षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतः बालबोधः । श्रीद्वारकेश्वरचरणविरचिता बालबोधटीका । यत्पादमूलमुपसृत्य विशन्ति शश्वद्वृन्दावनद्रुमलतासुपूजिताङ्घ्रिम् । सोऽयं समस्तजगतामभिवन्दनीयपादाम्बुजः सकरुणः श्रियमातनोतु ॥ १ ॥ इह खलु लोके श्रुतिस्मृतिवात्स्यायनपुराणपञ्चरात्राद्युक्तधर्मपरिकरबोधकवाक्य- भिःप्रतिपाद्यानां धर्मार्थकाममोक्षाणां विद्यमानत्वेनाभिधानक्रमेण जीवसम्बन्धीयेष्वे- वाल्पकत्वाद्भक्तिमार्गीयैकयोग्यास्तेषु यतिष्यन्त इति तेषां विवेचनं शास्त्ररूपेण वदन्तो मङ्गलमाचरन्ति नत्वेति । नत्वा हरिं सदानन्दं सर्वसिद्धान्तसङ्ग्रहम् । बालप्रबोधनार्थाय वदामि सुनिश्चितम् ॥ १ ॥ हरिं सदानन्दं नत्वा सर्वसिद्धान्तानामप्रबुद्धानां प्रकर्षेण बोधाय सुष्ठु विशेषेण निश्चितं सङ्ग्रहं वदामीति सम्बन्धः। एतच्छास्त्रानुसारेण भजतां प्रतिबन्धनि- राकरणपूर्वकं स्वानन्दं कृपया तेभ्यः प्रयच्छतीति नामद्वयकथनम् । तादृशे तु जीवै- रेतावत्समुपशिक्षितं 'नमो नम' इति न्यायेन नमनमेव कर्त्तव्यम् । 'किमासनन्त' इत्या- दिना, नाधिकं कर्तुं शक्यमिति सिद्धान्तः। एवं परंपराकरणार्थं ग्रन्थादौ तन्निबन्ध- नम्। सर्वशब्देनात्र प्राकरणीकत्वात्प्रमाणत्वावच्छिन्नानां तत्तत्प्रमेयप्रमापकानां ग्रहणम्, तेषामशेषतो निरूपणे ग्रन्थबाहुल्यं बुद्धिक्षोभस्तेनैव वा कालनयनं भवेदिति तदर्थं तत्तच्छास्त्रेषु निर्गलितार्थरूपा ये सिद्धान्तास्तेषां सङ्ग्रहो राशिवदेकीकरणम् । यथा रत्नादिस्वरूपज्ञास्तत्स्वरूपमन्येभ्यो विवेचयितुं परीक्षकेभ्यो दर्शयितुं ताननेकजाती- याननेकान् राशीभूतान् कुर्वन्ति, तथा कुर्वन्तु । एवमेव सिद्धान्तानां सङ्ग्रहपूर्वकं
३६ बालबोधः । वदनम् । ननु किमित्येतावान्प्रयासः क्रियते, तत्राहुर्बालेति, बालास्तत्तद्वस्तुस्वरूप- ज्ञानरहिताः, तेषां प्रकर्षेण बोधनार्थं फलपर्यन्तं सिद्धान्तानां स्वरूपनिर्द्धारार्थम्, बाल- प्रबोधनमेवार्थः प्रयोजनम्, बालाः स्वाहिताहितज्ञानरहिताः, तादृशास्तु सर्वेषां दया- पात्राणि भवन्ति । अतस्तदर्थे तथाकरणं युक्तम् । तथापि, स्वतो विचाररहिताना- मविचारितेन प्रबोधने अनाप्तत्वं स्यादिति, तत्राहुः सुनिश्चितमिति । सुष्ठु विशेषेण निश्चितं निःसन्दिग्धमित्यर्थः । यद्वा, सुष्ठु तद्विशेषेण निश्चितम् ॥ १ ॥ एवं नत्वा प्रस्तुतमाहुः, धर्मेति । धर्मार्थकाममोक्षाख्याश्चत्वारोऽर्था मनीषिणाम् । जीवेश्वरविचारेण द्विधा ते हि विचारिताः ॥ २ ॥ विहितक्रियाफलप्राप्ताववान्तरव्यापारो यः स धर्मः । कामनासहितः स एव सुखं साधयति । तद्रहितो 'धर्मेण पापमपनुदती'त्यादिना 'जन्मान्तरसहस्रेष्वि'त्या- दिना च शुद्धिद्वारा भगवदिच्छाप्राप्यं ज्ञानं भक्तिं वा साधयतीति सर्वथोपादेयः । एवमेव द्यूतचौर्यादिनानुपत्या(?)तत्साक्षात्साधनसाधनेनापि द्वितीयोप्यवश्यम- पेक्षितः (अर्थः) । यथा प्रथमे तथा तृतीयेपि तस्योपयोगः । यद्यपि तत्र उत्पाद- नप्रकारानियमेपि पूर्वोक्तप्रकारेणेत्यादितश्चान्यग्रतया तृतीयसाधनं भवतीति तथा तृतीयोपि । तथैव सर्वेषां प्रजननहेतुः 'प्रजातिरमृतमानन्द' इत्युपस्थ इत्यादिउक्तरूपं स तु सर्वेषां सर्वथैवापेक्षितः । एवं त्रिवर्गकामा बहवः प्रायेण भवन्ति, मुमुक्षवस्तु स्तो- कजरा भवन्ति । तत्तत्पुरुषार्थस्वरूपामभिज्ञा बहुधा प्रत्येकसमुदायाभ्यां तेषु तेषु प्रवर्तन्ते । अत एव मनीषिणामित्युक्तम् । मनीषा यथार्थविषयग्रहणसमर्था बुद्धिः । तद्वतामेव तत्प्रयोजनम्, अनया हीनः पशुतुल्य एव । न हि ते चतुर्षु केष्वपि यतन्ते । ते तु द्विविधाः, लौकिकालौकिकभेदेन । जीवा ऋषयः परिच्छिन्नमतयो वा । ईश्वरो वेदः सर्वनिर्द्धारयिता । ईश्वरत्वेन वेदोद्देशो गोपनार्थः, ताभ्यां कृतो विचारः स्वस्वाधिकारानुसारेण वस्तुनिर्द्धारको भवति । विचारस्तु, अनुपपत्तिनिराकरणपूर्वकं उपपत्तिभिर्मनसा वस्तुनोऽनुसन्धानम् । महतां मनोपि महदेव भवतीति तादृशमेव वस्तु तेषां मनसि निर्द्धारितं भवतीति तेन तैस्तथैव निर्द्धारितम् । जीवास्तदपेक्षया सर्वथा क्षुद्राः परिच्छिन्नधियश्च । अत ईश्वरविचारितादेतद्विचारितस्य भेदस्तात्विक एव । अत एव हीत्यव्ययम् ॥ २ ॥ उद्देशतस्तानुकत्वा विविच्य तानेव निरूपयन्ति अलौकिक इति । अलौकिकास्तु वेदोक्ताः साध्यसाधनसंयुताः । लौकिका ऋषिभिः प्रोक्तास्तथैवेश्वरशिक्षया ॥ ३ ॥
