षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 120, कुल 408 में से
संदर्भ में पढ़ें३२ बालबाेधः । तत्रापि स्वधर्ममनुतिष्ठन् वर्णाश्रमधर्मं कुर्वन् । तथाचाऽऽश्रितस्यैवं प्रणाल्या तदीयत्व- दार्ढ्ये तस्याऽप्यतिप्रियत्वं भवतीति ततोऽपि तथेत्यर्थः । ननु तदीयत्वार्थं श्रवणा- दिकमेवाऽस्तु । वर्णाश्रमधर्मस्य साधारणस्य कुत्रोपयोग इत्याकाङ्क्षायामाहुर्वै भारे- त्यादि । वै निश्चयेन । अन्यथा भारद्वैगुण्यं स्वधर्मानाचरणेऽधर्मकृतः स्वभाव- कृतश्चेत्येवं द्विगुणो भारो दोषः स्यात्तथा सति तदुद्धर्तुः श्रमोऽतिमहान् भवेत्तथा सति पापस्य प्रतिबन्धकत्वात्फलेऽपि विलम्बः स्यादिति तदभावार्थं धर्मोपयोग इत्यर्थः । तेन पाशुपतपञ्चरात्रयोर्यथातथज्ञानवतामपि तदुक्तसाधनेन यथायथं भोगमोक्षयोः सुलभत्वं मोक्षभोगयोस्तु दुर्लभत्वमिति शैवतन्त्रं परम्परया मोक्षाय वैष्णवं साक्षान्मो- क्षायेति फलतौल्येऽपि साधनतस्तारतम्यमिति सिद्धम् । द्वितीयस्कन्धे—“एतावान्सा- ङ्ख्ययोगाभ्यामि”त्यस्य सुबोधिन्यामेतदेव निरूपितम् । पञ्च सिद्धान्ताः स्वतन्त्रतया विहिताः । तत्र श्रुतिवैष्णवौ समप्रधानत्वेनोक्तौ । पशुपतिमतस्य कल्पभेदेन तामस- परतवेनोत्कर्षजननद्वारा परम्परया यथायथमुपयोगः क्रममुक्तिहेतुत्वेन वेति । साङ्ख्य- योगयोः स्वतन्त्रतया ब्रह्ममीमांसायां निन्दितत्वात्स्मरणशेषत्वं धर्मशास्त्रस्य चेत्यपि तत्रैव प्रतिपादितम् । एवञ्चाऽत्राऽयं निष्कर्षः । लौकिकेषु मोक्षशास्त्रेषु वैष्णवतन्त्रमुक्त- ष्टम् । तदपि “योगास्त्रयो मया प्रोक्ता” इत्युक्तयोगत्रयमध्ये कर्मयोगरूपम् । एकादशे सप्तविंशे “क्रियायोगं समाचक्ष्व भवदाराधनं प्रभो” इति प्रश्ने “वैदि- कस्तान्त्रिको मिश्र इति मे त्रिविधो मखः । त्रयाणामीप्सितेनैव विधिना मां समर्च- येदि”ति कथनात् । योगेश्वरवाक्येऽपि “य आशु हृदयग्रन्थिं निर्जिहीर्षुः परा- त्मनः । विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवमि”ति कथनात् । तन्त्रोक्ता भक्तिस्तु तस्यैवाऽङ्गभूता । अत एव “तया मुक्तिर्न चाऽन्यथे”त्यनेन मुक्तिरेव तत्फलत्वे- नोक्ता । “न चाऽन्यथे”त्यनेन केवलकर्मयोगान्न मुक्तिरित्यपि सूचितम् । तेन तान्त्रिकमात्मसमर्पणादिकमपि तदुक्तभोगमोक्षपर्यवसाय्येव न तु पुरुषोत्तमसम्बन्धि सिद्धयति । भक्तियोगस्तु ततो भिन्न एव । अत एव “भक्तियोगः पुरैवोक्तः प्रीय- माणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्तेः कारणं परमि”त्युपक्रम्य ‘श्रद्धा- ऽमृतकथायां मे’ इत्यादिना कारणकथनावसरे “वैदिकी तान्त्रिकी दीक्षे”ति कथनात् क्रियायोगाध्याये च “मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति। भक्तियोगं स लभते एवं यः पूजयेत मामि”ति कथनाद्भक्तियोगस्तस्य फलभूतः । भगवांश्च “पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यये”ति गीतावाक्यादनन्यभक्तिलभ्यः । भक्तेश्च कारणं पूर्वमु- १ इत्याशङ्कायामिति क. ख. घ. २ साधनतारतम्यमिति ख.