षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 100, कुल 408 में से
संदर्भ में पढ़ें१२ बालबोधः । फलम् । साधनं च तन्निष्ठं निरुपाधि प्रेम । तच्च, “मन्निष्ठं निर्गुणं स्मृतमि”ति वाक्यात्तादृशमेव । एतच्च फलदशायामेव भवतीति प्रथमाधिकारे जीवानां सहजदुष्टत्वं तन्निवृत्ति- प्रकारं चाऽऽहुर्जीवाः स्वभावतो दुष्टा इति । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६ ॥ श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति । मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवतस्तथा ॥ १७ ॥ समर्पणेनाऽऽत्मनो हि तदीयत्वं भवेद्ध्रुवम् । स्वभावत एव दुष्टाः । न तु स्वरूपतः । भगवदंशत्वादित्यर्थः । “ममैवांशो जीवलोक” इति भगवद्वचनात् । “अंशो नानाव्यपदेशादि”ति वेदान्तसूत्राच्च । अथवा । ननु लौकिकमोक्षस्य जीवविचारितत्वाद- नङ्गीकरणं युक्तमेव । परं वेदोक्तस्य तस्येश्वरविचारितत्वादङ्गीकार उचित इत्यत आहुर्द्वितीयार्थे इति । द्वितीयो वैदिको मोक्षस्तदर्थं श्रम आयासो महान- धिक इत्यर्थः । तेनाऽतिकष्टसाध्यत्वात्किं तत्कथनेनेति भावः । तेन लौकिकवैदिक- भक्तिमार्गीयेषु क्रमेण शत्रुदासीनमित्रभावा उक्ता भवन्ति । तर्हि किमुद्दिश्य किं कर्त्तव्यमिति चेत्तत्राऽऽहुर्जीवा इति, स्वभावतो दुष्टा इत्यर्थः । (तथा च) जीवानां सहजभगवदंशत्वेन सहजभगवद्दासत्वेन तत्सेवालक्षणस्वधर्माकरणं स्वभावदोष उच्यते । अतस्तेषां दोषाऽभावाय श्रवणादि भगवच्छ्रवणकीर्त्तनादि सर्वदा निरन्तरं कर्त्तव्यत्वेन साधनमिति शेषः । ततः कः पुरुषार्थ इत्यत आहुस्तत इति । ततो दोषनिवृत्त्यनन्तरं श्रवणादितो वा भगवति प्रेम्णि जाते तेनैव तेषां सर्वमैहिकं पार- लौकिकं च कार्यं सिद्ध्यति । न किञ्चिदवशिष्यत इत्यर्थः । ननु पारलौकिकत्वेन मोक्षो वक्तव्यः । “कीर्त्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेदि”ति वचनात् । एवं सति कथं मोक्षस्याऽनपेक्षितत्वमात चेत् । एवम् । कीर्त्तनादेवेत्येवकारो मोक्षे कीर्त्तनातिरिक्तसाधनव्यवच्छेदको, न तु कीर्त्तनस्य मोक्षैकफलत्वसूचकः । तथा सति प्रेमरहितस्य मोक्षसाधनत्वेन कृतस्य तस्य स एव फलम् । प्रेमसहितस्याऽतथा कृतस्य न तत्फलमिति व्यवस्था । अन्यथा भगवानपि कथमेवं वदेत्, “सालोक्य- साष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानां न गृह्णन्ति विना मत्सेवनं जना” इति । तेन भगवानपि तादृशेभ्यो भजनातिरिक्तं फलं न ददातीति सूचितम् । तथा च १ प्रियभावा इति क. २ पदमिति ख, ग.