भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 121, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 121

क्तमेव । “पुनश्चे”ति वाक्ये परमिति विशेषात् । एतेषाञ्च परत्वमात्मनिवेदनान्तरत्व एव । “एवं धर्मैर्मनुष्याणामुद्धवाऽऽत्मनिवेदिनाम् । मयि सञ्जायते भक्तिः कोऽन्योऽर्थोऽ- स्याऽवशिष्यते” इत्युपसंहारे तस्याऽधिकारिविशेषणत्वेन कथनात् । तथा तदुपयोगी शरणागत्यात्मा आश्रयोऽपि भिन्न एव । “अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखे”त्युपक्रम्य “न रोधयति मां योग” इत्यादिना स्मार्त्तश्रौतयावन्निषेधपूर्वकं सत्सङ्गस्य केवलभावस्य च यथायथं स्वावरो- धकत्वं स्वप्राप्तिसाधनत्वं चोक्त्वा व्रजभक्तनिदर्शनमप्युक्त्वा “तस्मात्त्वमुद्धवोत्सृ- ज्ये”ति द्वाभ्यां सर्वात्मना शरणगमनस्याऽकुतोभयप्राप्तिसाधनत्वकथनात् । अनेन सन्दर्भेण साधनफलयोरुत्कर्षोऽपि सिद्धः । श्रुतेरप्याशयोऽयमेव । “नाऽयमात्मा प्रवचनेने”ति “भगवान् ब्रह्म कात्स्न्र्येने”ति श्रुतिस्मृतिभ्यां तथाऽवसायात् । तदिदं सुबोधिनीनिबन्धभाष्येषु निपुणतरमुपपादितमत्र मङ्गलवाक्ये सूचितम् । वेदे पूर्वकाण्ड उत्तरकाण्डे च त्रिवर्गो य उक्तस्तस्य तात्पर्यमेकादशे एकविंशाध्याये “फलश्रुतिरियं नृणां न श्रेयो रोचनं परम् । श्रेयोविवक्षया प्रोक्ता यथा भैषज्यरोचनम् । उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसो मर्त्या आत्मनोऽनर्थहेतुषु । न तान- विदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । कथं युञ्ज्यात्पुनस्तेषु तांस्तमो विशतो बुधः । एवं व्यवसितं केचिदविज्ञाय कुबुद्धयः । फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि । कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः । अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते” इत्यन्तेन पञ्चाग्न्युपासनान्तस्य साधनजातस्य यत्त्रिवर्गरूपं फलं तत्पु- ष्परूपं रोचनार्थ इत्युक्तम् । मोक्षो य आत्मलाभात्मा उक्तस्तत्राऽप्यात्मशब्दो भगव- त्पर एव । अभेदवादस्वारस्यात् । तल्लाभसाधनं चाऽऽपातः श्रवणादित्रयम् । वस्तु- तस्तु वरणमेव, “यमेवैष वृणुते तेन लभ्यः”इति श्रुतेः । तेन य आद्ये प्रवृत्तस्तस्य दुःखाभाव एव । यः पुनस्तन्न साधनाधीनमिति ज्ञात्वा यतते तस्य साधनकौण्ठ्ये वरणश्रुतिर्वरणस्य दीनत्वमेव साधनं सूचयतीति भक्तावेव पर्यवस्यतीति ‘वेदादाद्या यतः स्थिता”इत्यनेन सूचितम् । शेषनिर्णयस्तु स्फुटतयाऽत्र प्रतिपादित एव । तदिदं सर्वं हृदिकृत्योपसंहरन्ति, इतीत्यादि । इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९॥ इति श्रीवल्लभाचार्यविरचितो बालबोधः सम्पूर्णः । इतिः समाप्तौ । एवं पूर्वोक्तप्रकारेण कथितं यत् तत्सर्वं स्वस्य परेषां च ५