षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 103, कुल 408 में से
संदर्भ में पढ़ेंश्रीदेवकीनन्दनचरणकृतप्रकाशव्याख्योपेतः । १५ अन्यथा तदकरणे भारद्वैगुण्यं द्विगुणो भारो भवेदित्यर्थः । फलाभावात्साधनकृतः तदकरणप्रत्यवायकृतश्चेति भारद्वयम् । उक्तमुपसंहरन्तीतीति । इतीति समाप्तौ । एवमुक्तप्रकारेण यावद्वक्तव्यं तावत्सर्वं कथितमित्यर्थः । ननु ततः किमत आहु- नैतज्ज्ञान इति । एतज्ज्ञाने जाते सति पूर्वस्थितो भ्रमो गच्छति । गतः पुनः परावृत्य न भवतीत्यर्थः ॥ १९१/२ ॥ चतुर्द्धा लौकिको मोक्षः सदोषत्वान्निरकृतः । अतस्त्वलौकिको मोक्षः स्वीकार्यो भगवत्परैः ॥ १ ॥ अन्ततोऽर्थोऽयमेवास्य ग्रन्थस्य फलितोऽभवत् । एवमाचार्यकृपया बालबोधः प्रकाशितः ॥ २ ॥ विविधमतनिरूढभ्रान्तिगूढस्वमार्ग- प्रचलितजनतायाः सुस्थिरत्वाय यत्न । स्वमतमवददङ्घिर्बालबोधे तदर्थं कुरुत मतिमवश्यं सप्रकाशे तदीयाः ॥ ३ ॥ १ इतः परम्— ‘ श्रीमल्लक्ष्मणसूनुना विरचितः पुष्ट्यर्थमोक्षप्रदो भक्तानाशुभयोस्तु तन्मतिमतां सर्वस्वमस्मिन् कलौ । श्रीमद्विठ्ठलदीक्षिताङ्गिकमलोन्मत्तस्रकालिना श्रीमद्देवकि(?)नन्दनेन विवृतः श्रीबालबोधो मया ॥’ इति पद्यमधिकमुपलभामहे ख. इति श्रीदेवकीनन्दनचरणकृतौ बालबोधप्रकाशः समाप्तः । २ इतः परम्— तारापण्डितानां द्वे पद्ये “ निजोद्धरणहेतवे कपटमानुषीमाश्रित- स्तनुं सुरनरार्चितां विदितविठ्ठलेशान्वये । असूत्त रघुनाथतो यमिह जानकी नन्दनं स एष जगदीश्वरो जयति देवकीनन्दनः ॥ तस्याऽऽज्ञया तत्कृतबालबोध- प्रकाशसंज्ञो महनीयकीर्तेः । ताराभिधेनाऽयमलेखि रम्यो ग्रन्थो भवग्रन्थिविनाशिसेव्यः ॥” इति पद्यद्वितयमधिकमुपलभामहे ख.