श्रीद्वारकेशचरणविरचित टीकासमेतः । ३७ अलौकिकः पुरुषोत्तमः, तत्सम्बन्धिनस्ते तु वेदेनैव निरूपयितुं शक्याः । तस्यैवानुभवविषयत्वात्तेषाम् साध्यानि अवान्तरफलरूपाणि । साधनानि पुरुषार्थस्व- रूपसिद्धयै अव्यभिचारितया कारणानि । मुख्यफलरूपास्तु स्वयमेव भवन्तीति वेदेन उक्ताः साधनैः सहिता ये साध्याः । सूत्रोक्तानां साध्यसाधनानां परस्परमव्य- भिचारेण हेतुहेतुमद्भाव इति ज्ञापनार्थं सम्यग्योगो निरूपितः । एवं सपरिकराणामलौ- किकानां निरूपणप्रकारमुक्त्वा शिष्टानामाहुलौकिका ऋषिभिः प्रोक्ता इति । ऋषयो मन्त्रदृष्टारः, तैः स्वज्ञानानुसारेण प्रकर्षेण उक्ताः । ननु न हि ते वेदाद्यसं- मत्या स्वतन्त्रतया पुरुषार्थदृष्टारो वक्तारो वा भवन्ति । तथा सत्यलौकिकानां तेषां तेनैव निरूपणस्य सिद्धत्वात्किमिति वेदाद्यनुक्तानां तेषामप्रामाणिकानां निरूपणं तैः क्रियते इति तत्राहुः, तथैवेश्वरशिक्षयेति । वेदस्तु लौकिकालौकिकेषु नियन्ता, अत एवे- श्वरः, तच्छिक्षया तथाविधानां कथनम् । ऋषीणां तु वेदेनैव सर्वज्ञत्वं ऋषित्वं च प्राप्तानां लौकिकैकपुरुषार्थप्रवर्त्तनयोग्यत्वात्तथाविधतत्प्रवर्त्तनं वेदस्यापि सम्मतमिति योगजधर्मेण वेदार्थविचारे तथाभूता एव ते स्फुरद्रूपा जाता इति तथैवोक्तवन्तः । अत एव प्रोक्ता इति निरूपितम् ॥ ३ ॥ ननु जीवविचारितेभ्यस्तेभ्य ईश्वरविचारितानां तेषामुत्तमत्वात्त एव किमिति नोच्यन्ते तत्राहुः—लौकिकांस्त्विति । लौकिकांस्तु प्रवक्ष्यामि वेदाद्याद्या यतः स्थिताः । धर्मशास्त्राणि नीतिश्च कामशास्त्राणि च क्रमात् ॥ ४ ॥ तुशब्दः पूर्वविधाद्व्यावर्त्तयति । तथापि, ऋषिभिस्ते निरूपिता एव किं भवदुक्त्येति चेन्, न । प्रवक्ष्यामीति प्रकर्षेण वक्ष्यामि । ऋषिभिर्निरूपिताः, परं नालौकिकेभ्यो विविच्य, अहं तु तेभ्यो विविच्य स्वरूपतः फलतः स्थूणाखननन्यायेन लौकिकान्वक्ष्यामि । तथापि, सामान्येभ्यो विशिष्टा एव कथं नोच्यन्ते ? तत्राहु वेदाद्याद्या इति । यतो वेदाद्याद्या अलौकिका वेदस्वरूपाभिज्ञैस्तद्वाक्यैरेव तदाशय- विचारे निर्गलितार्थरूपाः । तथाधिकारिप्राप्तिविषयत्वेन विचारकाणां मनसि स्फुरद्रूपतया स्थिताः । अन्येषां सामान्यतस्तत्स्वरूपस्थितिज्ञानं समाहृत्य सर्वनिरूपणे वाक्यशेषोक्तन्यायेन स्वत एव लौकिकेभ्यो भिन्नतया तद्भवतीति मुख्यान्विहाय गौणानेव कोटिद्वयभेदेन निरूपयन्ति । तत्र त्रयाणामेका कोटिः । तुरीयस्यैका, पूर्वकोटि- प्रतिपादकानाहुः । धर्माः शारीराः, तत्प्रतिपादकानि शास्त्राणि । अर्थस्तूभयत्र हेतुः, तत्प्रतिपादकं नीतिशास्त्रम् । कामस्तु वात्स्यायनोक्तप्रकारतः, तत्प्रतिपादकं तु तदुक्तमेव शास्त्रम् ॥ ४ ॥
३८ बालबोधः । तदेवाहूस्त्रिवर्गेति । त्रिवर्गसाधनानीति न तन्निर्णय उच्यते । मोक्षे चत्वारि शास्त्राणि लौकिके परतः स्वतः ॥ ५ ॥ द्विधा द्वे द्वे स्वतस्तत्र सांख्ययोगौ प्रकीर्तितौ । त्यागात्यागविभागेन सांख्ये त्यागः प्रकीर्तितः ॥ ६ ॥ एतानि त्रिवर्गसाधनानि इति कार्यतः कारणतः फलतः स्वरूपतस्तन्निरूपणे उच्यन्त इति तत्प्रतिपादकानि, नाहं वदामीति । द्वितीयकोटिसाधनान्याहुर्मोक्षे चत्वारीति । चत्वारि शास्त्राणि लौकिकमोक्षप्रतिपादकानीत्यर्थः । योगः साङ्ख्यम् । तत्तच्छक्तिमत्त्वेन विष्णुशिवप्रतिपादके द्वे । एवञ्चतुर्द्धा वैष्णवे शैवे वा तेषां, कोटिभेदेन निरूपणम् । द्वाभ्यामेकाकोटिस्तथैव चापरा । एकस्या द्विरूपत्वं त्यागा त्यागभेदेन । एका स्वतः स्वकृतिसाध्यतया । अपरा परतः मोचककृतिसाध्यतया । अतः कोटिद्वयम् । द्विधासती मुक्तिहेतू आहुः साङ्ख्ययोगाविति । तत्र मोक्षप्रतिपादकस- मये स्वतो मोक्षप्रतिपादकौ साङ्ख्ययोगौ प्रकर्षेण कीर्तितौ । पूर्वकोटिद्वित्वे हेतुमाहु- स्त्यागात्यागेति । सांख्ये त्यागो बाह्याभ्यन्तरभेदेन । योगे त्वान्तर एव । त्यागस्तु संसारनाशद्वारा पुनर्भवनसहिताहङ्कारध्वंसजनने उपक्षीणः ॥ ५ ॥ ६ ॥ अहन्ताममतानाशे सर्वथा निरहङ्कृतौ । स्वरूपस्थो यदा जीवः कृतार्थः स निगद्यते ॥ ७ ॥ तदर्थं प्रक्रिया काचित् पुराणेऽपि निरूपिता । ऋषिभिर्बहुधा प्रोक्ता फलमेकमबाह्यतः ॥ ८ ॥ एवं सर्वथाऽहङ्काराभावे यदा जीवः स्वमूलभूते अक्षरात्मके ब्रह्मणि उद्भूतत्रि- तयांशोभूत्वा स्थितो भवति, तदा स जीवः कृतः अर्थः पुरुषार्थो येन, तादृशः स निगद्यते । तथैव च निबन्धे, 'संसारस्य लयोऽपुनरावृत्तिः, मुक्तौ न प्रपञ्चस्य कर्हि- चिदि'ति । श्रुतिः स्मृतिश्च, 'न स पुनरावर्त्तते यद्गत्वा न निवर्त्तन्ते' इत्यादिनोक्तरूपा- ऽपुनरावृत्तिश्च तस्य, ततोप्यधिकभजनानन्ददानोन्मुखभगवदधीना, मुक्तोपसृप्य- व्यपदेशादिवत् । एवं प्रकारकमोक्षे प्रकारान्तरीयसाधनघटना पुराणेपि निरूपिता । ऋषिभिरपि स्वस्वप्रकृत्यनुसारेण चरमार्थप्रतिपादकत्वेन विविधसाधनकदम्बाः प्रतिपादिताः । तेषां सर्वेषां फलमेकमेव । यथा रात्रि (?) न्यायेन अक्षर एव । तत्र हेतुः, अबाह्यतः एतत्साध्यैकसाधनजातीयैकपरत्वतः ॥ ७ ॥ ८ ॥
