ।। हेमादिवद्भास्वरं तद्द्रव्यं तैर्व्यभिचारितम् । यद्यौष्ण्यव्यतिरेकत्वे दृष्टान्तो दाहकाश्रयात् ॥ ८ ।। मन्त्रेणौष्ण्यस्तम्भनं२ यस्य तथा शक्तिव्यतिरेकता शक्तिमत उच्यते । तन्न इदं वह्नित्वं, तदभावे सत्यग्नेरौष्ण्यं नोपलभ्यते यतस्तदानीमसौ वह्निस्तेजोमयत्वेऽपि यथा सुवर्णादि द्रव्यं भास्वरम् । अथ तैरेव हेमादि- भिरग्निसंज्ञतेजोमहाभूतात्मभि( गिनसहचरितै )रेव दृष्टान्तो यदि ( शक्तिव्यतिरेकता शक्तिमत उच्यते तन्न दोषः यतो ) दाहकत्वेन श्रित उष्णः सन् ( स ) वह्निः शक्तिव्यतिरेके दृष्टान्तीकृतो न वह्निमात्रम् ॥ ८ ॥ शैवैः३ सद्भिर्वाच एव पश्यन्त्यादिक्रमे स्थिताः । कल्पितास्तैरशैवत्वमात्मनः प्रतिपादितम् ॥ ९ ।। अन्यच्च यैः शक्तिवादिभिः-- 'यस्या निरुपधिज्योतिरूपायाः शिवसंज्ञया । व्यपदेशः.....................................,' इत्येवमभिधानात् शैवदर्शनस्थितेरपि सद्भिर्वाच एव क्रमव्यवस्थिताः पश्यन्तीमध्यमावैखरीसंज्ञाभिर्विश्वात्मतया कल्पिताः, यदाहुः-- व्यपदेशो युक्तः तथाप्यनुभवशालिनामौत्कर्षख्यापनाय दाष्ट्रान्तिकत्वेन योजित इति बोध्यं तदाह तथेति । १ ननु च यथा मन्त्रेणौष्ण्यशक्तिस्तम्भने- ऽपि वह्नेर्भासमानत्वात् वह्निरयमिति सर्वोऽपि प्रत्येति, तथा शक्तिव्यतिरेके- ऽपि तस्य व्यवस्थानात् कथनुक्तं 'मुञ्चतोऽपि' इत्यादि । तथा, यथा च तत्र पृथगेवान्यथा कथं मन्त्रेण स्तम्भनं सिद्ध्येदिति, तथा च कथमनयोरभेद इत्यत्र समर्थयति मन्त्रस्तम्भनेत्यादि । २ मन्त्रेणौष्ण्यस्तम्भनं यस्य तस्य वह्नेर्यथा शक्तिर्व्यतिरिक्तैव तथा तच्छक्तिस्तम्भनतायां वह्निः स्वरूपेण तिष्ठते, न तु तेनैव वह्निरिति ज्ञानम् । तथा शक्त्यपगमे शक्तिर्व्यतिरिक्ता । न च शक्त्यैव शक्तिमत्स्वरूपव्यपदेश इत्यर्थः । ३ अथेदानीं स्वातन्त्र्यापर- पर्यायशक्त्यद्वैतपक्षेऽनुपपन्नेऽपि चान्ये शक्तिवादिनः पुनरपि प्रत्यवतिष्ठन्ते । पश्यन्त्यादिवाच एव समन्ताद्विश्वमागूर्य यतो वर्तन्ते ततो वाचः शक्ति- रूपत्वाद्व्यागद्वैतमयं शक्त्यद्वैतमयं सर्वं विश्वम् । अलं शिवाद्वैतवादेनेत्यत आह शैवैरित्यादि ।