भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

४. जलभेदः, संन्यासनिर्णयः, निरोधलक्षणम् एवं सेवाफलम्

पुष्टिप्रवाहमर्यादा । ४३

ष्या' दिति सिद्धान्तमुक्तावल्यामाचार्यैर्निरूपितम् । एवं प्रवाहेऽपि मायामनोरूपः समवायी । 'द्वे अस्य बीजे' इत्यारभ्य 'मायामयं वेद स वेद वेद' मिति भगवता निरूपणात् । न च मिथ्यात्वं सर्वस्य । मायामात्रस्यैव तथात्वात् । सन्ध्याधिकरणेन तथा निश्चयात् । अत्र मात्र- पदाभावात् । कात्स्न्र्येनाभिव्यक्तस्वरूपत्वाच्च । मायायाः शक्तितया सतीत्वेन मयटो विकारा- र्थत्वेऽप्यदोषाच्च । अतोऽहङ्कारस्य चिदचिद्रन्थिरूपत्ववद्व्यावहारिकप्रवाहस्य सदसद्ग्रन्थिरू- पतया सत्यत्वस्यापि विद्यमानत्वान्न कोऽपि शङ्कालेशः । पुष्टौ तु पुरुषोत्तम एव सर्वांशेन कार्यकारणरूप इत्यभिप्रेत्य कायेनेत्युक्तम् । अत एव श्रुतौ साक्षात्परम्पराभ्यां सृष्टिः स्वस्यैव सर्वरूपेण भवनं चेति प्रकारत्रयेण सृष्टिकथनम् । अत एव तैत्तिरीये ब्रह्मविद्ब्र- पाठके 'तस्माद्वा एतस्मादात्मन आकाशः सम्भूत' इति 'सोऽकामयत बहु स्यां प्रजायेयेति' 'स आत्मानग्ंस्वयमकुरुते'ति वारत्रयं सृष्टिरुक्ता । वैजात्याभावे तथा कथनमप्रयोजनकं स्यात् । तस्मान्न कोऽपि शङ्कांशः । कारणवैजात्ये फलवैजात्यन्यायस्य तुल्यत्वात् । अवा- न्तरभेदास्त्वेतेष्वेवान्तर्भवन्ति । एतच्च लीला सृष्टेर्भगवदात्मकत्वं 'नारायणसमो गुणै'रित्यत्र 'तमद्भुतमि'त्यत्रापि च निर्णीतं श्रीमदाचार्यचरणैः । अत एव 'अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म' 'दहर उत्तरेभ्य' इत्यादिश्रुतिसूत्रैर्भगवल्लीलासृष्टेर्भगवद्रूपत्वमुच्यते । बृहद्वामनपुराणे 'आनन्दमात्रमिति यद्वदन्तीह पुराविदः । तद्रूपं दर्शयास्माकं यदि देयो वरो हि न' इति श्रुतिभिः प्रार्थितो भगवान् 'स्वलोकं प्रकृतेः परम् । केवलानुभवानन्द- मात्रमक्षरमध्यग' मित्युपक्रम्य 'किशोराकृतिरच्युत' इत्यन्तेन वृन्दावनगोवर्धनयमुनादिसर्वभ- क्तसहितं स्वस्वरूपं दर्शितवानिति सर्वस्या एव लीला सृष्टेस्तद्रूपत्वमायातीत्येतत्सर्वं विद्वन्म- ण्डने स्पष्टम् । ननु भवत्वेवं सर्गभेदः, तथापि सर्वेषां जीवानां भगवदंशत्वाविशेषात्प्र- वाहिकानामेव अतिदुष्टत्वे को हेतुः । न च रमणेच्छैव हेतुः । तथा सति स्वरतीच्छायां तेषां लयः स्यात् । न च जायत एवेति वाच्यम् । तथा सति अतिदुष्टता न स्यात् । यथा कर्मिणाम् । न चेष्टापत्तिः । तथा सति 'मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गति'मिति भगद्वाक्यविरोधः स्यात् । एवकारश्च सर्वमुक्तिदशायामपि प्राप्यभावद्योतको विरुध्येत । कर्मिणामपि सर्वमुक्तितोऽर्वाक् भगवत्प्राप्त्यभावादुच्चनीचकर्मणा चाधमादिगतेरपि जाय- मानत्वादविशेषश्च स्यात् । मामित्यस्य पदस्याक्षरपरत्वेऽपि न निस्तारः । उक्तदोषताद- वस्थ्यात् । वस्तुतस्तु लयाभावोऽप्यशक्यवचनः । 