श्रीद्वारकेशचरणविरचित टीकासमेतः । ३९ पूर्वकोटिद्वितीयपक्षमाहुरत्याग इति । अत्यागे योगमार्गो हि त्यागोऽपि मनसैव हि । यमादयस्तु कर्त्तव्याः सिद्धे योगे कृतार्थता ॥ ९ ॥ त्यागाभावे तु योग एव फलसाधकः । सर्वथा अत्यागे योगोऽपि न सिद्धयेत् । अतो मानसमिति विद्वांस इत्यादिना मानस एव सः । तादृशस्यैव तस्य सात्त्विकत्वात् । योगाः बहुविधाः सबीजनिर्बीजभेदेन । तत्र विविधप्रकारकाणां मध्ये एक एव योगस्तत्स्वरूपाभिज्ञैरादृतः, आत्मबोधकत्वात् । निर्बीजेपि यस्मिन् भगवतो ध्यानं स एव योग आत्मबोधको भवति, स्थूले भगवतो रूप इत्यादिनाक्तत्वात् । तत्र योगसिद्धयर्थं यमादयस्तु कर्त्तव्याः, ततः सिद्धे योगे योगसिद्धिं प्राप्य मुक्तिं ते प्राप्नुवन्ति । ततस्ते कृतार्था इत्युच्यन्ते ॥ ९ ॥ द्वितीयकोटिमाहुः, एवं स्वतो मुक्तिप्रकारमुक्त्वा परतोप्याहुः परेति । पराश्रयेण मोक्षस्तु द्विधा सोऽपि निरूप्यते । ब्रह्मा ब्राह्मणतां यातस्तद्रूपेण सुसेव्यते ॥ १० ॥ मोक्षे ये मोचकास्तेषामाश्रयेण मोक्षोऽवश्यं भवत्येव । सोपि द्विविधः, सगुण- निर्गुणभेदेन, सात्विकतामसाभ्यां वा । ननु यथा विष्णुशिवौ पालकनाशकौ तथा ब्रह्मा सर्जकः । कथमयं स्वतन्त्रतया मुक्तिं न प्रयच्छतीत्यत आहुर्ब्राह्मणतां यात इति । ब्राह्मणस्य कर्म भावो वा ब्राह्मणता । ब्रह्म नयति प्रापयतीति तथा । भगवतः सकाशाद्वेदाध्ययनं तेनैव कृतमिति वैदिकेषु च स एव मुख्यः तत्कर्मनिष्णातेषु च । अत एव ब्राह्मणानामपि विध्युक्तप्रकारकर्मानुष्ठातृणाम्, महोपनिषज्ज्ञानवतामपि जरामर्याग्निहोत्रं कुर्वतामवस्थानन्तरं ब्रह्मसायुज्यं ततस्तन्मुक्त्यवसरे तत्सायुज्यं प्राप्तानां तेनैव सार्द्धं मुक्तिर्भवति । तदुक्तं तैत्तिरीयोपनिषत्सु, 'तस्यैवं विदुषो यज्ञ- स्ये'त्यारभ्य एतौ वै सूर्याचन्द्रमसौर्महिमानौ ब्राह्मणो विद्वानभिजयति, तस्माद्ब्रह्मणे महिमानमाप्नोति, तस्माद्ब्रह्मणे महिमानम्'इत्यन्तेन । यथा ब्रह्मा, तथैव शिवो विष्णुश्च गुणाधिष्ठातारो देवाः, त्रयाणामपि साम्यम् । एका सर्जिका, अपरा पालिका तृतीया संहारिका । एतादृशस्यापि ब्रह्मणो भगवद्रूपत्वेनैव भजनमिष्टसाधनम्, नतु ब्रह्मतत्वेन । सरस्वत्याः शापाज्जीवसहकृतेश्वरांशत्वाच्च, स्वतन्त्रतया भजनीयत्वस्या- पगमात् ॥ १० ॥ ते सर्वार्था न चाऽन्येन शास्त्रं किञ्चिदुदीरितम् । अतः शिवश्च विष्णुश्च जगतो हितकारकौ ॥ ११ ॥
४० बालबोधः ।
ये एवं भजनकर्त्तारः ते सर्वार्थाः, सर्वोऽप्यर्थो येषां तादृशाः । न चानेन, ब्रह्मत्वेन भजतामेवं सर्वार्थसिद्धिर्न भवतीत्यर्थः । ब्रह्मा ब्राह्मणतां यातो, यो ब्रह्मा, सृष्टिकर्त्तृत्वात्, सृष्ट्यादिकर्त्तृत्वं हि भगवद्धर्मः, सृष्टिकर्त्तृत्वेन रूपेण तं ये (ब्रह्माणं) सेवन्ते तेषां मोक्षातिरिक्तसर्वार्थसिद्धिर्भवतीति राजसत्वात् न मोक्षसाधकत्वम् । तत्र प्रमाणम्, शास्त्रमेतदर्थप्रतिपादनेन किञ्चिदुदीरितम् । यतः सर्जकत्वात् वैखानसो- क्तपूजाप्रतिपादकत्वात्परमेष्ठित्वादवतारादिवाचां सूचकत्वात् सर्वोपकारकत्वं ब्रह्मणः । तथा भजनीयता च ॥ ११ ॥ अतः विष्णुशिवयोरपि भजनीयत्वार्थं लोकोपकारकत्वं वदन्ति वस्तुन इति । वस्तुनः स्थितिसंहारौ कार्यों शास्त्रप्रवर्त्तकौ । ब्रह्मैव तादृशं यस्मात् सर्वात्मकतयोदितौ ॥ १२ ॥ स्थितिसंहारौ मूलेच्छाधीनौ, यादृशी यदा मूलेच्छा तदा तादृशः कालोपि भवति । तथैव मोहकशास्त्रप्रवर्त्तकत्वं शिवकणादगौतमादेः । बुद्धस्य ऋषभस्य च चरित्रादिना लोकव्यामोहः । एवं शास्त्रच्छलैर्मोहितानामुत्पथगामिनां तद्वासनानिवृत्त्यर्थं संहार एव तेषां हितकारकः । एवं शिवस्य लोकोपकारकत्वम् । स्थितिश्च सत्त्वाधीना, तदधिष्ठाता विष्णुः, सात्त्विककालशास्त्रादिप्रवर्त्तकः । एवं विष्णोर्जगद्धितकर्तृत्वं स्पष्टम् । स्थितिसंहाररूपे कार्ये ब्रह्मैव समर्थं भवति, तस्मादु- भयविधकार्यकर्तृत्वशक्तिमत्त्वादुभयोर्ब्रह्मत्वम् । यथा आराग्रमात्रस्य जीवस्य व्याप- कत्वश्रुतिर्भगवदात्मकत्वेन युज्यते, एवमेतौ सर्वात्मकतया ब्रह्मत्वेन रूपेण श्रुतौ उदितौ । तथाहि, 'विश्वं भूतभुवनं चित्रं बहुधा जायमानं च यत्, सर्वो ह्येष रुद्रः तस्मै रुद्राय नमोऽस्तु । 'यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेपि वा अन्तर्बहिश्च, तत्सर्वं व्याप्य नारायण स्थितः' इत्यादिभिरुभयोस्तथात्वम् । न हि श्रुतयो ब्रह्मातिरिक्तं किञ्चित्स्तुवन्ति, अलौकिकार्थवक्तृत्वात् । श्रुतौ देवतायाः स्तुतिर्ब्रह्मात्मकत्वेन रूपेण, न स्वतन्त्रतया । किञ्च, तामसादिफल्येषु तामससृष्टे रुद्रः कर्त्ता, पालयिता, संहार- कश्च । न हि ब्रह्मणः पालकसंहारकशक्तिमत्त्वं, केवलं सर्जकत्वमेव । विष्णुशिवयो- र्विविधशक्तिमत्त्वं श्रुतिसिद्धम् । परं कल्पभेदेन विजातीयसर्जकत्वेन । सात्त्विकसर्ज- कत्वं सत्त्वाधिष्ठातुः । तामससर्जकत्वं तमोधिष्ठातुरिति ॥ १२ ॥ एवं सृष्टिकर्तृत्वेन जगदात्मकत्वेन च निरूप्य प्रकारान्तरेण च तन्निरूपयन्ति निर्दोषेति ।
