षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 124, कुल 408 में से
संदर्भ में पढ़ें३६ बालबोधः । वदनम् । ननु किमित्येतावान्प्रयासः क्रियते, तत्राहुर्बालेति, बालास्तत्तद्वस्तुस्वरूप- ज्ञानरहिताः, तेषां प्रकर्षेण बोधनार्थं फलपर्यन्तं सिद्धान्तानां स्वरूपनिर्द्धारार्थम्, बाल- प्रबोधनमेवार्थः प्रयोजनम्, बालाः स्वाहिताहितज्ञानरहिताः, तादृशास्तु सर्वेषां दया- पात्राणि भवन्ति । अतस्तदर्थे तथाकरणं युक्तम् । तथापि, स्वतो विचाररहिताना- मविचारितेन प्रबोधने अनाप्तत्वं स्यादिति, तत्राहुः सुनिश्चितमिति । सुष्ठु विशेषेण निश्चितं निःसन्दिग्धमित्यर्थः । यद्वा, सुष्ठु तद्विशेषेण निश्चितम् ॥ १ ॥ एवं नत्वा प्रस्तुतमाहुः, धर्मेति । धर्मार्थकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् । जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ २ ॥ विहितक्रियाफलप्राप्ताववान्तरव्यापारो यः स धर्मः । कामनासहितः स एव सुखं साधयति । तद्रहितो 'धर्मेण पापमपनुदती'त्यादिना 'जन्मान्तरसहस्रेष्वि'त्या- दिना च शुद्धिद्वारा भगवदिच्छाप्राप्यं ज्ञानं भक्तिं वा साधयतीति सर्वथोपादेयः । एवमेव द्यूतचौर्यादिनानुपत्या(?)तत्साक्षात्साधनसाधनेनापि द्वितीयोप्यवश्यम- पेक्षितः (अर्थः) । यथा प्रथमे तथा तृतीयेपि तस्योपयोगः । यद्यपि तत्र उत्पाद- नप्रकारानियमेपि पूर्वोक्तप्रकारेणेत्यादितश्चान्यग्रतया तृतीयसाधनं भवतीति तथा तृतीयोपि । तथैव सर्वेषां प्रजननहेतुः 'प्रजातिरमृतमानन्द' इत्युपस्थ इत्यादिउक्तरूपं स तु सर्वेषां सर्वथैवापेक्षितः । एवं त्रिवर्गकामा बहवः प्रायेण भवन्ति, मुमुक्षवस्तु स्तो- कजरा भवन्ति । तत्तत्पुरुषार्थस्वरूपामभिज्ञा बहुधा प्रत्येकसमुदायाभ्यां तेषु तेषु प्रवर्तन्ते । अत एव मनीषिणामित्युक्तम् । मनीषा यथार्थविषयग्रहणसमर्था बुद्धिः । तद्वतामेव तत्प्रयोजनम्, अनया हीनः पशुतुल्य एव । न हि ते चतुर्षु केष्वपि यतन्ते । ते तु द्विविधाः, लौकिकालौकिकभेदेन । जीवा ऋषयः परिच्छिन्नमतयो वा । ईश्वरो वेदः सर्वनिर्द्धारयिता । ईश्वरत्वेन वेदोद्देशो गोपनार्थः, ताभ्यां कृतो विचारः स्वस्वाधिकारानुसारेण वस्तुनिर्द्धारको भवति । विचारस्तु, अनुपपत्तिनिराकरणपूर्वकं उपपत्तिभिर्मनसा वस्तुनोऽनुसन्धानम् । महतां मनोपि महदेव भवतीति तादृशमेव वस्तु तेषां मनसि निर्द्धारितं भवतीति तेन तैस्तथैव निर्द्धारितम् । जीवास्तदपेक्षया सर्वथा क्षुद्राः परिच्छिन्नधियश्च । अत ईश्वरविचारितादेतद्विचारितस्य भेदस्तात्विक एव । अत एव हीत्यव्ययम् ॥ २ ॥ उद्देशतस्तानुकत्वा विविच्य तानेव निरूपयन्ति अलौकिक इति । अलौकिकास्तु वेदोक्ताः साध्यसाधनसंयुताः । लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥ ३ ॥