भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 115, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 115

[Header] श्रीपुरुषोत्तमचरणविवृतिसमेतः । २७

तम् । ततो 'निःसंशयेष्वि'तिश्लोकेन तमोभिभूतानां स्वरूपावस्थानमात्रं देवतारू- पादेव तत्सायुज्यान्तं फलञ्च, न तु भगवदानन्दो भगवद्दत्तो वा भजनानन्द इति निरूपितम् । तेन तन्मोक्षस्य स्मार्तत्वाल्लौकिकत्वं समर्थितम् । न चाऽत्र पञ्चरात्रस्य नारायणवक्तृकत्वकथनात्कथं जीवविचारितत्वमिति शङ्क्यम् । 'तृतीयमृपिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट' इत्यादिवाक्येषु नारदवक्तृकत्वस्याऽपि कथनात्तस्याऽऽवेशित्ववद्द्रष्ट्राऽप्यावेशिन एव वक्तृकत्वात् । निष्ठास्थले तु पर एव परा- मृश्यत इति न कोऽपि विरोधः । एवं मोक्षविषये सर्वसिद्धान्तसङ्ग्रहं निरूप्य पञ्चानां याथातथ्येनाऽर्थज्ञानवतां तत्तत्सिद्धान्ते प्रवृत्तानां किं तुल्यं फलमुत फलभेद इत्या- काङ्क्षायां साङ्ख्ययोगयोः स्वरूपावस्थानमात्रस्य फलस्य कथनात्तत्र तावदेव फलं तच्च पूर्वमेवाऽनूदितमिति तदनुक्त्वा पाशुपतपञ्चरात्रयोः फलं तत्प्रतिपाद्यस्व- रूपविचारेणाऽऽह दुर्भगेत्यादि । तत्तच्छास्त्र उभयदातृत्वस्योक्तत्वाद् द्वावपि द्वयोर्दाने यद्यपि समर्थौ, तथापि श्रीभागवते दशमस्कन्धे 'देवासुरमनुष्येषु ये भजन्त्यशिवं शिवम् । प्रायस्ते धनिनो भोगा न तु लक्ष्म्याः पतिं हरिम्'इति प्रत्यक्षा्नुरोधिनि राजप्रश्ने 'शिवः शक्तियुतः शश्वत्त्रिलिङ्गो गुणसंवृतः । वैकारिकस्तै- जसश्च तामसश्चेत्यहं त्रिधा । ततो विकारा अभवन् षोडशाऽमीषु कञ्चन । उपाधावन् विभूतीनां सर्वांसामश्नुते गतिम् । हरिर्हि निर्गुणः साक्षात्पुरुषः प्रकृतेः परः । स सर्वदृगुपद्रष्टा तं भजन्निर्गुणो भवेद्'इति श्रीशुकेन स्वरूपं विचार्य तादृशफलनियमसम- र्थनाद् भोगः शिवेन मोक्षस्तु विष्णुना इति विशेषतो निश्चयः पुराणस्य श्रुत्युप- बृंहणत्वेन श्रुत्यभिप्रतोऽयमेव निर्णय इत्यर्थः । तथा सति पुराणे श्रुतौ च यच्छिवस्य मोक्षप्रदत्वं विष्णोश्च भोगप्रदत्वं यदुच्यते तत्सामर्थ्याभिप्रायं न तु दानाभिप्रायम् । वस्तुतस्तु रूपविशेषेण फलविशेषो नियत एव । अत एव 'ईश्वराज्ज्ञानमन्विच्छेन्मो- क्षमिच्छेज्जनार्दनादिति वाक्यम् । परन्तु युक्त्यभावे एतद् बालैर्नाऽवधारयितुं शक्यमित्यतस्तत्र लौकिकीं युक्ति- माहुर्लोकेऽपीत्यादि । लोकेऽपि यत्प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ १४ ॥ स्फुटमेतत् । तथा च 'यस्याऽनवद्याचरितं मनीषिणो गृणन्त्यविद्यापटलं बिभित्सवः । निरस्तसाम्यातिशयोऽपि यत्स्वयं पिशाचचर्यामचरत्सतां गतिः । हसन्ति यस्याऽऽचरितं हि दुर्भगाः स्वात्मन् रतस्याऽविदुषः समीहितम् । यैर्वस्त्र-

[Footnotes] १ देवतारूपाद्देवतासायुज्यान्तमिति क. २ फलं नत्विति चकारहीनः पाठः क.ख.ग. ३ गुणसंवृत इति क. ४ अपधावन्निति ख. ग. ५ सुदुर्भागा इति ग.