'यथाग्निप्रभवा' इति वाक्यात् । अथोक्त- गीतावाक्यानुरोधा'द्यथाद्री'ति वाक्यस्थे गतिपदे सङ्कोचः कार्यः । तथा सति तेषामन्धत- मःप्रवेश एव मुक्तिः । तथाच सर्वमुक्तिदशायामपि न भगवति तेषां लय इति स्वीक्रियत इति चेत् । तर्हि 'यतो वा इमानी'त्यादि 'अव्यक्तादीनि भूतानी'त्यादिश्रुतिभगद्वाक्य- योर्भगवत एवोत्पत्तेर्भगवत्येव च लयस्य कथनात्तेषां तत्र लयानङ्गीकारे तत उत्पत्तिरपि न स्यात् । यदि चोभयसामञ्जस्यार्थमन्धतमसस्ततोऽतिरेकेण प्रलये स्थितिरङ्गीक्रियते, तदा 'भवानेकः शिष्यतेऽशेषसंज्ञ' इति श्रीभागवतवाक्यविरोधः । न च सर्वस्य ब्रह्मात्मकत्वा-

४४ श्रीपीताम्बरकृतविवृतिसमेता । दन्धतमसोऽपि तथात्वादेकपदस्य मुख्यवाचकत्वेनाप्युपपत्तेस्तत्स्थितौ को दोष इति वाच्यम् । अन्धतमसो विकारत्वात्तस्य ब्रह्मत्वाङ्गीकारे 'वाचारम्भणं विकार'इत्यादि 'विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवा' नित्यादिश्रुतिभगवद्वाक्यविरोधात् । 'बृहदुपल- ब्धमेतदवयन्त्यवशेषतये'त्यादि 'निर्दोषपूर्णगुणविग्रह' इत्यादिवाक्यानि च विरुध्येरन् । अतो भगवति लयानङ्गीकारे भगवतो न तदुपादानत्वमिति सिध्येत् । किञ्च । रमणेच्छाप्ये- तदुत्पत्तौ न कारणीभवितुमर्हति । यतो रमणेच्छया स्वयं तावद्रूपो भूत्वा क्रीडतीत्युच्यते । एतेषां च केवलं दुःखित्वान्न रमणलेशोऽपि । अत एव 'केवलं नित्यदुःखा' इति श्रीवल्ल- भाष्टकोक्तिरपि सङ्गच्छते । न च भगवद्विष्रा एव केचनैव जीवाः सन्ति येषामियं व्यव- स्थेति वाच्यम् । अद्वैतश्रुतिविरोधात् । तस्मादुत्पत्तेरेवाभावान्मार्गभेदव्यवस्था कर्तुमेवाश- क्येति चेत् । अत्रोच्यते । भगवान् हि सर्वरसभोक्ता राजवद्रमणार्थं स्वस्वरूपात्मकं प्रपञ्चं कृतवान् । तत्र च वैरिणोऽप्यपेक्षिताः । अन्यथा वीररसभोगो न स्यात् । स्वांशाश्च वैरिणो न भवन्त्येव । 'यो यदंशः स तं भजते' इति वाक्यात् । तथाच पूर्वोदाहृतश्रुतिस्मृ- तिभिर्भगवता स्वसामर्थ्यरूपया मायया केचन जीवा मायांशा एव 'जीवेशावाभासेन करोती'ति श्रुत्युक्ता व्यावहारिकस्तद्योग्यव्यावहारिकसकलसामग्रीयुक्ताः सृष्टाः सन्तीत्य- वगम्यते । व्यवहारश्च लौकिको गुणानां सन्निपातः । 'अदृष्टान्यतम'मित्यस्य देवक्युद्दे- शेनोक्तस्य भगवतो वाक्यस्य विवरणे 'यद्यपि मत्तोऽन्ये ये केचन सम्भवन्ति मायया सृष्टा' इत्यत्र स्पष्टमिदम् । सप्तत्रिंशाध्यायेऽक्रूरस्तुतौ 'म्लेच्छप्राये'त्यस्य विवरणे च 'म्लेच्छा ये सहजा दैत्यास्ते गुणवन्तोऽपि हन्तव्या' इत्यनेन । अत एव श्रीमदाचार्यैरपि सृष्टिभेदनि- रूपणे निबन्धे 'महेन्द्रजालवत्सर्वं कदाचिन्माययासृजत् । तदा ज्ञानादयः सर्वे वार्ता- मात्रं न वस्तुत' इति पद्याभासे 'स्वप्नादिसृष्टिसङ्ग्रहार्थमाहे'त्यादिपदमेतदभिप्रायकमे- वोक्तम् । अत एव 'मायेत्यसुराः' 'यो यदंशः स तं भजत'इत्यादिश्रुत्यादयोऽपि सङ्ग- च्छन्ते । अत एव श्रीगोकुलनाथचरणैरपि सिद्धान्तमुक्तावलीविवृतिच्छायाः 'सेवा हि सेव- कधर्मस्तदुक्त्या जीवानाम् अशेषाणां सहजदासत्वं ज्ञापित'मिति फक्किकाया व्याख्याने 'आसु- रव्यतिरिक्तानामशेषाणा'मित्युक्तम् । अत एव 'पुमान् विरज्येत विना पशुघ्ना'दिति श्लोक- व्याख्याने 'अनिवर्त्यदोषेण चाप्रवेश' इत्युक्तिराचार्याणामस्माकमाश्रयः । 