श्रीद्वारकेश्वरचरणविरचित टीकासमेतः । ४१ निर्दोषपूर्णगुणता तत्तच्छास्त्रे तयोः कृता । भोगमोक्षफले दातुं शक्तौ द्वावपि यद्यपि ॥ १३ ॥ भोगः शिवेन मोक्षस्तु विष्णुनेति विनिश्चयः । लोकेऽपि यत्प्रभुर्भुङ्क्ते तन्न यच्छति कर्हिचित् ॥ १४ ॥ सात्त्विकतामसादिषु शास्त्रेषु निर्दोषपूर्णगुणता परमकाष्ठापन्नवस्तुरूपत्वं विष्णुशिवयोरेव प्रतिपादितम् । यत इमौ परमकाष्ठात्वं प्राप्तौ । अतः द्वावपि भोग- मोक्षफले दातुं शक्तौ । भोगः विषयैरिन्द्रियतर्पणम्, मोक्षः सवासनसङ्घातलयः । एतदुभयं सविशेषं दातुमुभावपि समर्थौ यद्यपि, तथापि भोगः शिवेनैव, मोक्षो विष्णुनेवेति निश्चयः । एवं व्यवस्थायां दृष्टान्तत्वेन हेतुमाहुर्लोक इति । लोके ह्येतादृशी व्यवस्था सर्ववादिसिद्धा । यत्प्रभुणा भुज्यते तन्नान्यस्मै कस्मा अपि दीयते, अयोग्यत्वात् । शिवेन समाधौ मोक्षरूपः परमानन्दानुभवः क्रियते, तेन तदनुभावज्ञत्वात् सर्वस्वं दुर्लभमिति मत्वा भगवद्विमुखां ज्ञात्वा 'पत्नी हि सर्वस्य मित्रम्' इति श्रुत्या सर्वात्मना मित्रत्वमापन्नाया अपि यत्र न प्रयच्छति, तत्रान्यस्मै न प्रयच्छतीति किं वाच्यम् ? । ये त्वेतद्दानेऽयोग्यास्तेषां तद्दानं ज्वरितस्या- न्नदानमिव नाशजनकं भवति न तु योग्यानाम्। तदग्रे वक्ष्यामः। विष्णुरपि श्रियं भुङ्क्ते। तेन न स्वभोग्यामन्यस्मै असमानाय प्रयच्छति । यतो योग्यानामनुग्रहैकस्वभावः । भजतां लक्ष्म्यादिदाने मत्तः सन्तः प्रच्युता भविष्यन्तीति मुक्तिप्रतिबन्धिकां स्वानु- सन्धानप्रतिबन्धिकां श्रियं प्रत्युत हरति, न तु प्रयच्छति । किञ्च, यथा निःकामं शिवं भजतामेवाल्पप्रसाद्यः शिवः प्रसन्नो भूत्वा ब्रह्मविद्यादानपूर्वकं वैष्णवधर्मोपदेश- पूर्वकं वा मुक्तिं प्रयच्छति, न तथा सकामानाम् । ते यथावत् काम्यं प्राप्य भगवतः प्रच्युता भवन्ति । यतस्ते कृतपुण्यपुञ्जाः । भगवतापि तथैव सकामानां ते यथावत्काम्यं प्राप्य तथैवोक्तं 'चतुर्विधा' इत्यादिना । सकाममपि भगवद्भजनं कर्तारः काम्यं भुक्त्वापि भगवद्भजनमाहात्म्याज्जन्मान्तरेपि तथा संस्कारवन्तो भगवदिच्छां प्राप्य यदा ते निःकामा भूत्वा भगवन्तं भजन्ति, तदा कृतार्था भवन्ति । न त्वेवं शैवाः ॥ १४ ॥ एवं विष्णुशिवयोः भजतां प्रत्येकं सर्वथा भोगमोक्षाप्रदाने दानशक्तिरपगता भविष्यतीत्याशङ्क्य पक्षान्तरमाहुः अत इति । अतः प्रियाय तदपि दीयते क्वचिदेव हि । नियतार्थप्रदानेन तदीयत्वं तदाश्रयः ॥ १५ ॥
प्रत्येकं साधनश्चैतद् द्वितीयार्थे महाञ्छ्रमः । जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥ १६ ॥ श्रवणादि ततः प्रेम्णा सर्वं कार्यं हि सिद्ध्यति । मोक्षस्तु सुलभो विष्णोर्भोगश्च शिवत तथा ॥ १७ ॥ समर्पणेनाऽऽत्मनो हि तदीयत्वं भवेद् ध्रुवम् । अतदीयतया चाऽपि केवलश्चेत्समाश्रितः ॥ १८ ॥ उभयथा भजनस्य 'अकामः सर्वकामो वा' इत्यादिना विहितत्वात् । यत एतद- दाने उभयविधापि दानशक्तिरुभयेभ्योप्यपगच्छति । अतः क्वचित्कदापि दीयते । अधिकारिणमाहुः प्रियायेति । तादृशेभ्योऽपि क्वचिदेव दीयने । यथा प्रियव्रता- म्बरीषादीनां प्रियेभ्यो भगवद्भक्तवत्सलत्वात् स्वभोग्यमपि ददाति । तदपि क्वचि- देव । यत्र दाने सम्प्रदानानाशः, अग्रच्युतिश्च भवति, तत्रैव दीयते । अत एवकारः । उद्धरणैकस्वभावस्य नियतार्थप्रदानं युक्तमित्याहुर्हीति । ननु प्रियेभ्योपि नियतार्थ- दाने सकृद्दाने दातृशक्तिः कार्पण्यं भवेदिति चेत्, न, नियतार्थप्रदानेन चित्त- विक्षेपाभावात्तदीयत्वं तदाश्रयश्च भवति, तेन नासुरभावप्रदेशः स्यादिति भावः । 'भगवदीयत्वेनैव परिसमाप्तसर्वार्था' इति तेनैव तेषां कार्यसिद्धिः । केवलं तदीय- त्वेन तदधीनतया, स्थितौ मुक्तिं दत्त्वा ततः संसारादुद्धृत्य भजनानन्दानुकूलं देहं दत्त्वा, तदपि ददाति । मुक्तोद्धारस्तु मूलेच्छाधीनोऽशक्यश्चेति सोऽप्यशक्येऽर्थे भवति, भारदानमाश्रयः । एवं प्रत्येकं साधनभूते द्वे । तत्रैकं सुसाध्यमपरं कष्टसाध्यं चेति । तत्र हेतुर्जीवा इति । स्वभावतस्ते दुष्टाः, यद्यपि तथाभूतानां निवेदनमप्यशक्यम्, तथापि, तद्दोषयुक्तस्यात्मनिवेदने शक्तिरेव न भवेत् । (निवेदने) क्रियमाणे ते दोषा अपि निवेदिताः स्युः । ततस्तेषामप्यपगमश्च स्यात् । द्वितीये तु दोषे विद्यमाने आश्रयसिद्धिरॆव न भवेत्, दोषाणां चित्तविक्षेपजनकत्वात् । तस्मिन् सति भगवदनु- सन्धानाभावादाश्रयासिद्धेः । तस्मादात्मनिवेदन्नतस्तद्दोषनिवर्त्तनद्वाराऽश्रयसाधकं श्रव- णादि नवकं कर्त्तव्यम् । एतदेवोक्तं मातरं प्रति कपिलेन । 