भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 112, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 112

२४ बालवोधः । त्मना आलम्बनेन मोक्षः बन्धनिवृत्त्या सालोक्यादिचतुष्टयरूपः । तुः पूर्वपक्षनि- रासे । केवलस्वरूपावस्थानरूपो न किन्तु तत्तदानन्दानुभवात्मा । द्विधा परद्वैविध्यात् द्विप्रकारः । तेन तत्प्रतिपादकशास्त्रेऽपि द्वित्वमित्यर्थः । कथं द्वैविध्यमित्याकाङ्क्षाया- माश्रयणीयरूपभेदादिति वक्तुं तन्निरूपणं प्रतिजानते सोऽपि निरूप्यत इति । अपिरनादरस्य सूचनाय । तत्र “लीलया परमेश्वराः” “वरदेशा वयं त्रयः” इत्यादिवाक्यैर्गुणदेवानां त्रयाणां पुराणेषु तुल्यतानिरूपणात्तौल्येऽपि सरस्वतीशापा- दिना ब्रह्मणः पूज्यत्वापगमान्मोक्षस्य सृष्टिविघातकत्वेन स्वकार्यप्रतिबन्धकत्वाच्च स मोक्षं न ददातीति तदर्थमनाश्रयणीयां तस्योपपादयन्ति ब्रह्मेत्यादि । ब्रह्मा रजोयुक्तोऽभिमानी अनभिमानी वा ब्राह्मणतां ब्रह्म वेदः परब्रह्म वां तज्ज्ञातृतां वर्णविशेषाभिमानिब्रह्माख्यदेवताधिष्ठानतां वा यातस्तद्रूपेण ब्राह्मणरूपेण सुतरां ब्रह्मज्ञानार्थं वेदाध्ययनार्थं ब्रह्मवर्चसार्थं च सेव्यते, न तु मोक्षदातृत्वेन ॥ १० ॥ तत्र गमकमाहुस्ते सर्वार्था न चानेन नेति । ते^२ चत्वारोऽर्थाः ब्रह्मणा न किन्तु द्वित्रा एव । ते वा सेवितारः । ब्रह्मणा प्राप्तसर्वार्था न किन्तु यत्किञ्चिद्वन्तः । दृश्यते हि श्रुत्यादौ मनोरिन्द्रस्य च वेदाध्ययनायाऽऽत्मज्ञानाय च ब्रह्मसेवा । “ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिमि”ति पुराणवाक्यम् । सुन्दोपसुन्दहिरण्यक- शिपुप्रभृतीनामर्थकामावेव, न तु कस्याऽपि मोक्षदानमिति । देवकीनन्दनास्तु- तद्वत्तार्थकामयोरप्यग्रे नाशहेतुत्वात्पुरुषार्थत्वमाहुः । अतः परं टीकान्तरमतं मया न लिख्यते । व्याख्यानस्य क्लिष्टत्वात् । स्वस्य यथा भातं तथैव लिख्यते । तर्हि मोक्ष- दानसामर्थ्ये किं मानमत आहुः शास्त्रमित्यादि । मोक्षशास्त्रं वैखानसतन्त्रादिरूपं किञ्चिदुदीरितं यथा धर्मार्थकामा अध्यायानां शतसहस्रेण सप्रपञ्चमुक्तास्तथेदं नोक्तं किन्तु सङ्क्षिप्तमुक्तम् । भगवति देवत्वं प्रतिपाद्य तेन गुरुत्वोपाधिना मोक्षप्रयो- जको भवतीति सामर्थ्यं विद्यते, परन्तु देवत्वोपाधिना न ददातीति नाऽऽश्रीयत इत्यर्थः । एवं तस्याऽनाश्रयणीयत्वे द्वयोरेव मोक्षदातृत्वान्मोक्षे द्वैविध्यमित्याश- येनाऽऽहुरत इत्यादि । यतो ब्रह्मा न स्वयं देवत्वेन मोक्षदो न वा देवत्वेन मोक्षशास्त्रप्रवर्तकः, अतः शिवः चकारात्तद्भजनं विष्णुः चकारात्तद्भजनं जगतः सर्वस्य हितकारको भजनेन चतुर्वर्गदातारौ ॥ ११ ॥ वस्तुनः स्थितिसंहारौ कार्यों शास्त्रप्रवर्त्तकौ । ब्रह्मैव तादृशं यस्मात् सर्वात्मकतयोदितौ ॥ १२ ॥ १ चेति ख. ग. घ. २ ते च चत्वारोऽर्था इति ख. ३ व्याख्यानक्लिष्टत्वादिति ख.