षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 104, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतः बालबोधः । श्रीपुरुषोत्तमचरणविवृतिसमेतः । जयन्ति श्रीमदाचार्यवाचोऽर्थामृतवर्षिण्यः । पुमर्थादिगतभ्रान्तितापो याभिर्निवारितः ॥ १ ॥ नन्विहाऽनादौ संसारे केचन लोकायतिकास्त्यागभोजने प्रशंसन्ति । अन्ये पुनः स्वार्थमैश्वर्यादिकमेव बहु मन्यन्ते, वदन्ति च, "नमोऽस्तु राज्यवृक्षाय षाड्गुण्यगुरु- शाखिने । सामादिचारुपुष्पाय त्रिवर्गफलदायिने" इति । अपरे कीर्त्यर्थमेव यतन्ते, वदन्ति च, "यावत्कीर्तिर्मनुष्यस्य पुण्या लोकेषु गीयते । तावद्वर्षसहस्राणि पुण्यलोके महीयते" इति । केचन पुनः कामानेव साधयन्ति, वदन्ति च, "शरीरस्थितिहेतु- त्वाहाहारसधर्माणो हि कामाः फलभूताश्च धर्मार्थयोस्सन्ति"। तथेतरे स्मार्त्ताद्याचा- रम्, वदन्ति च, "धर्मादर्थश्च कामश्च स किमर्थं न सेव्यत" इति । "आचारप्रभवो धर्म" इति । "शौचाचारविहीनानां समस्ता निःफलाः क्रियाः" इति । अन्ये तु धर्म एव प्रवर्त्तन्ते, वदन्ति च, "मोक्षार्थी न प्रवर्त्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमि- त्तिके कुर्यात्प्रत्यवायजिहासये"ति । केचन तपसि, "तपसा देवा देवतामग्र आयन्नि"- त्यादिश्रुतेः । तथाऽन्ये साङ्ख्ययोगविदः संन्याससत्यशमदमादिषु, "न्यास इत्याहु- र्मनीषिण" इति, "सत्येन वायुरावाती"ति, "शमेन शान्ताः शिवमाचरन्ती"ति, "दमे- न दान्ताः किल्बिषमवधुन्वन्ती"ति श्रुतेश्च । इतरे शिवमुपासते । अन्ये च विष्णुम् । ततस्ततश्च सफलां सिद्धिं मोक्षं चाऽऽहुः । प्रभुभिश्च भक्तिमार्ग उपदिष्ट इति किमस- ङ्ख्याताः पुमर्था, उत नियताः । यदि नियतास्तर्हि किं तुल्या उत गुणप्रधानभूताः । यदि गुणप्रधानभूतास्तर्हि गुणभूतानां साधनानां फलं प्रति समुच्चयो विकल्पो वा । व्यवस्थिर्तिवा । फलं च किमेकमुताऽनेकम् । इति सन्दिहानानां स्वानां सन्देहजनकं तत्र तत्रोपादेयताभ्रमं वारयितुं मङ्गलवाक्य एव मुख्यं फलं साधनव्यवस्थां च सूच-