'सहजासुरत्वेनेत्यर्थ' इति प्रभुचरणतद्विवृतिरपि । अत एव 'असन्नेव स भवति असद्ब्रह्मेति वेद चे'दिति 'न सत्यं तेषु विद्यत' इत्यादिश्रुतिभगवद्वाक्ये तेषां व्यावहारिकं सत्त्वं वदतः । अत एव देवकीसुतानयनाय गतवन्तं भगवन्तं स्तुवतो बलेर्वाक्यविवृतौ श्रीमदाचार्यैरुक्तम् , 'ते चेत् द्वेषिणस्तदा तेषां नरकपात आवश्यक इत्या'सुरीं योनिमापन्ना' इति वाक्यानुसारेण कदाचि- दप्यमुक्तौ कथं भगवान् सर्वात्मे'ति । तथाच इच्छामात्रेण निमित्तेन मायोपादानकं प्रवाहं सृष्टवान् । न तु स्वयं तत्र प्रविष्टः । तथाच मायया निर्मितेषु नरकादिरूपविकारेषु ते पतन्तीति न कोऽपि दोष इत्यर्थः । ये च मुच्यन्ते ते च नासुराः । किन्त्वासुरावेशिनः ।

तथाच ते भगवदंशा एवेति निष्कर्षः । यदा च स्वरतीच्छा तदा मायामप्युपसंहरतीति तेऽपि न प्रतिभासन्ते । वस्तुतस्तेषामसत्त्वात् । तथाच ये प्रपञ्चं मायिकमेवाहुस्त आसुरा एव । यतस्तेषां तथैव भासते । 'पुण्यो गन्ध' इत्यादिवाक्यविचारेण दोषप्रतीतिमात्रस्य मायिकत्वमिति न कोऽपि दोषः । ननु सामर्थ्यस्य स्वरूपानतिरिक्तत्वात्प्रावाहिकाणां विकारस्य च मायोपादानकत्वाद्विकारित्वं ब्रह्मणो दुर्वारमिति चेत् । न । न हि तेषां सामर्थ्यरूपत्वम् । असत्त्वात् । किन्तु सामर्थ्यात्प्रतीयमानत्वम् । अन्यथा सत्यता स्यात् । दृश्यतेऽपि नटैः प्रदर्श्यमानस्य मिथ्यात्वं क्षणिकत्वात्तत्सामर्थ्यस्य च सत्यत्वमिति न मार्गभेदानुपपत्तिः । यद्वा । वीररसभोगार्थमुत्पादिता अपि जीवाः सत्या एव । 'जीवेशावा- भासेने'ति श्रुत्युक्तस्याप्याभासस्याभाससमानाकारत्वात् । तयोः समानाकारत्वस्यैव लोके दर्शनात् । अत्राभासाभासयोरुभयोरप्यन्तरत्वेन द्वेषरूपधर्मप्रतिबिम्बेऽपि बाधकाभावात् । न च वीररस उपयुज्यमानस्य तद्धर्मस्य द्वेषस्य तेष्वभावः शङ्क्यः । द्वेषस्याप्यानन्दतिरो- भावात्मकत्वेन तेषु तत्सत्त्वात् । अतस्तद्विशिष्टा एव ते । किञ्च । 'सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभो'रिति द्वितीयस्कन्धोक्ता भगवदुत्पन्ना गुणाः कार्यार्थं मायया यथा गृह्यन्ते, तथा भगवत्कार्यार्थं तया ते जीवा अपि स्वजन्यया अविद्याशक्त्या गृह्यन्ते । अत एव विद्वन्मण्डने 'यस्मिञ्जीवे यादृशीच्छा तदनुरूपा एवाविद्यादिशक्तयः सत्त्वादिभेदेन तं व्याप्नुवन्तीति महदैश्वर्यं भगवत' इत्युक्तम् । तेन ते 'प्रवृत्तिं च निवृत्तिं चे'त्युक्तासुरधर्माणो भवन्ति । तद्धननादिना भगवानपि वीररसादिकं भुङ्क्ते । तादृशभगवदिच्छावशादेव तेषां तथात्वमिति 'यो यदंशः स तं भजत' इति वाक्यस्यापि न विरोधः । तैर्भजनकारणे भगवदिच्छाभावात् । तेन तेषां देहादिकं सदसद्ग्रन्थिरूपं प्रागेव साधितम् । एवं सति ते स्वकर्मणान्धे तमसि प्रविशन्ति । अन्धंतमश्च प्रलयेऽविद्यायां प्रविशति । अविद्या च मायायाम्, माया च ब्रह्मणि । प्रलयस्य श्रुतौ पुराणेषु च प्रतिसञ्चरत्वेन सृष्टिविपरीतक्रमतया सिद्ध- त्वात्तदापि ते भगवन्तं न