'यथा यथात्मा परिमृज्यते' इति । एवं कृते प्रेमैव भवति, नासक्तिव्यसने । अत एव प्रेम्णेत्येकवचनम्, तेन तेषामाश्रयः, तत्साध्यं च सर्वमेव कार्यं (आसक्तिव्यसनादिकं च) सिद्ध्यति । (विष्णुशिवयोः) उभयत्रैषा व्यवस्था । तत्तच्छास्त्रे तयोर्निर्दोषपूर्णगुणत्वनिरूपणात् । मुमुक्षूणां विष्णुविषयत्वेनैवंकररणमल्पेनैव फलं साधयति । भोगार्थिनां रुद्रविषयक- मेवं करणमपि तथैव । एवमेकधा भोगमोक्षसाधनसिद्धिमुक्त्वा प्रकारान्तरेण तन्नि-
श्रीद्वारकेश्वरचरणविरचित टीकासमेतः । ४३ रूपयन्ति, 'यथेष्टमुपयोगः कर्त्तव्यः' इति बुद्ध्या आत्मना सह स्वसर्वस्वविनिवेदने कृते सति तदीयत्वं भगवदीयत्वं तन्निवेदनेनैव भवतीत्यर्थः । ननु तदीयत्वसहि- तस्याश्रयस्य मुक्तिसाधकत्वं केवलस्य वा । नाद्यः, मानाभावात् । न द्वितीयः, तदी- यत्वसाध्य(फल)स्याश्रयासाध्यत्वादिति चेत् तत्राहुरतदीयतेयेति । यथा तदीयत्वं स्वतन्त्रतया मुक्तिसाधकम् , तथाश्रयश्च । तदाह केवल इति । तदीयत्वव्यतिरिक्तः सम्यक्कृताश्रयः। तथापि कार्यं भवत्येव। तदाश्रितोऽहं तदीयोऽहमिति बुद्ध्या भगवदी- यानामुत्पथगामित्वे मार्गे अपवादो मा भवत्विति विचार्य बहुधा करणसामर्थ्येऽपि किञ्चित्सत्कर्माचरणं कुर्यादित्यर्थः ॥ १८ ॥ तदाश्रयतदीयत्वबुद्ध्यै किञ्चित्समाचरेत् । स्वधर्ममनुतिष्ठन् वै भारद्वैगुण्यमन्यथा ॥ इत्येवं कथितं सर्वं नैतज्ज्ञाने भ्रमः पुनः ॥ १९ <sup>१</sup>/<sub>२</sub> ॥ समाप्तो मूलग्रन्थः यद्वा, निवेदनानन्तरमाश्रयानन्तरं वा यदनुष्ठेयं स धर्मः । तेन स्वधर्मापगम- भिया तदनुकूलमेव सत्कर्माचरणीयम् । अत एव, किञ्चिदुक्तम्, तदुक्तं भगवता, 'यावानर्थ उदपाने'इति। अथवा विष्ण्वाश्रितोऽहं वैष्णवोहमितिवुद्द्या किञ्चित् साधार- णमपि कर्त्तव्यम्, न केवलं पुरुषोत्तमसम्बन्धीययोरिव तदीयत्वाश्रययोरिव विश्वासं कृत्वा सर्वान्धर्मान्परित्यक्त्वा स्थेयम् । यत एते भगवदंशा, सत्त्वाद्यधिष्ठातारो देवाः । अत एव स्वधर्मं वर्णाश्रमधर्ममनुतिष्ठन्नेव स्यात् । अन्यथा एतदुभयमाश्रित्य तदीयोः पुरुषोत्तमसम्बन्धीयभावेन शारीरधर्मत्यागे प्रयात एव भवेदिति । गुणा- धिष्ठातारस्तु विद्यमाने पापे मोचका न भवन्ति । धर्मत्यागजन्यं दूरीकृत्य न ते मोचकाः, सामर्थ्याभावात् । तेन यथा शारीरा धर्मास्तथा तदीयत्वतदाश्रयौ । एवं प्रकारेण, इति सर्वं पूर्वं प्रतिज्ञातं कथितम् । विचार्य सारोद्धारः कृतः, यथा औष- धीनां क्वाथः। न तु येभ्य एव लीनः सारस्तेभ्यः पृथक् क्रियते, रुग्णानां रोगनिवर्त्तना- र्थम् । एवं लौकिकानामलौकिकानामेकीकृत्य निरूपणे लौकिकेभ्यः स्वकीयेभ्योऽलौ- किकानां सारोद्धाररूपेण निरूपणे सामान्येभ्यो विशेषाणां निरूपणं भवति, तेनोभय- जातीयानामेकविधानामभिनिरूपणेऽपि न ज्ञाने भ्रमो भवतीत्यर्थः ॥ १९ <sup>१</sup>/<sub>२</sub> ॥ इति श्रीद्वारकेश्वरविरचिता बालबोधटीका सम्पूर्णा ।
इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है (यह एक रिक्त/कोरा पृष्ठ है)।
श्रीमद्-वल्लभाचार्य-महाप्रभु-विरचित-षोडश-ग्रन्थान्तर्गता-तृतीया सिद्धान्तमुक्तावली नवटीकाभिः समलंकृता १. श्रीमत्प्रभुचरणानां विवृतिः २. श्रीगोकुलनाथानां विवृति टिप्पणी ३. श्रीकल्याणरायाणां ,, ,, ४. श्रीपुरुषोत्तमानां विवृति प्रकाशः ५. श्रीविट्ठलेशात्मजश्रीवल्लभानां विवृति टिप्पणी ६. श्रीरघुनाथात्मजश्रीव्रजनाथानां ,, ,, ७. श्रीलालूभट्टानां सिद्धान्तमुक्तावली योजना ८. श्रीद्वारकेशानां विवृति टिप्पणी ९. श्रीहरिरायाणां लेखः श्रीमद्-वल्लभाचार्य-महाप्रभु-प्रवर्तित-शुद्धाद्वैत-सम्प्रदायस्य-सप्त- पीठान्तर्गत-द्वितीय-पीठाधिष्ठित-गोस्वामि श्री १००८ श्री कल्याणरायजी-महाराजश्रीत्येतेषां करकमलयोरर्पिता वि. सं. २०३६ श्रीवल्लभाब्दाः ५०२
प्रकाशक : श्रीवल्लभविद्यापीठ एन्ड श्रीविठ्ठलेशप्रभुचरणाश्रम ट्रस्ट कोलापुर, महाराष्ट्र ४१६००१ भारत साधारणसंस्करण २,००० प्रति राजसंस्करण १,००० प्रति श्रीवल्लभाब्द : ५०२ ग्रन्थ-परिचय लेखक : गोस्वामी श्याम मनोहर मुद्रक : स्टूडिओ बहार २३ ए, सेन्ट्रल चौपाटी बिल्डिंग, चौपाटी, बम्बई-४०० ००७.
