शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा
पृष्ठ 97, कुल 188 में से
संदर्भ में पढ़ें८० शिवदृष्टिः [ आ०-३ किरणेषु तथा चोक्तं नादबिन्दादिनेदृशम् । अथ परमन्त्रशब्दप्राप्त्युपायत्वात् परत्वं पश्यन्त्या एवोपचारयोगेन मतम् । तथा च श्रीकिरणसंहितायां नादबिन्दादिनेवंविधमुपचारवस्तु कथितम् ॥ तदुपायत्वात्परत्वं चेद्दीपादेरप्युपायता ॥ १६ ॥ किरणादावन्यथा¹ तदुक्तं, तत्र तदुपायमात्ररूपत्वात्परत्वं दीपा- देरपि ज्ञानोपायत्वात्परताप्रसङ्गादित्येषां शैवदर्शनस्थानां पश्यन्ती²- परत्ववादोऽनुपपन्नः । पूर्वोक्तनीत्या च स्वतन्त्रशक्तिवादः प्रकृतो³- ऽप्येषामयुक्तः ॥ १६ ॥ तस्मात्समग्राकारेषु⁴ सर्वासु प्रतिपत्तिषु । विज्ञेयं शिवरूपत्वं स्वशक्त्यावेशनात्मकम् ॥ १७ ॥ तस्मात् शक्तिमात्रवादस्यानुपपन्नतत्वात् सर्वासु प्रतीतिषु इन्द्रियमनो- मात्रजन्यासु ये स्फुरन्ति आकारास्तेषु सर्वेष्वेव शक्तिमद्भगवच्छिवरूपत्वं स्थितं ज्ञेयं पूर्वोक्तसर्वनिजशक्तिसामरस्यमयमपदेशगम्यम् ॥ १७ ॥ इत्यादि । यतः पश्यन्तीज्ञानशक्तिमयीत्वादस्याः परसंविदुपायत्वात्परत्व- मुच्यते । दृश्यते हि उपायत्वेप्युपेयतारोपः, यथा--परेशविमर्शोपायत्वा- च्छास्त्रस्य संविद्विमर्श एव शास्त्रमिति भण्यते तथेहापीत्याशङ्क्याह तत्र वेत्यादि । १ यदा सदाशिवसारत्वेऽहमिति चमत्कारितरन्तःकृतानन्तविश्वे- दन्ताचमत्कृतिपूर्णवृत्तिः स्यात्पश्यन्ती स्वात्मानं परसंवित्परामर्शात्मकं करोति तदा तदुपायत्वात्परत्वं केनापह्नूयत इत्याहान्यथेति । २ पश्यन्त्या- मेव तात्पर्येण यत्परत्वं तद्वाच इत्यर्थः । ३ अनेन पश्यन्तीपरत्वोपगम एषामप्रकृत एवेत्यर्थः । ४ इदानीं सर्वमतानुपपत्त्या यत्सिद्धं तत्कथयति तस्मादिति । तदिदानीं शक्त्यद्वयवादः कथञ्चनापि नोपपन्न इति स्थिते यत् फलितं तदाह तस्मादिति, आकारः पदार्थवपुः, प्रतिपत्तिस्तदाकारप्रति- ज्ञानकारणं, तदेवं स्थितं द्वितत्त्वमयमेव सर्वं विश्वं तदन्तर्भावात्सर्वस्य तेन सर्वमेव यत्किञ्चित् षडध्वजातं तत्सर्वमेव ग्राह्यग्रहणमयमेव । तत्र सर्वत्र शिवरूपत्वं तत्सर्वं शिवमयमेश । आधारनिर्देशस्तु ऽउपदेश्यजनापेक्षया । ननु ‘नाप्रकाशः प्रकाशते’ इति नीत्या सिद्धमेवैतत् कोऽत्र चमत्कार इत्यत आह--‘स्वशक्त्यावेशनात्मकम्’ इति, पञ्चशक्तिसामरस्यात्मकं यच्छैवतत्त्वं तदेव सर्वं घटादिपदार्थजातमपीत्यर्थः ।