प्राप्नुवन्तीति 'मामप्राप्यैवे'ति वाक्यमप्युपपद्यते । न च विका- रस्य सत्यत्वे ब्रह्मणो विकारित्वापत्तिः । विकारस्य वाचारब्धत्वेन तदनन्यतया तदभावात् । तस्य दुष्टताया अपि लीलार्थमैच्छिकत्वात् । वस्तुविचारे दोषस्य प्रतीतिमात्रत्वात् । तदन- न्यत्वाधिकरणे तथैव सिद्धत्वात् । द्वितीयस्कन्धसुबोधिन्यामपि 'यत्किञ्चिद्दूषणं त्वत्र दूष्यं चापि हरिः स्वयम् । विरुद्धपक्षाः सर्वेऽपि सर्वमत्रैव शोभत' इति निर्णीतत्वाच्च । अत एवं विचारेऽपि न मार्गभेदानुपपत्तिः । न च पक्षद्वयमध्येऽन्यतरवैयर्थ्यं शङ्क्यम् । कल्प- भेदेनोभयथापि सामञ्जस्यात् । तथाच पूर्वोक्तरीतिकेनेच्छामात्रेण निमित्तेन मनसा सहजा- सुरानसुरावेशिनो दैवांश्च सृष्टवान् । तथाच द्विधा प्रवाहोऽत्रोक्तः सहजासुरावेशिभेदेनेति ज्ञेयम् । अन्यत्स्पष्टम् । ननु 'तदिच्छामात्रतस्तस्माद्ब्रह्मभूतांशचेतना' इत्यादिना दैवसृष्टिर्नि-

४६ श्रीपीताम्बरकृतविवृतिसमेता। बन्धे इच्छामात्रत एव निरूपितेति कथं त्वया मनस्त उच्यते । उच्यते स्वभिप्रायज्ञानात् । तथाहि । निबन्धे यदिच्छामात्रेति पदं तदनुपहितस्य स्वतन्त्रस्य निर्गुणस्य कारणताबोधाय । अत्र तु यत्तत्पदं तदस्यां स्वसमवायिकारणताकत्वनिरासार्थम् । अत एव निबन्धे तत्र 'ब्रह्मभूतांशे'त्यादि जीवविशेषणमुक्तम् । अत्र तु नोक्तमित्येवं विनिगम्यते । न च तत्रत्य- मेवात्रातिदेश्यम् । असुरसृष्टित्वात् । 'प्रवाहस्थान्प्रवक्ष्यामी'त्यादिना प्रावाहिकसृष्टेरासु- रत्वनिर्धारणात् । तस्मादेवं सर्गभेदेन भूतभेदाद्देहादिवैलक्षण्यसिद्धेः साधनसाङ्कर्याभावान्न सर्गभेदनिरूपणवैयर्थ्यमिति मार्गाणामत्यन्तविवेक उपपन्नः प्रामाणिक एवेति भावः ॥ ८ ॥ ननूपादानभेदेऽपि निमित्तसाजात्ये कार्यं फलं च तुल्यमेव लोके दृष्टम् । यथा सौवर्णराजतताम्रघटास्ततो जलाहरणं च । वेदेऽपि यथा व्रीहियवप्रकृतिकपुरोडाशाभ्यां समानो यागोऽदृष्टं च । तद्वदत्रापि निमित्तसाजात्यादैक्याद्वा फलमेकमेव चेद्ध्यर्थः सृष्टिभेद- मार्गभेदसाधनप्रयास इत्याशङ्कायामुपोद्घातसङ्गत्या फलनिमित्तयोर्भेदमाहुः मूलेच्छात् इति । मूलेच्छात् फलं लोके वेदोक्तं वैदिकेऽपि च । कायेन तु फलं पुष्टौ भिन्नेच्छातोऽपि नैकधा ॥ १० ॥ 'प्रजायेये'त्याकारिकया मूलेच्छया । सिसृक्षयेति यावत् । तया कृत्वा फलं लोके भवति । न त्वलौकिकम् । 'अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदा- वर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेति । अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति । धूमाद्रात्रिं रात्रेपरपक्षीयमाणपक्ष'मित्यादिश्रुतेः । 'एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते' 'क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिष्वि'त्यादिस्मृतेश्च । न च त्रयीधर्मानुप्रपन्नत्वे कथमासुरत्वमिति शङ्क्यम् । दैवावेशेन तत्सम्भवात् । आसुरलक्षणेषु 'यक्ष्ये दास्यामि मोदिष्ये' 'यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वक'मित्युक्तत्वादिति । वैदिके मर्यादामार्गे वेदोक्तं स्वर्गमोक्षादिरूपं फलं भवति । 'ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिरभिसम्भवन्ती'ति 'यन्न दुःखेन सम्भिन्न'मिति 'ब्रह्म वेद ब्रह्मैव भवति' 'न स पुनरावर्तत' इत्यादिश्रुतेः । 