भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 100, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 100

१२ बालबोधः । फलम् । साधनं च तन्निष्ठं निरुपाधि प्रेम । तच्च, “मन्निष्ठं निर्गुणं स्मृतमि”ति वाक्यात्तादृशमेव । एतच्च फलदशायामेव भवतीति प्रथमाधिकारे जीवानां सहजदुष्टत्वं तन्निवृत्ति- प्रकारं चाऽऽहुर्जीवाः स्वभावतो दुष्टा इति । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६ ॥ श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति । मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवतस्तथा ॥ १७ ॥ समर्पणेनाऽऽत्मनो हि तदीयत्वं भवेद्ध्रुवम् । स्वभावत एव दुष्टाः । न तु स्वरूपतः । भगवदंशत्वादित्यर्थः । “ममैवांशो जीवलोक” इति भगवद्वचनात् । “अंशो नानाव्यपदेशादि”ति वेदान्तसूत्राच्च । अथवा । ननु लौकिकमोक्षस्य जीवविचारितत्वाद- नङ्गीकरणं युक्तमेव । परं वेदोक्तस्य तस्येश्वरविचारितत्वादङ्गीकार उचित इत्यत आहुर्द्वितीयार्थे इति । द्वितीयो वैदिको मोक्षस्तदर्थं श्रम आयासो महान- धिक इत्यर्थः । तेनाऽतिकष्टसाध्यत्वात्किं तत्कथनेनेति भावः । तेन लौकिकवैदिक- भक्तिमार्गीयेषु क्रमेण शत्रुदासीनमित्रभावा उक्ता भवन्ति । तर्हि किमुद्दिश्य किं कर्त्तव्यमिति चेत्तत्राऽऽहुर्जीवा इति, स्वभावतो दुष्टा इत्यर्थः । (तथा च) जीवानां सहजभगवदंशत्वेन सहजभगवद्दासत्वेन तत्सेवालक्षणस्वधर्माकरणं स्वभावदोष उच्यते । अतस्तेषां दोषाऽभावाय श्रवणादि भगवच्छ्रवणकीर्त्तनादि सर्वदा निरन्तरं कर्त्तव्यत्वेन साधनमिति शेषः । ततः कः पुरुषार्थ इत्यत आहुस्तत इति । ततो दोषनिवृत्त्यनन्तरं श्रवणादितो वा भगवति प्रेम्णि जाते तेनैव तेषां सर्वमैहिकं पार- लौकिकं च कार्यं सिद्ध्यति । न किञ्चिदवशिष्यत इत्यर्थः । ननु पारलौकिकत्वेन मोक्षो वक्तव्यः । “कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेदि”ति वचनात् । एवं सति कथं मोक्षस्याऽनपेक्षितत्वमात चेत् । एवम् । कीर्त्तनादेवेत्येवकारो मोक्षे कीर्त्तनातिरिक्तसाधनव्यवच्छेदको, न तु कीर्त्तनस्य मोक्षैकफलत्वसूचकः । तथा सति प्रेमरहितस्य मोक्षसाधनत्वेन कृतस्य तस्य स एव फलम् । प्रेमसहितस्याऽतथा कृतस्य न तत्फलमिति व्यवस्था । अन्यथा भगवानपि कथमेवं वदेत्, “सालोक्य- साष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानां न गृह्णन्ति विना मत्सेवनं जना” इति । तेन भगवानपि तादृशेभ्यो भजनातिरिक्तं फलं न ददातीति सूचितम् । तथा च १ प्रियभावा इति क. २ पदमिति ख, ग.