गोस्वामि श्री १००८ श्री कल्याणरायजी-महाराज
इस पृष्ठ पर कोई पाठ (text) अंकित नहीं है, यह पृष्ठ पूर्णतः रिक्त (blank) है।
॥ श्रीकृष्णाय नमः ॥ ॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ ग्रन्थ-परिचय कहा जाता है कि सिद्धान्तमुक्तावली श्रीमहाप्रभुने अच्युतदास सनोढि- याके लिए लिखी थी. एक किवदन्तीके¹ अनुसार यह रचना वि. सं. १५५५ में जतिपुरामें की गई. बालबोधवाले नारायणदास और इन अच्युतदास के चरित्रमें कई बातोंमें समानता भी है और उल्लेखनीय अन्तर भी. नारायणदासको श्रीमहाप्रभुने स्वरूपसेवा पधरानेसे इन्कार कर दिया था, जबकि अच्युतदासको श्रीगोवर्धन- घरकी सेवामें नियुक्त करना चाहते थे. नारायणदासके व्यावृत्तिमय जीवनके कारण उनसे स्वरूपसेवाका निर्वाह सम्भव न था, जबकि अच्युतदासके चरित्रके अवलोकनसे उनकी रुझान सर्वथा अव्यावृत्त जीवन-यापनकी प्रतीत होती है. अतः तनुवित्तजा-सेवा अथवा गृहसेवा के प्रकारके निर्वाहका तो प्रश्न ही नहीं उठता. सो श्रीगोवर्धनघरकी केवल तनुजासेवा करनेके बजाय इन्होंने सीधे ही श्रीमहाप्रभुसे मानसी सेवाका वरदान ही मांग लिया ! नारायणदासको जैसे स्वरूपसेवाके अनुकल्प श्रीहस्ताक्षरकी सेवाद्वारा उत्कट भावका दान मिला, वैसे ही अच्युतदासको प्रथम तनुवित्तजा-सेवा और तब मानसी सेवा के सिद्धा- न्तसम्मत क्रमके बिना सीधे ही फलरूपा मानसी सेवाका दान श्रीमहाप्रभुने कर दिया ! सिद्धान्तमुक्तावली तथा सम्बद्ध वार्ता के अवलोकन करनेसे प्रतीत होता है कि जैसे विराटरूपके साक्षात्कारके समय श्रीकृष्ण और अर्जुन में कुछ एक मीठा विवाद हो गया था, वैसा ही विवाद श्रीमहाप्रभु और अच्युतदास में भी हुआ होना चाहिए. श्रीकृष्ण अपने विराटरूपकी महत्ता और देवदुर्लभता समझा रहे थे पर अर्जुनका कहना था कि जो भी हो उसे इस स्वरूपके नहीं किन्तु सौम्य मानुष स्वरूपके ही दर्शन सुहाते हैं. वैसे ही अच्युतदासको भी नामनिवेदन १ वैष्णववाणी (अंक ४ वर्ष १९७९)में श्रीनागरदास बांभणिया शास्त्री द्वारा लिखित लेख.
करानेके बाद श्रीमहाप्रभु श्रीगोवर्धनधरकी सेवामें नियुक्त करना चाहते थे- "तुम गोवर्धनधरकी सेवा करो !' तब अच्युतदास श्रीआचार्यजीको दंडवत करि विनती किये- 'महाराज ! मोपर ऐसी कृपा करो जो एकान्तमें बैठिके मानसी सेवामे मन लागे ?' तब श्रीआचार्यजी अपनो चरणामृत दिये. सो अच्युतदास पान करि, हाथ नेत्रनसों लगाय, मस्तकपर लगाय हृदयसों लगायो. तब अच्युतदासके नेत्र अलौकिक हो गये. लीलाको दरसन करन लागे...." वैसे तो "प्रार्थिते वा ततः किं स्यात् स्वाभ्यभिप्रायसंशयात्. सर्वत्र तस्य सर्वं हि सर्वसामर्थ्यमेवच" (भक्तिवर्धनी) का सिद्धान्त सभी शरणागत जीवों- पर लागू होता ही है. फिरभी स्नेहके आवेशमें भक्त कभी-कभी कुछ न कुछ मांग ही लेते हैं. भगवान्को भी वह कृपाके आवेशमें देना ही पडता है. क्योंकि "अनुग्रहः पुष्टिमार्गे नियामक इति स्थितिः" (सिद्धान्तमुक्तावली) में निरूपित अनुग्रहशीलता अथवा भक्तपरवशता का रहस्य कुछ भक्तोंके हाथ लग जाता है! जो इस तरह प्रभुके स्वभावका लाभ ले लेते हैं, उन अग्रगण्य भक्तोंमें अच्युतदास भी एक हैं. "तब श्रीआचार्यजीने सिद्धान्तमुक्तावली करि पढ़ायी. ता करि मानसीमें मग्न भये सो गोविन्दकुण्डके पास गुफामें रहते. नेत्र प्रेमरससों भरे रहते. सो श्रीगुसांईजी नित्य दरसन देवे पधारते. ऊपर यह भाव मर्यादा राखन अर्थ परन्तु श्रीगुसांईजी दरसन करवे आवते. सो याते श्रीगुसांईजीकों श्रीआचार्यजीको अनुभव होतो. अच्युतदासके नेत्रनमें श्रीमहाप्रभुजी झलकते" (भावप्रकाश). वस्तुतः पुष्टिमार्गमें अनुग्रह ही नियामक है, भक्तका भी और भगवान्का भी- भक्तिकी साधनामें भी और भक्तिके फलदानमें भी ! अच्युतदासने छीन-झपटकर अपवादरूपसे जो अधिकार प्राप्त कर लिया था उसका कोई गलत अर्थ न लगा ले, अतएव श्रीमहाप्रभु अपनी सैद्धान्तिक स्थिति इस ग्रन्थमें स्पष्ट करते प्रतीत होते हैं. कृष्णसेवा हम पुष्टिमार्गीय जीवोंका सनातन कर्तव्य है. जब यह कृष्णसेवा मानसीरूपमें फलित हो जाती है तो वह सेवाकी उत्कृष्टतम अवस्था है. क्योंकि चित्तका भगवान् श्रीकृष्णके साथ तन्मय हो जाना ही सेवा है. चित्तको श्रीकृष्णके साथ तन्मय करनेके लिए स्वयम् अपने तन तथा धन को कृष्ण- सेवामें लगाना चाहिए. रही बात सांसारिक दुःखोंके दूर होनेकी या अलौकिक
