भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 124, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 124

३६ बालबोधः । वदनम् । ननु किमित्येतावान्प्रयासः क्रियते, तत्राहुर्बालेति, बालास्तत्तद्वस्तुस्वरूप- ज्ञानरहिताः, तेषां प्रकर्षेण बोधनार्थं फलपर्यन्तं सिद्धान्तानां स्वरूपनिर्द्धारार्थम्, बाल- प्रबोधनमेवार्थः प्रयोजनम्, बालाः स्वाहिताहितज्ञानरहिताः, तादृशास्तु सर्वेषां दया- पात्राणि भवन्ति । अतस्तदर्थे तथाकरणं युक्तम् । तथापि, स्वतो विचाररहिताना- मविचारितेन प्रबोधने अनाप्तत्वं स्यादिति, तत्राहुः सुनिश्चितमिति । सुष्ठु विशेषेण निश्चितं निःसन्दिग्धमित्यर्थः । यद्वा, सुष्ठु तद्विशेषेण निश्चितम् ॥ १ ॥ एवं नत्वा प्रस्तुतमाहुः, धर्मेति । धर्मार्थकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् । जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ २ ॥ विहितक्रियाफलप्राप्ताववान्तरव्यापारो यः स धर्मः । कामनासहितः स एव सुखं साधयति । तद्रहितो 'धर्मेण पापमपनुदती'त्यादिना 'जन्मान्तरसहस्रेष्वि'त्या- दिना च शुद्धिद्वारा भगवदिच्छाप्राप्यं ज्ञानं भक्तिं वा साधयतीति सर्वथोपादेयः । एवमेव द्यूतचौर्यादिनानुपत्या(?)तत्साक्षात्साधनसाधनेनापि द्वितीयोप्यवश्यम- पेक्षितः (अर्थः) । यथा प्रथमे तथा तृतीयेपि तस्योपयोगः । यद्यपि तत्र उत्पाद- नप्रकारानियमेपि पूर्वोक्तप्रकारेणेत्यादितश्चान्यग्रतया तृतीयसाधनं भवतीति तथा तृतीयोपि । तथैव सर्वेषां प्रजननहेतुः 'प्रजातिरमृतमानन्द' इत्युपस्थ इत्यादिउक्तरूपं स तु सर्वेषां सर्वथैवापेक्षितः । एवं त्रिवर्गकामा बहवः प्रायेण भवन्ति, मुमुक्षवस्तु स्तो- कजरा भवन्ति । तत्तत्पुरुषार्थस्वरूपामभिज्ञा बहुधा प्रत्येकसमुदायाभ्यां तेषु तेषु प्रवर्तन्ते । अत एव मनीषिणामित्युक्तम् । मनीषा यथार्थविषयग्रहणसमर्था बुद्धिः । तद्वतामेव तत्प्रयोजनम्, अनया हीनः पशुतुल्य एव । न हि ते चतुर्षु केष्वपि यतन्ते । ते तु द्विविधाः, लौकिकालौकिकभेदेन । जीवा ऋषयः परिच्छिन्नमतयो वा । ईश्वरो वेदः सर्वनिर्द्धारयिता । ईश्वरत्वेन वेदोद्देशो गोपनार्थः, ताभ्यां कृतो विचारः स्वस्वाधिकारानुसारेण वस्तुनिर्द्धारको भवति । विचारस्तु, अनुपपत्तिनिराकरणपूर्वकं उपपत्तिभिर्मनसा वस्तुनोऽनुसन्धानम् । महतां मनोपि महदेव भवतीति तादृशमेव वस्तु तेषां मनसि निर्द्धारितं भवतीति तेन तैस्तथैव निर्द्धारितम् । जीवास्तदपेक्षया सर्वथा क्षुद्राः परिच्छिन्नधियश्च । अत ईश्वरविचारितादेतद्विचारितस्य भेदस्तात्विक एव । अत एव हीत्यव्ययम् ॥ २ ॥ उद्देशतस्तानुकत्वा विविच्य तानेव निरूपयन्ति अलौकिक इति । अलौकिकास्तु वेदोक्ताः साध्यसाधनसंयुताः । लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥ ३ ॥