'त्रैविद्या मां'मित्यादिस्मृतेश्च । अत्रापि 'एष उ एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषती'त्यादिश्राविता उन्निनीषाधोनिनीषा च कारण- त्वेनानुसन्धेया, अज्ञानरूपकार्यान्मुमोचयिषा चानुमातव्या । कायेन आनन्दमात्रकरपादमु- खोदरादिरूपेण फलं नानाविधं तल्लीलानुभवरूपं पुष्टौ भवति । तुना लौकिकवैदिकप्रकार- शङ्का निरस्ता । तथाच यथा यथा पुष्टिमार्गीया वाञ्छन्ति, तथा तथा ताननुरुध्य ददाति । न त्वीश्वरत्वेन । यथान्यत्र । अत एव प्रभुचरणैर्नवरत्नस्य 'निजेच्छात्: करिष्य- ती'त्यस्य व्याख्याने 'निजानामिच्छात् स्वेच्छात्तश्चे'त्युभयथा व्याख्यातम् । 'गोपीभिः स्तोभितोऽनृत्यत्' 'यां गोपीमनय'दित्यादौ स्पष्टं च तथा । अत्रापि 'गोपायै स्वात्मयोगेन' 'सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत्' 'वीक्ष्य रन्तुं मनश्चक्रे' इत्यादिभिरनुमापितोक्ता चेच्छा कारणत्वेन बोध्या । एवञ्च यत्र धूममार्गीयसङ्कीर्णमन्यद्वा सङ्कीर्णं फलं तत्र तद्भे-

तुभूता सङ्कीर्णेच्छानुमन्तव्या । अत एवं भिन्नेच्छात् अपिशब्दात्फलभेदतश्च नैकधा सर्गा मार्गाश्च एकविधा नेत्यर्थः । नैकतेति पाठे सर्गाणां मार्गाणां चैकता नेत्यर्थः । एवमु- त्पत्तिमारभ्यान्तं मार्गप्रवाहभेदात्प्रमेयबलेन मार्गत्रयभेदः साधितः । तेन प्रमीयमाणा- वस्थासम्बन्धिनः सन्देहा निवारिताः ॥ ९ ॥ अतः परमनुष्ठीयमानावस्थासम्बन्धिनः सन्देहान्परिहर्तुं मार्गसाधनीभूतजीवदेह- क्रियाभिर्भेदः पूर्वप्रतिज्ञातो वक्तव्यः । तेषु जीवानां मुख्यत्वात् प्रथमं तद्भेदं वदिष्यन्त इच्छाभेदेऽपि जीवेषु वैलक्षण्याभावात्कथं फलभेद इत्याशङ्कामपि परिहरिष्यन्तश्चिद्रूपत्वा- विशेषेपि तत्तदसाधारणधर्मभेदाज्जीवा भिद्यन्ते, तेन फलभेद इति हृदिकृत्य अत्यन्तवि- विक्तो धर्मः प्रावाहिकाणामेवेति प्रथमं तानाहुः तानहमित्यादि । 'तानहं द्विषतो' वाक्याद्भिन्ना जीवाः प्रवाहिनः । अत एवेतरौ भिन्नौ सान्तौ मोक्षप्रवेशतः ॥ ११ ॥ तथाच येषां भगवद्वेषोऽसाधारणधर्मस्तेन सार्वदिकोऽतिघोरः संसारस्ततोऽन्धत- मःप्रवेशः पर्यवसाने ते प्रवाहिनः । भगवद्वेषश्च त्रिविधः । मूलरूपावताररूपद्वेषो विभू- त्यादिद्वेषो जगद्रूपद्वेषश्च । तत्र मूलरूपावताररूपान्यतरद्विषो भगवन्तं पश्यन्तः कालं प्राप्य मुच्यन्त इति 'मन्येऽसुरान् भागवता'नित्यत्र व्यवस्थापितम् । 'कामं क्रोध'मिति वाक्याच्च । 'तदेव रूपं दुरवापमाप' 'लेभे गतिं धात्र्युचिता'मिति कंसपूतनयोर्मुक्त्यु- क्तेश्च । विभूतिद्विषस्तु द्वेषत्यागे क्रमेण शुध्यन्ति । 'अत्यागे धर्महीनाः पतन्ति' 'सम्मु- ह्यन्तु हरद्विष' इत्यस्य निबन्धे शिवद्विषां तथा व्यवस्थापनात्समानन्यायेनान्यत्रापि युक्तिसि- द्धत्वात् । एते उभयेऽप्यासुरावेशिन इत्यग्रे सेत्स्यति । जगद्द्विषस्तु जायमाना अन्ततोऽ- न्धन्तमः प्रविशन्ति । इदमपि सुबोधिन्यां स्थापितम् । 