षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 111, कुल 408 में से
संदर्भ में पढ़ेंश्रीपुरुषोत्तमचरणविवृतिसमेतः । २३ प्यादनादर इत्यर्थः । ननु साङ्ख्यमनेकविधम् । क्वचित् षड्विंशतितत्त्वानि । क्वचित् पञ्चविंशतिः । क्वचित् षोडश सप्तदशेत्यादि । तथा सति तेषामेकफलाभावात्कथं सर्वेषां साङ्ख्यानामादरणीयत्वमिति चेत्, तत्राऽऽहुः ऋषिभिरित्यादि । यद्यपि साङ्ख्य- प्रक्रिया ऋषिभिर्बहुधा प्रोक्ता, तथापि, अबाह्यतः विमार्गपरिपोषितात् आत्मव्यतिरिक्तत्यागरूपं यद्बोध्यमन्तरङ्गं साधनं तत्सर्वत्रैकम् । ततो वा हेतोस्तासु सर्वासपि प्रक्रियासु फलं स्वरूपावस्थानात्मकमोक्षरूपमेकमेव । अतो बाह्यसाङ्ख्य- व्यतिरिक्तं सर्वमेव साङ्ख्यं शिष्टादरणीयमित्यर्थः ॥ ८ ॥ एवं स्वतो मोक्षसाधकमेकं शास्त्रं निर्णीतम् । अतः परं द्वितीयं निर्णेतुमुपक्षि- पन्त्याग इत्यादि । अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्त्तव्याः सिद्धे योगे कृतार्थता ॥ ९ ॥ अत्यागे त्यागाभावे साधनत्वेन विवक्षिते योगमार्गश्चित्तवृत्तिनिरोधेनाऽऽत्म- बोधैको यः पन्थाः, स हि युक्तः पुराणसमानाधिकरणः । तथा ^च ततः शिष्टादृत इत्यर्थः । ननु त्यागाभावे कथं योगसिद्धिः कथं च मोक्ष इत्याकाङ्क्षायां तत्रत्यं साधनसमाज- माहुस्त्याग इत्यादि । हि यस्माद्धेतोर्मनसैव त्यागो "नैव किञ्चित्करोमी"त्याद्यु- क्तवत् । तु पुनः यमादयः यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयो बाह्याभ्यन्तरा उपायत्वेन कर्त्तव्याः । तैः सिद्धे योगे चञ्चलस्य मनसोऽखिलवृत्ति- निरोधे दृढे सति कृतार्थता आत्मनः स्वरूपावस्थानरूपमोक्षसिद्धिरित्यर्थः । एतेन निर्बीजसब्रीजयोगा अबाह्या यावन्तस्ते सर्वेऽपि योगत्वेन सङ्गृहीताः ॥ ९ ॥ एवं स्वतो मोक्षे द्वितीयं शास्त्रं निर्णीतम् । अतः परं परतो मोक्षविषयकं शास्त्रद्वयं निर्णेतुं तत्रत्यमोक्षस्वरूपनिरूपणपूर्वकं तत्प्रपञ्चयन्ति पराश्रयेत्यादि । पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण सुसेव्यते ॥ १० ॥ ते सर्वार्था न चाऽऽद्येन शास्त्रं किञ्चिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११ ॥ पराश्रयेण परस्य तत्तच्छास्त्रे सर्वोत्कृष्टत्वेन प्रतिपादितस्य आश्रयेण सर्वा- १ विमार्गपरिपोषितादिति ग. २ वेदबाह्यामिति क. ३ मोक्षस्वरूपमिति ख. ग. ४ आत्मवाचक इति ग. ५ समदृढसति इति क. ६ परमिति नास्ति ख.