भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 113, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 113

श्रीपुरुषोत्तमचरणविवृतिसमेतः । २५ निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३ ॥ भोगः शिवेन मोक्षस्तु विष्णोनेति विनिश्चयः । किञ्च, वस्तुनः स्थितिसंहारौ कार्यौ विष्णुशिवयोरवश्यकर्त्तव्यौ । तावपि शास्त्रस्य चतुर्वर्गाविषयस्य श्रुतिसमानाधिकरणपञ्चरात्रस्य तादृशपाशुपतस्य च प्रव- र्त्तकौ । उत्पद्यमानानामतिपराधीनत्वादप्रौढत्वाच्च न स्वतः प्रवृत्तिर्मोक्षादिवीप्सा दुःखभीतिश्च । ततः स्थितानां संहरिष्यमाणानां स्थित्यादिना सुखदुःखानुभवात्प्रौढ- त्वाच्च या चतुर्वर्गेप्सा तदर्थं प्रवृत्तिर्भीतिश्च सा स्थितिसंहारप्रयुक्तैवेति तादृशां दर्शने दयया श्रुत्यविरुद्धशास्त्रकरणमिति तावेव प्रवृत्तिप्रयोजकौ । अतः स्वकार्याप्रतिबन्धा- दपि तौ तथेत्यर्थः । क्वचित्तु 'वस्तुनः स्थितिसंहारे कार्ये'इति पाठः । तथा 'वस्तुस्थितौ च संहारे कार्ये' इत्यपि पाठः । तदा वस्तुनः स्थितिसहिते संहारे वस्तुस्थितौ संहारे च कार्ये कर्त्तव्ये सति यच्छास्त्रं धर्मादिजनकं मोहकं वामा- दिकं च तस्य प्रवर्त्तकौ । तेनाऽमुग्धानां साक्षात् मुग्धानां च मोहतारतम्येन सन्नि- कृष्टविप्रकृष्टपरम्परया धर्मादीनामधर्मादिनिवृत्तेश्च जनकत्वात्तथेत्यर्थो ज्ञेयः । इदमपि पुराणेषूक्तम् । तथा च कूर्मपुराणे देवदारुवनस्थानां गौतमशप्तानां मुनीनां प्रसङ्गे 'न वेदबाह्ये पुरुषे पुण्यलेशोऽस्ति शङ्कर" इत्युपक्रम्य ' तस्माद्वै वेदबाह्यानां रक्षणार्थाय पापिनाम् । विमोहनानि शास्त्राणि करिष्यामो वृषध्वज । एवं संबोधितो रुद्रो माध- वेनांऽसुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः । कापालं लागुडं वामं भैरवं पूर्वपश्चिमम् । पाञ्चरात्रं पाशुपतं तथाऽन्यानि सहस्रशः' इति । अत्र शास्त्राणां विमोहनत्वस्य रक्षणार्थत्वस्य चोक्त्या पापादिना दुर्भाग्ययोगेन तत्र प्रवेशेऽपि बहु- जन्मविपाकेनाऽधर्मनिवृत्तौ पुनः सन्मार्गलाभ इति सूचितम् । तेन न शङ्कालेशः । ब्रह्ममीमांसायां तर्कपादे "पत्युरसामञ्जस्यात्" इत्यनेन यदीश्वरस्य केवलनिमित्तत्व- मिति वादस्य दूषणं तथा 'उत्पत्त्यसम्भवात्' इत्यादिना सृष्टिक्रियांशस्य यद्दूषणं पाशुपतपञ्चरात्रयोस्तदेतदीययोरेव । न तु श्रुत्यविरुद्धयोः । इदं यथा तथा प्रहस्ताख्ये वादे निपुणतरमुपपादितमस्माभिः । ननु श्रुत्यविरुद्धे शास्त्रे तौ कथं हितकारकतया प्रतिपादितावित्याकाङ्क्षायां तत्प्रमेयं सङ्ग्रहेणाऽऽहसुहृच्चैवेत्यादि । ब्रह्मैव तादृशं शिवरूपं विष्णुरूपं च । अथर्वशिखाऽथर्वशिरःश्वेताश्वतरीयमन्त्रोपनिषत्कैवल्योप- निषत्सु शिवरूपेण महानारायणोपनिषन्नारायणोपनिषन्महोपनिषत्सु बालोपनिषत्सु १ माधवेन मुरारिणेति क. २ अथर्वशिखाऽथर्वशिर इत्यादि क. ख. अथर्वशिक्षाऽथर्वशिर इत्यादि घ. ४