'ये चान्धन्तमः प्रविशन्ति, ते केवला एव प्रविशन्ति, न तु प्राणादिसहिता' इत्यपि धृतराष्ट्रं प्रत्यक्रूरवाक्ये 'अकृतार्थं प्रहि- ण्वन्ती'त्यस्य सुबोधिन्यां निर्णीतम् । आर्तभागब्राह्मणे मुक्तेरनुपक्रान्तत्वेन 'अत्रैव समवनी- यन्ते' 'स उ क्ष्वयत्याध्मायत्याध्मातो मृतः शेत' इति श्रुतेस्तादृशपरत्वस्य महता विचारेण व्यवस्थापनात् । इदमत्राग्रिमग्रन्थस्य त्रुटितत्वाद्यथाबुद्धि प्रबोधनायोक्तम् । प्रकृतमनुसरामः । अत एव द्वेषभेदादेव । इतरौ मर्यादापुष्टीस्थौ जीवौ । जात्यभिप्रायेण द्विवचनम् । तेभ्यो विविक्तौ । अत्रापि पूर्ववत्फलभेदमाहुः सान्तौ मोक्षप्रवेशतः । मोक्षोऽक्ष- रप्राप्तिः । प्रवेशः पुरुषोत्तमस्वरूपे । 'विशते तदनन्तर'मिति वाक्यात् । ताभ्यां सान्तौ पर्यवसाने निवृत्तजीवभावौ । प्रावाहिकास्तु ताभ्यां न तथेति त्रयोऽपि जीवा भिन्ना इत्यर्थः । एवं चात्र मोक्षप्रवेशत इति कथनान्मर्यादानामेव वेदोक्तमुक्तेरुक्तत्वाद्भगवति साधारणभावेन प्रमाणेऽभिनिवेशेन यथाविधि वेदोक्तकर्मज्ञानादिप्रवृत्तिपरत्वमेव तेषां

४८ श्रीपीताम्बरकृतविवृतिसमेता ।

लक्षणम् । अतस्तेऽपि भिन्ना इत्युन्नेयम् । इदं हि पुष्टिप्रकरणम् । अतः पुष्टिभेदन्निरूपणाय यावत्तत्स्वरूपनिरूपणमुपयुज्यते, तावत्क्रियते । विशिष्य तु तत्तत्प्रकरण एव निरूप्यमिति न दोषः । भगवत्प्रियत्वसाधकभक्तिमत्त्वं पुष्टिजीवानां लक्षणं तु पूर्वोक्तवाक्यविचारादेव फलतीति न विशिष्योक्तम् ॥ १० ॥ तस्माज्जीवाः पुष्टिमार्गे भिन्ना एव न संशयः । भगवद्रूपसेवार्थं तत्सृष्टिर्नान्यथा भवेत् ॥ १२ ॥ एवं लक्षणफलयोर्भेदेन यत्सिद्धं तदाहुः तस्मादिति । यस्मादेवं लक्षणभेदस्त- स्मात्पुष्टिमार्गीया जीवा मार्गान्तरीयजीवेभ्यो भिन्ना एव । एतावता सर्वथा भेदसिद्धौ मेलने प्रकारान्तरासम्भवादाहुः न संशय इति । यद्यपि 'कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिरित्येतत्सर्वं मन एवे'ति श्रुतावितिशब्देन प्रकारवाचिना द्वेषादयः सङ्ग्रहीतुं शक्या इति सोपाधिकानामेव भेदः समायाति, न केवलानाम् । न च जीवप- दोक्तिविरोधः । 'एवं पञ्चविधं लिङ्गं त्रिवृत् षोडशविस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयत' इति चतुर्थस्कन्धे नारदवाक्ये जीवपदस्य तादृशेऽपि प्रयोगात् । 'तानहं'मिति गीतावाक्ये द्वेषादिधर्मोक्तेश्च । तथापि 'कर्ता शास्त्रार्थवत्त्वा'दित्यधिकरणे उपादानसूत्रे बुद्धि- सम्बन्धात्कर्तृत्वमिति निराकृत्य, जीवगतमेव कर्तृत्वं बुद्धिसम्बन्धादुद्गच्छतीत्याकरे व्यवस्था- पितम् । तद्वदेते द्वेषसाधारणभावमक्तयोऽपि ज्ञेयाः । अत एव फलवैजात्यम्, अन्धतमप्र- वेशो मुक्तिः पुरुषोत्तमप्राप्तिरिति । पर्यवसितं फलं केवलस्यैवेत्यनुपदमेव व्युत्पादितम् । तदेतदुक्तं न संशय इति । ननु 'यदा यस्य' 'यस्यानुग्रहम्' 'यमेवैष वृणुत' इत्यादिषु यच्छब्दस्य यदाशब्दस्य चोपबन्धात्कञ्चिदेव जीवं कस्मिंश्चित्काले भगवाननुगृह्णातीति सिध्यति । तेनानुगृहीतः पुष्टिमार्गे प्रविश्य पुष्टिजीवो भवतीति न जीवभेदः । न चानुग्रह- विशिष्टस्य केवलापेक्षया भेदान्न दोष इति वाच्यम् । विशिष्टस्यानतिरिक्तत्वात् । देवदत्तः कुण्डलीतिवत् । विशेषणविशेष्यसम्बन्धस्यैव पर्यवसानतोऽतिरेकः सेत्स्यति, न जीवानामिति जीवभेदाङ्गीकारो व्यर्थ इति चेत् । न । प्रामाणिकत्वात् । 