ब्रह्मानन्दके प्राप्तिकी तो वह तो इस कृष्णसेवामें मिलते भजनानन्दका एक आनुषंगिक लाभ है ही. क्योंकि ब्रह्मानन्दमें अनुभूत होता अक्षरब्रह्म गणितानन्द है जबकि भजनानन्द तो परब्रह्म अगणित-सच्चिदानन्द श्रीकृष्णकी सेवाद्वारा ही मिल सकता है. यह अक्षरब्रह्म समग्र जागतिक रूपोंका उपादान होनेके कारण सर्वरूप भी है तथा सर्वविलक्षण भी. जगतके कारणके स्वरूपके वारेमें अनेक प्रकारके विवाद दिखलाई देते हैं. उदाहरणतया विवर्तवादी लोग इस जगतको मायिक मानते हैं. प्रकृतिपरिणामवादी इसे प्रकृतिके सत्व-रज-तमोगुणोंका परिणाम मानते हैं. आरम्भवादी सूक्ष्म परमाणुओंसे निर्मित मानते हैं. मीमांसकोंके अनुसार जगत जैसा आज दिखलाई देता है वैसा ही सर्वदा था और रहेगा. अतः इसके कर्ताके रूपमें परमात्माको वे मान्य नहीं करते. श्रौत मतके अनुसार, किन्तु, माया प्रकृति परमाणु अदृष्टकर्म वासना या स्वभाव आदि सभी रूपोंमें अक्षर- ब्रह्म ही जगत्का एकमात्र कारण बनता है. अक्षरब्रह्म अतएव सर्वरूप होनेपर भी सर्वविलक्षण है. जगत और अक्षरब्रह्म के परस्पर स्वरूपोंको आधिभौतिक गंगाजल, जो ग्रीष्म या वर्षा में घटता या बढ़ता है, और आध्यात्मिक तीर्थरूपा गंगा, जिसका ग्रीष्म या वर्षा से कोई भी सम्बन्ध नहीं है, के समान समझना चाहिए. आधिभौतिक रूपमें गंगा केवल एक नदी है पर आध्यात्मिक रूपमें मर्यादा- मार्गीय विधिके अनुसार तीर्थरूपा गंगाके तटपर तीर्थवास करनेवालेको मनो- वांछित फल देनेवाली मानी गयी है. इसी तरह जगतके सभी नाम-रूप अक्षर- ब्रह्मके आधिभौतिक रूप हैं पर इनसे विलक्षण भी अक्षरब्रह्मका एक आध्या- त्मिक रूप है, जो मर्यादामार्गीय ज्ञानियोंके लिए उपास्य तथा मोक्षप्रापक रूप है. गंगाके इन दो आधिभौतिक तथा आध्यात्मिक रूपोंके अलावा एक तीसरा आधिदैविक रूप भी कभी-कभी भक्तोंकों उनकी भक्तिके आवेशमें अनुभूत होता है-एक मूर्तिमती देवीके रूपमें. इस आधिदैविक रूपका प्रत्यक्ष सभीको नहीं होता. यह तो उन्हींको दिखलाई देता है जिन्हें गंगाके आधिभौतिक आध्यात्मिक तथा आधिदैविक सभी रूपोंमें तीव्र भक्तिके कारण अभेदबुद्धि घटित हो जाती है. यह घटित होनेपर आधिभौतिक रूपमें भी सर्वत्र आधिदै- विक रूपका सा व्यवहार सम्भव हो जाता है.
गंगाके आधिभौतिक रूप जलकी तरह यह सारा जगत है. गंगाके आध्या- त्मिक तीर्थरूपकी तरह अक्षरब्रह्मको समझना चाहिए. गंगाके आधिदैविक रूपे मूर्तिमती देवीकी तरह श्रीकृष्णको समझना चाहिए. जगत जैसे त्रिविध सत्व-रजस्-तमोगुणात्मक है, वैसे उसके नियामक देवता भी त्रिविध विष्णु-ब्रह्मा-शिव माने जाते हैं. इसी तरह अक्षरब्रह्म क्योंकि एकविध है अतः उसके नियामक-अधिदेव भी परब्रह्म श्रीहरि एक ही हैं. अतः अक्षरब्रह्ममें अवस्थित ब्रह्मादि सकल देवताओंके नियामक भी श्रीहरि ही हैं. श्रीहरि द्वारा अधिकृत होनेके कारण ही ये देवता भी मनोवांछित फलदान करनेमें समर्थ बनते हैं. जहांतक पुष्टिभक्तोंका प्रश्न है तो उनके तो सभी मनोवांछित ऐहिक या पारलौकिक फल परमानन्दरूप श्रीकृष्णसे ही निश्चित- तया परिपूर्ण हो जाते हैं. अतः ब्रह्मवादको अच्छी तरह समझकर केवल कृष्णमें ही अपनी बुद्धि लगानी चाहिए. ब्रह्मवादके अनुसार सभी जीवात्मा अक्षरब्रह्मकी अंश हैं अतएव ब्रह्मा- त्मक हैं. पर अविद्याजन्य अहन्ता-ममताबुद्धिके कारण स्वयम्की ब्रह्मात्मकताका हमें बोध नहीं हो पाता है. जैसे आकाशको एक चलनीमें से देखा जाय तो चलनीके छिद्र आकाशके अनेक छिद्रोंकी तरह प्रतीत होंगे. ऐसे ही अहन्ता- ममताकी चलनीमें से अनुभूत होनेके कारण अखण्ड अक्षरचैतन्य भी हमें खण्डशः व्यक्तिचेतनाके रूपमें भिन्न-भिन्न अनुभूत होता है. व्यक्तिचेतनाकी ब्रह्मात्मकताका बोध केवल अहन्ता-ममताकी उपाधिके दूर होने मात्रसे नही हो जाता, अपितु परब्रह्मके धामरूप व्यापक अद्वैत अखण्ड अक्षरब्रह्मके ज्ञान होनेपर ही वह सम्भव है. अपनी अक्षर- ब्रह्मात्मकताके बोध होनेपर अक्षरब्रह्ममें विराजमान परब्रह्म पुरुषोत्तम कृष्णके दर्शन सम्भव हो जाते हैं. जैसे गंगातीरपर तीर्थवास करनेवाला भक्त अपनी तीव्र भक्तिके कारण आधिदैविक स्वरूप मूर्तिमती गंगाके दर्शन पा लेता है, वैसे ही आध्यात्मिक अक्षरब्रह्ममें निवास करनेवाला भक्त उसके आधिदैविक स्वरूप श्रीकृष्णके दर्शन पा लेता है. माहात्म्यज्ञानके बिना सांसारिक वृत्तिसे जो कृष्णभजनमें प्रवृत्त होते हैं उनकी भगवान्के साथ दूरी मिटती नही है. जैसे कोई गंगाका भक्त गंगातटसे
