शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 96, कुल 188 में से
संदर्भ में पढ़ेंआ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७६ तदेतन्न, नहि वागिन्द्रियस्य बद्धाणुव्यवस्थितस्य तत्तत्र १ कथितम्, विषयाख्यस्य वा शब्दस्य तत्परत्वं कदाचित् क्वचित्प्रतिपादितम्, अपि तु पतिभावे ईश्वरतासमापत्तौ यो महामन्त्रमयः शब्दनात्मा तस्योक्तम् ।। १२ ।। तथा चाह खेटपालः शब्दराशेर्विशेषताम् ।। १३ ।। स्वायम्भुवस्य टीकायां बाढमित्यादिना गुरुः । तथा मतङ्गटीकायां व्याख्यानिगुरुणोदितम् ।। १४ ।। मन्त्राणां परशब्दानामुक्तं २ वाचो न जातुचित् । खेटपालगुरुः श्रीस्वायम्भुवशास्त्रटीकायां 'किं शब्दराशेर्विशेषोऽस्ति' इत्याक्षिप्य, 'बाढम् एकः शिवात्मकोऽन्यश्च पाशात्मकः' इत्यादिना परतवेन शब्दराशेर्मन्त्ररूपस्य कर्तृशक्ताववस्थानात् विशिष्यमाणतानाह न तु शब्द इत्येव कृत्वा शब्दराशेर्निर्विशेषत्वम् । तथा व्याख्यानिसंज्ञकेन गुरुणा मतङ्गटीकायामेवमेव विशिष्टमुक्तम् । तथोक्तं 'प्रमातृभूमिगतानां मन्त्राणां परभूमिगतानां च शब्दानां न तु वागिन्द्रियस्य कदाचित्, वागिन्द्रियं हि मायापद एव स्थितं, शब्दस्तु परतन्मात्ररूपः परव्योममहाभूतमयः परमेश्वरस्य पञ्चब्रह्मविन्यासे वक्त्रमुच्यते' । दर्शितं चैतदीश्वर- प्रत्यभिज्ञायाम् ।। तत्र ३ वा तदुपायत्वात्परत्वेनोपचारिता ।। १५ ।। च वागिन्द्रियं पाण्यादिस्थानीयं द्वैतात्मकमायापक्षनिक्षिप्तं च तत्कथमिव परतत्त्वं स्यादिति । ननु यत्र तत्रापि स्वकृत्यप्रसाधकत्वं दृश्यते तत्र किं कथनीयम् । अत्रोच्यते तत्तु 'अपि त्वात्मबलस्पर्शात्' इति परतवबलस्पर्श- कृतमिति । १ तत्र, कालोत्तरादौ । २ उक्तं वाचो न जातुचिदिति, अत एव भट्टनारायणेनाप्युक्तम्-- 'सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्युल्लासितानन्दमहिमा परमेश्वरः ॥' इति । अत्र च पश्यन्तीशब्देन श्रीसदाशिवभूमिर्ज्ञानशक्तिस्वभावा योक्ता असौ महापश्यन्तीनां प्रत्यगात्मरूपाणामविभागात्मिका परममहापश्यन्ती, तया च योऽसावानन्दमहिमा परमस्वातन्त्र्यात्मोल्लसनीयः सा भगवतः परा वागिति । ३ ननु किमिदमुच्यते-- 'शैवैः सद्भिर्वच एव पश्यन्त्यादिक्रमे स्थिताः ।' 'तैरशैवत्वमात्मनः प्रतिपादितम्'