षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 99, कुल 408 में से
संदर्भ में पढ़ेंश्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । ११ किञ्च । भगवदीयातिरिक्तस्याऽपि विषयसम्पत्तिर्न तेन सम्पाद्यते । येन भक्तानामपि तथोच्येत । किन्तु कस्यचिदेवेत्याहुरतिप्रियायेति । अतिप्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयत्वं तदाश्रयः ॥ १५ ॥ प्रत्येकं साधनञ्चैतद् द्वितीयार्थे महाञ्छ्रमः । तेन यद्दीयते तदतिप्रियाय स्वस्याऽत्यन्तभक्ताय न तु यस्मै कस्मैचिदित्यर्थः । तादृशेनाऽप्यपराधं चेत्कुप्यत्येव न तु क्षमते कदाचिदित्याशयेन तत्रापि नियमो नेत्याहुः, क्वचिदेव, न तु सर्वत्र । हि युक्तोऽयमर्थः । "ये यथा मां प्रपद्यन्ते" इति वाक्यात् । यथा नियतं फलं भक्तेभ्यो भगवान्प्रयच्छति न तथाऽन्यो दातुं शक्नुयात् । अनीश्वरत्वादिति । अत एव “अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम्"ति सार्वकामिकं भगवद्भजन- मेवोक्तम् । ननु शिवस्याऽर्थदातृत्वं नियतमनियतं वा भवतु, ततोऽत्र किमागत- मित्यत आहुः—नियतार्थप्रदानेनेति । नियतं चेदर्थप्रदानं तस्योच्येत तदा भगवदीयानामप्यर्थस्य तदीयत्वं तत्सम्पादितत्वं स्यात् । वहिर्वैलक्षण्याप्रतीतेः । नन्वर्थस्य तथात्वे को दोष इति चेत्तत्राऽऽहुः—तदाश्रय इति । तस्यैवाऽर्थ- दातृत्वनिश्चये भगवदीयानां तदपेक्षायां तस्यैवाऽऽश्रयो भवेदित्यर्थः । न चैतद्युक्तम्, निषेधश्रवणात् । "सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजे"ति । "मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि" इति च । तथा च भगवदीयातिरिक्तस्य मोक्षा- पेक्षायां विष्णुभजनं, भोगापेक्षायां शिवभजनमिति व्यवस्थापितम् ॥ १५ ॥ न तूभयापेक्षायामेकेनाऽपि तत्सिद्ध्यतीत्याहुः प्रत्येकं साधनं चैतदिति । एतद्विष्णुभजनं शिवभजनं च प्रत्येकमेकं मोक्षसाधनमपरं भोगसाधनम् । न त्वेकमुभयसाधनमित्यर्थः । तेनोभयाकाङ्क्षिभिर्भगवान्नेवाऽऽश्रीयतामिति ज्ञापितम् । ननु भक्तिमार्गे "स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिन" इति वाक्यादुभयोरनपे- क्षितत्वेन किं तदाश्रयेणेत्यत आहुर्द्वितीयार्थ इति । एको लौकिको मोक्षश्चतुर्द्धा पूर्वमुक्तो, द्वितीयस्त्वलौकिको भक्तिमार्गीयः। तदर्थं यः श्रमः तन्मार्गीयसाधनाचरण- लक्षणः स महान्, पूर्वोक्तापेक्षया साधनतः फलतः स्वरूपतश्चाऽप्युत्कृष्ट इत्यर्थः । इदमत्राऽऽकूतम् । विष्णोः सात्त्विकत्वात्तत्र लयः सात्विको मोक्षः । यत्र फलस्य सदोषत्वं तत्र साधनं सुतरां तादृशमेव । भक्तिमार्गे तु निर्दोषपूर्णगुणविग्रहः श्रीकृष्णः १ भगवदीयातिरिक्तस्याऽपि जीवमात्रस्येति ख, ग. २ पूर्वोक्तमोक्षसाधनतः इति क.