'त्रयाः प्राजापत्या देवा मनुष्या असुराश्चेति' बृहदारण्यके श्रावणात् । पञ्चरात्रेऽपि 'उत्पन्नास्त्रिविधा जीवा देवदानव- मानवाः । तत्र देवा मुक्तियोग्या मानुषेषूत्तमा अपि । मध्यमा मानुषा ये तु सृतियोग्याः पुनः पुनः । अधमा निरयायैव दानवास्तु तमोलया' इति कथनात् । नन्वत्र देहस्य देहविशिष्टस्य वा भेद उक्तो, न केवलस्येति चेत् । न । फलोक्त्या तन्निश्चयात् । केवल- स्यैव पर्यवसितं फलमिति पूर्वमेव व्युत्पादितत्वात् । न च पञ्चरात्रस्याप्रामाण्यं शङ्क्यम् । भारते मोक्षधर्मे नारायणीये तत्प्रामाण्यस्य कण्ठत एवोक्तत्वात् । तर्कचरणेऽपि विरुद्धां- शमात्रानङ्गीकारेण शेषाभ्यनुज्ञानात् । जैमिनीयस्मृतिपादेऽपि स्मृतीनां तथैव प्रामाण्य- साधनात् । किञ्च । 'यदा यस्ये'त्यादिषु न तदैव पुष्टिजीवत्वमित्युच्यते, किन्तु साधनस- पत्त्यान्यत्र वैराग्यमनर्थनिवृत्तिः स्वलाभश्च । अतोऽपि तथा । तस्माद्यदानुगृह्य ततः

स्वस्वरूपे प्रवेश्य पुनः पुष्टिसृष्टावोत्पादयति, तदा पुष्टिजीवित्वम्, न त्वनुग्रहमात्रात् । एतत्सर्वं बृहद्वामनीयसन्दर्भविचारे 'उक्तकालं समासाद्य गोप्यो भूत्वा हरिं गता' इत्यत्र विद्वन्मण्डने स्पष्टम् । अत एव निबन्धेऽपि 'आदिमूर्तिः कृष्ण एव सेव्यः सायुज्यकाम्य- ये'त्युक्तम् । अन्यथा पूर्वमार्गसङ्कीर्णत्वानिवृत्तेः । न चैवमनुग्रहस्यानित्यत्वापत्तिः । फल- बलेन प्रनाड्या अपि विचारितत्वनिश्चयात् । तस्मात्सुष्ठूक्तं भिन्ना एवेति । ननु भवत्वेवं जीवभेदः फलभेदश्च, तथापि गीतायां सर्गद्वयस्यैव कथनात्पुष्टिमार्गीयः सर्गोऽपि दैवसर्ग एव निवेशनीयः, तथा सति दैव्यासम्पदा मोक्षः, अनुग्रहसाहचर्ये भक्त्या सायुज्यमिति फलविभागोऽपि सेत्स्यति, तथा सति सर्गस्वभावात्साधनसाङ्कर्यमेव, न तु विवेक इत्या- शङ्कायां तत्सर्गप्रयोजनमाहुः भगवदिति । भगवतो रूपस्य या सेवा, रूपेण स्वसौन्दर्येण वा या सेवा तदर्थं तत्सृष्टिः । नान्यथा भवेत्, एतत्कृतिकरणाभावे अधिकार्यभावाद्भगवतो रूपसेवैव न भवेत् । तथा रूपसेवां चेन्न कारयितुमिच्छेत्तन्न सृजेत् । नामसेवायां दैवान्तरैरपि सम्भवात् । तथा तादृशरूपाभावे तत्कृता या रमणोपयुक्तसेवा सापि न भवेत् । इदं च प्रयोजनं 'स वै नैव रेमे' इति श्रुत्यैव सूचितम् । तथाच दैवत्वाविशेषेऽपि स्वसेवाथं तेषामालोचितत्वादन्येषामन्यार्थमालोचितत्वात्स्वार्थपरार्थत्वाभ्यां दैवसर्गभेदः केन वार्यते । सिद्धे च तद्भेदे न साधनसाङ्कर्यगन्धोऽपि । तादृशसृष्टिश्च पूर्वमेव साधिता । 