दूर रहनेके कारण-गंगाजलके स्नान-आचमन-अर्चनसे वंचित रहनेके कारण दुःखी रहता है, वैसे ही माहात्म्यज्ञान (और/अथवा सुदृढ सर्वतोधिक स्नेह) के अभावमें कृष्णभजनमें प्रवृत्त होनेपर कुछ न कुछ क्लेश तो होता है. पर कृष्णभजन कभी व्यर्थ नही जाता. अतः जन्मान्तरमें भी कभी न कभी महात्म्यज्ञान और/अथवा सुदृढ सर्वतोधिक स्नेह प्रकट होगा और जीवात्मा तथा परमात्मा कृष्ण के बीचकी दूरी कम होगी ही यह निश्चित है. अतः जगतकी सारी झंझटोंको छोड़कर पुष्टिके प्रशस्त पथपर चलते हुए पुष्टिजीवको श्रीकृष्णका ही निरन्तर चिन्तन करते रहना चाहिए. श्रीकृष्णने अपने आधिदैविक रसात्मक आनन्दमय स्वरूपसे सभी व्रजभक्तोंमें परमानन्दका सागर प्रकट किया है ओर अपने उस आत्मीय आनन्दके सागरमें श्रीकृष्ण सनातन लीलाविहार करते है. ऐसे व्रजभक्तोंमें लीलाविहार करने- वाले श्रीकृष्णके स्वरूपका ही हमें सर्वदा चिन्तन करना चाहिए. पुष्टिप्रवाहमर्यादा ग्रन्थमें पुष्टिजीवोंके दो अवान्तर भेद शुद्धपुष्टि और मिश्रपुष्टिके दिखलाये गये हैं. तद्नुसार मिश्रपुष्टिवाले जीवोंमे प्रवाही जीव कभी-कभी किसी लौकिक प्रयोजनके वशीभूत होकर भी कृष्णभजनमें प्रवृत्त हो जाते हैं. ऐसे प्रवाहपुष्टिवाले जीवोंके लिए कृष्णभजन सर्वथा क्लिष्ट हो जाता है. फिर भी जो सारे क्लेशोंको झेलते हुए कृष्णभजनमें लगे ही रहते है-उसे अधबीचमें छोड़ नहीं देते-उनके सारे लौकिक आवेश सर्वथा नष्ट हो जाते है. स्वयम् अपने आत्मस्वरूपके तथा अपने भजनीय परमात्माके भी समुचित शास्त्रीय ज्ञानके बिना भजनमें प्रवृत्त हो जानेवाले भक्त पुष्टिजीव भी हो सकते हैं और मर्यादाजीव भी. कभी-कभी मर्यादामिश्रित पुष्टिके जीवको भी 'मर्यादाभक्त' कहा जाता है. वैसे सामान्यतः 'मर्यादाभक्त' का अर्थ केवल मर्यादामार्गीय भक्तिमान् जीव ही होता है. मर्यादामिश्रित पुष्टिभक्त प्रारम्भिक अवस्था में भक्तिरहित शास्त्रीय ज्ञानवान् भी हो सकता है तथा शास्त्रीय माहात्म्यज्ञानके अभावमें भी भक्ति- मान् हो सकता है. ज्ञानरहित मर्यादापुष्टिभक्तको अपने चित्तको भगवान्में लगाये रखनेके लिए भगवान्की पूजा-उत्सवादिकी प्रक्रियामें तत्पर रहना चाहिए. भक्तिरहित
ज्ञानवान् मर्यादामिश्रित पुष्टिभक्तको दास्यभावप्रदायिनी गंगाके तटपर स्नेहोत्पत्त्यर्थ श्रीभागवतके अनुशीलनमें तत्पर होना चाहिए. इन दोनों प्रकारके मिश्रपुष्टिवाले भक्तोंको जब भगवान्के विशेष अनुग्रहका प्रकाश मिलता है तब वे पुष्टिमार्गको खोज पाते हैं तथा पूर्वोक्त तनुवित्तजा सेवाके क्रमसे अन्तमें उन्हें मानसी सेवा फलित हो जाती है. जो केवल मर्यादामार्गीय जीव होते हैं वे भी भक्तिरहित ज्ञानवान् अथवा ज्ञानरहित भक्तिमान् हो सकते हैं. इन दोनों प्रकारके जीवोंको सायुज्य मिलता हैं. पर अन्तर यह है कि भक्तिरहित ज्ञानवान् जीव ज्ञानमार्गीय प्रक्रियासे आध्यात्मिक अक्षरब्रह्ममें सायुज्य-लय प्राप्त करता है, जबकि मर्यादाभक्त दास्यभावप्रदायिनी गंगाके प्रसादसे आधिदैविक स्वरूपमें मर्यादाभक्तिमार्गीय सायुज्य प्राप्त करता है. मर्यादामार्गीय साधककी साधनामें देश-काल आदिके नियम हैं, परन्तु पुष्टिभक्ति तो देशकालके बन्धनमें नहीं है. पुष्टिमार्गमें तो भगवान्का अनु- ग्रह ही केवल एकमात्र नियम या बन्धन है. अतः जिस देशमें या जिस कालमें भगवान्का अनुग्रह मिल जाय सर्वत्र एवम् सर्वदा पुष्टिभक्ति सम्भव है. हर सूरतमें यों अक्षरब्रह्ममें सायुज्यका दान करनेवाले ज्ञानमार्गकी तुल- नामें भक्तिमार्गका उत्कर्ष दिखलाई देता है. अतः भक्तिके बिना सब कुछ व्यर्थप्राय है. गंगातटपर तीर्थवास करनेवाला भी आधिदैविक गंगाके बारेमें यदि भक्तिरहित होता है तो कभी न कभी गंगाके आध्यात्मिक माहात्म्यको भूल कर अथवा उसे केवल आधिभौतिक जल ही समझ कर अपने दुष्ट कर्मोंके कारण अन्तमें उसके आध्यात्मिक लाभसे भी वंचित रह जाता है. इसी तरह आधिदैविक कृष्णके स्वरूपमें सर्वथा भक्तिके अभावमें, आध्यात्मिक स्वरूप अक्षरब्रह्ममें ज्ञानबलसे निवास करनेवाला विमुक्तिमानी साधक भी अरविन्दाक्ष श्रीकृष्णमें भावशून्य होनेके कारण अक्षरमे सायुज्यके लाभसे भी वंचित होकर पुनः भवप्रवाहमें अधःपतित हो जाता है. यह श्रीभागवतशास्त्रका गुप्त रहस्य श्रीमहाप्रभुने न केवल अच्युतदास के लिए प्रकट किया है, अपितु सभी पुष्टिजीवोंको — श्रीमहाप्रभुके स्वकीयोंको उनके कर्तव्यके उपदेशके रूपमें दिखला दिया है. इसे अच्छी तरहसे एकबार