षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 112, कुल 408 में से
संदर्भ में पढ़ें२४ बालवोधः । त्मना आलम्बनेन मोक्षः बन्धनिवृत्त्या सालोक्यादिचतुष्टयरूपः । तुः पूर्वपक्षनि- रासे । केवलस्वरूपावस्थानरूपो न किन्तु तत्तदानन्दानुभवात्मा । द्विधा परद्वैविध्यात् द्विप्रकारः । तेन तत्प्रतिपादकशास्त्रेऽपि द्वित्वमित्यर्थः । कथं द्वैविध्यमित्याकाङ्क्षाया- माश्रयणीयरूपभेदादिति वक्तुं तन्निरूपणं प्रतिजानते सोऽपि निरूप्यत इति । अपिरनादरस्य सूचनाय । तत्र “लीलया परमेश्वराः” “वरदेशा वयं त्रयः” इत्यादिवाक्यैर्गुणदेवानां त्रयाणां पुराणेषु तुल्यतानिरूपणात्तौल्येऽपि सरस्वतीशापा- दिना ब्रह्मणः पूज्यत्वापगमान्मोक्षस्य सृष्टिविघातकत्वेन स्वकार्यप्रतिबन्धकत्वाच्च स मोक्षं न ददातीति तदर्थमनाश्रयणीयां तस्योपपादयन्ति ब्रह्मेत्यादि । ब्रह्मा रजोयुक्तोऽभिमानी अनभिमानी वा ब्राह्मणतां ब्रह्म वेदः परब्रह्म वां तज्ज्ञातृतां वर्णविशेषाभिमानिब्रह्माख्यदेवताधिष्ठानतां वा यातस्तद्रूपेण ब्राह्मणरूपेण सुतरां ब्रह्मज्ञानार्थं वेदाध्ययनार्थं ब्रह्मवर्चसार्थं च सेव्यते, न तु मोक्षदातृत्वेन ॥ १० ॥ तत्र गमकमाहुस्ते सर्वार्था न चानेन नेति । ते^२ चत्वारोऽर्थाः ब्रह्मणा न किन्तु द्वित्रा एव । ते वा सेवितारः । ब्रह्मणा प्राप्तसर्वार्था न किन्तु यत्किञ्चिद्वन्तः । दृश्यते हि श्रुत्यादौ मनोरिन्द्रस्य च वेदाध्ययनायाऽऽत्मज्ञानाय च ब्रह्मसेवा । “ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिमि”ति पुराणवाक्यम् । सुन्दोपसुन्दहिरण्यक- शिपुप्रभृतीनामर्थकामावेव, न तु कस्याऽपि मोक्षदानमिति । देवकीनन्दनास्तु- तद्वत्तार्थकामयोरप्यग्रे नाशहेतुत्वात्पुरुषार्थत्वमाहुः । अतः परं टीकान्तरमतं मया न लिख्यते । व्याख्यानस्य क्लिष्टत्वात् । स्वस्य यथा भातं तथैव लिख्यते । तर्हि मोक्ष- दानसामर्थ्ये किं मानमत आहुः शास्त्रमित्यादि । मोक्षशास्त्रं वैखानसतन्त्रादिरूपं किञ्चिदुदीरितं यथा धर्मार्थकामा अध्यायानां शतसहस्रेण सप्रपञ्चमुक्तास्तथेदं नोक्तं किन्तु सङ्क्षिप्तमुक्तम् । भगवति देवत्वं प्रतिपाद्य तेन गुरुत्वोपाधिना मोक्षप्रयो- जको भवतीति सामर्थ्यं विद्यते, परन्तु देवत्वोपाधिना न ददातीति नाऽऽश्रीयत इत्यर्थः । एवं तस्याऽनाश्रयणीयत्वे द्वयोरेव मोक्षदातृत्वान्मोक्षे द्वैविध्यमित्याश- येनाऽऽहुरत इत्यादि । यतो ब्रह्मा न स्वयं देवत्वेन मोक्षदो न वा देवत्वेन मोक्षशास्त्रप्रवर्तकः, अतः शिवः चकारात्तद्भजनं विष्णुः चकारात्तद्भजनं जगतः सर्वस्य हितकारको भजनेन चतुर्वर्गदातारौ ॥ ११ ॥ वस्तुनः स्थितिसंहारौ कार्यों शास्त्रप्रवर्त्तकौ । ब्रह्मैव तादृशं यस्मात् सर्वात्मकतयोदितौ ॥ १२ ॥ १ चेति ख. ग. घ. २ ते च चत्वारोऽर्था इति ख. ३ व्याख्यानक्लिष्टत्वादिति ख.