भारतकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 95, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 95

७८ | शिवदृष्टिः | [ आ०-३ “.........................यावन्नोन्मेषभागणुः । न तावदर्थे वर्तत स चोन्मेषः क्रिया मता । क्रिया च नानारूपैव...................” इत्युपक्रम्य-- 'स्वस्वभावस्थितिं मुक्त्वा तस्मान्नान्यास्ति सा दशा । शिवे यस्यां न वाग्रूपं सूक्ष्ममप्राप्तसंनिधिः ॥' इति तैरशैवत्वमात्मन उक्तम् ॥ ९ ॥ तथाहि-- शैवे वाच इन्द्रियत्वमथ¹ नादादिनोदिता । तदभ्यासे फलावाप्तिः सूक्ष्ममन्त्रस्वरूपता ॥ १० ॥ कथिता कालपादादौ² नादाख्यं यत्परं त्विति । परापरादिभेदश्च तत्रैव³ प्रतिपादितः ॥ ११ ॥ इत्यनेन वर्णितात्र वाच एव परात्मता । शैवे हि वाचः सांख्य इव कर्मेन्द्रियत्वमेवात्यन्ताधस्तनदशायाम् । अथ 'नादे प्रलीनचित' इत्यादिना वाच एव फलावाप्तिः कथिता सूक्ष्म- मन्त्रात्मकता कालोत्तरादौ-- 'नादाख्यं यत्परं बीजं.........।' इत्यादिना परापरादिभिन्नता चोक्ता इति, तस्मादनेन शैवग्रन्थेन वाच एव परात्मता कथमयुक्ता । परं त्विति तुशब्दः पादपूरणे ॥ नैतन्न¹ वाचः कथितं पतिशब्दस्य वर्णितम् ॥ १२ ॥ शब्दस्य विषयाख्यस्य न कदाचिदुदाहृतम् । १ अथेत्यत्रायं भावः,—वैयाकरणैर्हि करणरूपा बुद्धीन्द्रियादप्यति- निकृष्टकर्मेन्द्रियरूपा पशुप्रमातृभिस्तिर्यगादिभिः साधारणा ध्वनिजनिका- हङ्कारवृत्तिरेव काचिद्वाक् पाण्यादिवदभ्युपगता कथं तत्र परत्वमिति । अथ सामान्यं स्थूलसूक्ष्मरूपमाश्रित्य पृच्छत्यथेत्यादि । २ शैवतन्त्रे एव । ३ कालपाद एव । १ अत्र हि अहमिति वाक् शुद्धकर्तृत्वप्राणा असंकुचितमहामन्त्रमयी शब्दनरूपा या तस्या एवैतदुक्तमित्यर्थः । ये पुनरमी मायीया वर्णाः शब्दात्मानस्ते घटादिस्थानीयास्तदुत्थापकं चाविकल्प- सविकल्परूपं पश्यन्तीमध्यमात्मकं ज्ञानं ज्ञानान्तरस्थानीयं च तन्निवर्तकं

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक) · पृष्ठ 95, कुल 188 में से · BharatKosha