भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 123, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 123

श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतः बालबोधः । श्रीद्वारकेश्वरचरणविरचिता बालबोधटीका । यत्पादमूलमुपसृत्य विशन्ति शश्वद्वृन्दावनद्रुमलतासुपूजिताङ्घ्रिम् । सोऽयं समस्तजगतामभिवन्दनीयपादाम्बुजः सकरुणः श्रियमातनोतु ॥ १ ॥ इह खलु लोके श्रुतिस्मृतिवात्स्यायनपुराणपञ्चरात्राद्युक्तधर्मपरिकरबोधकवाक्य- भिःप्रतिपाद्यानां धर्मार्थकाममोक्षाणां विद्यमानत्वेनाभिधानक्रमेण जीवसम्बन्धीयेष्वे- वाल्पकत्वाद्भक्तिमार्गीयैकयोग्यास्तेषु यतिष्यन्त इति तेषां विवेचनं शास्त्ररूपेण वदन्तो मङ्गलमाचरन्ति नत्वेति । नत्वा हरिं सदानन्दं सर्वसिद्धान्तसङ्ग्रहम् । बालप्रबोधनार्थाय वदामि सुनिश्चितम् ॥ १ ॥ हरिं सदानन्दं नत्वा सर्वसिद्धान्तानामप्रबुद्धानां प्रकर्षेण बोधाय सुष्ठु विशेषेण निश्चितं सङ्ग्रहं वदामीति सम्बन्धः। एतच्छास्त्रानुसारेण भजतां प्रतिबन्धनि- राकरणपूर्वकं स्वानन्दं कृपया तेभ्यः प्रयच्छतीति नामद्वयकथनम् । तादृशे तु जीवै- रेतावत्समुपशिक्षितं 'नमो नम' इति न्यायेन नमनमेव कर्त्तव्यम् । 'किमासनन्त' इत्या- दिना, नाधिकं कर्तुं शक्यमिति सिद्धान्तः। एवं परंपराकरणार्थं ग्रन्थादौ तन्निबन्ध- नम्। सर्वशब्देनात्र प्राकरणीकत्वात्प्रमाणत्वावच्छिन्नानां तत्तत्प्रमेयप्रमापकानां ग्रहणम्, तेषामशेषतो निरूपणे ग्रन्थबाहुल्यं बुद्धिक्षोभस्तेनैव वा कालनयनं भवेदिति तदर्थं तत्तच्छास्त्रेषु निर्गलितार्थरूपा ये सिद्धान्तास्तेषां सङ्ग्रहो राशिवदेकीकरणम् । यथा रत्नादिस्वरूपज्ञास्तत्स्वरूपमन्येभ्यो विवेचयितुं परीक्षकेभ्यो दर्शयितुं ताननेकजाती- याननेकान् राशीभूतान् कुर्वन्ति, तथा कुर्वन्तु । एवमेव सिद्धान्तानां सङ्ग्रहपूर्वकं

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 123, कुल 408 में से · BharatKosha