भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 120, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 120

३२ बालबाेधः । तत्रापि स्वधर्ममनुतिष्ठन् वर्णाश्रमधर्मं कुर्वन् । तथाचाऽऽश्रितस्यैवं प्रणाल्या तदीयत्व- दार्ढ्ये तस्याऽप्यतिप्रियत्वं भवतीति ततोऽपि तथेत्यर्थः । ननु तदीयत्वार्थं श्रवणा- दिकमेवाऽस्तु । वर्णाश्रमधर्मस्य साधारणस्य कुत्रोपयोग इत्याकाङ्क्षायामाहुर्वै भारे- त्यादि । वै निश्चयेन । अन्यथा भारद्वैगुण्यं स्वधर्मानाचरणेऽधर्मकृतः स्वभाव- कृतश्चेत्येवं द्विगुणो भारो दोषः स्यात्तथा सति तदुद्धर्तुः श्रमोऽतिमहान् भवेत्तथा सति पापस्य प्रतिबन्धकत्वात्फलेऽपि विलम्बः स्यादिति तदभावार्थं धर्मोपयोग इत्यर्थः । तेन पाशुपतपञ्चरात्रयोर्यथातथज्ञानवतामपि तदुक्तसाधनेन यथायथं भोगमोक्षयोः सुलभत्वं मोक्षभोगयोस्तु दुर्लभत्वमिति शैवतन्त्रं परम्परया मोक्षाय वैष्णवं साक्षान्मो- क्षायेति फलतौल्येऽपि साधनतस्तारतम्यमिति सिद्धम् । द्वितीयस्कन्धे—“एतावान्सा- ङ्ख्ययोगाभ्यामि”त्यस्य सुबोधिन्यामेतदेव निरूपितम् । पञ्च सिद्धान्ताः स्वतन्त्रतया विहिताः । तत्र श्रुतिवैष्णवौ समप्रधानत्वेनोक्तौ । पशुपतिमतस्य कल्पभेदेन तामस- परतवेनोत्कर्षजननद्वारा परम्परया यथायथमुपयोगः क्रममुक्तिहेतुत्वेन वेति । साङ्ख्य- योगयोः स्वतन्त्रतया ब्रह्ममीमांसायां निन्दितत्वात्स्मरणशेषत्वं धर्मशास्त्रस्य चेत्यपि तत्रैव प्रतिपादितम् । एवञ्चाऽत्राऽयं निष्कर्षः । लौकिकेषु मोक्षशास्त्रेषु वैष्णवतन्त्रमुक्त- ष्टम् । तदपि “योगास्त्रयो मया प्रोक्ता” इत्युक्तयोगत्रयमध्ये कर्मयोगरूपम् । एकादशे सप्तविंशे “क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो” इति प्रश्ने “वैदि- कस्तान्त्रिको मिश्र इति मे त्रिविधो मखः । त्रयाणामीप्सितेनैव विधिना मां समर्च- येदि”ति कथनात् । योगेश्वरवाक्येऽपि “य आशु हृदयग्रन्थिं निर्जिहीर्षुः परा- त्मनः । विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवमि”ति कथनात् । तन्त्रोक्ता भक्तिस्तु तस्यैवाऽङ्गभूता । अत एव “तया मुक्तिर्न चाऽन्यथे”त्यनेन मुक्तिरेव तत्फलत्वे- नोक्ता । “न चाऽन्यथे”त्यनेन केवलकर्मयोगान्न मुक्तिरित्यपि सूचितम् । तेन तान्त्रिकमात्मसमर्पणादिकमपि तदुक्तभोगमोक्षपर्यवसाय्येव न तु पुरुषोत्तमसम्बन्धि सिद्धयति । भक्तियोगस्तु ततो भिन्न एव । अत एव “भक्तियोगः पुरैवोक्तः प्रीय- माणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्तेः कारणं परमि”त्युपक्रम्य ‘श्रद्धा- ऽमृतकथायां मे’ इत्यादिना कारणकथनावसरे “वैदिकी तान्त्रिकी दीक्षे”ति कथनात् क्रियायोगाध्याये च “मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति। भक्तियोगं स लभते एवं यः पूजयेत मामि”ति कथनाद्भक्तियोगस्तस्य फलभूतः । भगवांश्च “पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यये”ति गीतावाक्यादनन्यभक्तिलभ्यः । भक्तेश्च कारणं पूर्वमु- १ इत्याशङ्कायामिति क. ख. घ. २ साधनतारतम्यमिति ख.