षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 110, कुल 408 में से
संदर्भ में पढ़ें२२ बालवोधः । मोक्षः प्रतिपादितः । ततः "एवं तत्त्वाभ्यासान्नाऽस्मि न मे नाऽहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्"तीश्वरकृष्णाचार्येणाऽहन्ताममतात्यागो ज्ञानसाधनत्वेनोक्तः । साङ्ख्यप्रवचनेऽपि "तत्त्वाभ्यासान्नेति नेति त्यागाद्विवेकसि- द्धिरि"तिसूत्रितम् । अर्थस्तु धर्मवैराग्यैश्वर्याधर्माज्ञानावैराग्यानैश्वर्याख्यैः सप्तभी रूपैः प्रकृतिः पुरुषं बध्नाति । एकेन ज्ञानेन रूपेण सैव मोचयतीति तत्त्वाभ्यासात्पौनः- पुन्येन मननात् पूर्वप्रतिपादितैर्न्यायैरनात्मनां त्यागाद्विवेकस्य सिद्धिर्दृढभूमित्वं भवतीति । तथा चैवं मोक्षसाधनत्वेनोक्तः । अतस्त्यागेन स्वायत्तमोक्षबोधकं साङ्ख्य- शास्त्रमित्यर्थः ॥ ५ ॥ ६ ॥ अतः परं यदर्थमिदं साधनमुक्तं तस्य मोक्षस्य स्वरूपमाहुरहन्तेत्यादि । अहन्ताममतानाशे सर्वथा निरहङ्कृतौ । स्वरूपस्थो यदा जीवः कृतार्थः स निगद्यते ॥ ७ ॥ पूर्वोक्तरीत्या प्रकृतिप्राकृतत्यागेन स्थूललिङ्गशरीराहन्तायास्तत्परिकरममतायाश्च नाशे सति बुद्धितत्त्वस्थे स्वप्रतिबिम्बेऽभिमानाभावेन कर्तृत्वभोक्तृत्वाभावात्सर्वथा निरहङ्कृतौ सर्वथोदासीनत्वे सति स्वरूपस्थो "जडप्रकाशयोगात्प्रकाश" इति सूत्रानिर्विषयप्रकाशात्मत्वेन विद्यमानो यदा जीवः शारीर आत्मा भवति तदा स आत्मा कृतार्थो मुक्तो निगद्यते साङ्ख्याचार्यैरूच्यते । तथा च विस्मृतकण्ठमणिन्या- येन स्वस्वरूपे ज्ञाते बन्धो निवर्त्तत इति विविक्तस्वरूपमेव स्वतो मोक्ष इत्यर्थः । मायावादिमतेऽप्येवम् ॥ ७ ॥ ननु गौतमकणादादिमतवत्साङ्ख्यादिमतमप्यंशतः श्रुतिविरुद्धमिति कथं सा- ङ्ख्यप्रतिपन्ने मोक्षे शिष्टानामादरः, चिद्धर्मकस्य जीवस्यैकविंशतिदुःखध्वंसात्मके अशेष- विशेषगुणोच्छित्त्यात्मके च गौतमाद्युक्ते मोक्षे कथं नाऽऽदर इत्याकाङ्क्षायामाहु- स्तदर्थमित्यादि । तदर्थं प्रक्रिया काचित् पुराणेऽपि निरूपिता । ऋषिभिर्बहुधा प्रोक्ता फलमेकमवाद्यतः ॥ ८ ॥ "मुक्तिर्हित्वाऽन्यथारूपं स्वरूपेण व्यवस्थितिर्"ति पुराणे मोक्षलक्षणात्तदर्थं तादृशमोक्षार्थं प्रक्रिया पञ्चविंशत्यादितत्त्वकथनरूपा प्रकृत्यादिभ्य आत्मविवेकसाध- नार्थी च सरणिः काचित्पुराणेऽपि निरूपिता । पुराणं श्रुत्युपबृंहणत्वाद्वेदार्थनिर्मा- यकमतस्तत्सामानाधिकरण्यादत्र शिष्टादरः । कणादाद्युक्तानां त्वस्मिन्नप्यंशे वैयधिकर- १ ज्ञानरूपेणेति क. २ प्रकृतिप्रकृत्यत्यागेनेति क. ३ जडजीवप्रकाशयोगादिति ग. ४ तत्समानाधिकरण्या- दिति क. ख. ग.