'स आत्मान ५ स्वयमकरू'तेति श्रुत्युपन्यासेन । एवञ्चासुरेण प्रावाहिकेण सर्गेण विप्रकृष्टा क्रीडा । मर्यादिकेन परम्परिता । पुष्टिसर्गेण साक्षादित्युत्कर्षोऽपि फलितः । किञ्च । 'द्वौ भूतसर्गौ लोकेऽस्मिं'चित्यत्राप्यस्मिंलोक इत्यनेन अमुक्तसम्बन्धी विधातृकृतो लोकः परामृश्यते । अन्यथैतद्वैयर्थ्यं स्यात् । तस्मात्तत्र द्वौ । तावता तदतिरिक्ते मुक्तसम्बन्धिनि तादृग्दैवसर्गस्य केन वारणम् । न च 'न स पुनरावर्तते' 'अनावृत्तिः शब्दा'दिति श्रुतिन्यायविरोधात्पूर्वोक्तमुक्तसर्गोऽनुपपन्नः । 'सम्पद्याविर्भावः स्वेन शब्दा'दित्यधिकरणे आकरै व्यवस्थापितत्वात् । तत्र हि ब्रह्मसम्पन्नानां 'सोऽश्नुते सर्वान् कामानि'त्युक्त आनन्दानुभवोऽन्तर्बहिर्वेति सन्दिह्य, 'न स पुनरावर्तत' इति श्रुत्या पुनरिहागमननिषेध- दिहागमनं विना च बहिरनुभवासम्भवादन्तरेवानुभव इति पूर्वपक्षे, सम्पद्य ब्रह्म प्राप्यापि स्वेन भगवतैवाविर्भावो बहिः प्राकट्यं तेषां भवति । यत उक्तश्रुत्युक्तः सर्वकामाश नरूपो भोगः स्वप्राधान्येन ब्रह्मणो विपश्चितो विविधचातुर्यवतः सहभावेन यः स बहिरेव शक्य इत्यशनवाचकादश्रुत इति शब्दादेव निर्णीयते । शक्तेश्च व्यवस्थापकता पूर्वतन्त्र एव नामधेयपादे 'अर्थाद्वा कल्पनैकदेशत्वा'दित्यधिकरणे निर्णीता । 'अञ्जलिना सक्तून् प्रदाब्ये जुहुया'दिति होमे देवताप्रसादनादाविव संयुक्तहस्तद्वयस्याञ्जलेरशक्तत्वाद्वस्तयोर्विकासने विना होमासम्भवाव्याकोश एवाञ्जलिः शक्तः । आख्यातानामर्थं ब्रुवतां शक्तेः सहकारि- त्वादिति । किञ्चोपकोशलविद्यायां 'एष देवपथो ब्रह्मपथः । एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त' इत्यत्रैमं मानवमिति पदाभ्यां संसार एवानावृत्तिरुच्यते । अन्यथैत- ७ पु. प्र. म.

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण है:

५० श्रीपीताम्बरकृतविवृतिसमेता। त्पदद्वयवैयर्थ्यं स्यात्। तेन 'न स पुनरावर्तत' इति सामान्यशास्त्रमप्युपसंह्रियत इति न तस्यापि विरोध इति। एतमेव चार्थं 'मुक्ता अपि लीलावग्रहं कृत्वा भजन्त' इति वाक्यं 'न कर्मबन्धनं जन्म वैष्णवानां च विद्यते। विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिण' इति पाद्मवाक्यं चोपोद्वलयति। न चोक्तवाक्यानां जीवन्मुक्तपरत्वं शङ्क्यम्। जीवन्मुक्ते तादृशभोगानुपलब्धेः। मुख्ये सम्भवति गौणकल्पनास्याप्रयोजकत्वात्। उक्तवाक्यादि- भिर्मुख्ये बाधाभावाच्च। एवञ्च 'ब्रह्मविदाप्नोति पर'मित्यत्रापि ज्ञानमुक्तयोर्व्याहृत्या एको- क्क्योभयप्राप्तेर्ब्रह्मवित्पदेन पुरुषोत्तमे प्राप्तसायुज्योऽपि शक्यवचनः। तथाच स तथा भवतीत्यर्थः। अयमेवार्थः 'अस्मिन्नस्य च तद्योगं शास्ती'ति सूत्रेऽभिप्रैयते। स चास्मिन्ना- नन्दमये ब्रह्मणि अस्य प्राप्तसायुज्यस्य जीवस्य तद्योगं तत्स्वरूपस्य योगं शास्ति फलत्वेन श्रुतिर्वदतीति विद्वन्मण्डनोक्तदिशावगन्तव्यः। अस्य तद्योगं शास्तीत्येतावर्तव चारितार्थ्ये यदस्मिन्निति पदं तस्यान्यथा वैयर्थ्यापत्तेः। इदं यथा तथानन्दमयाधिकरणस्य वर्णके स्वतन्त्रे प्रसुचरणैर्विशदीकृतम्। अतो जीवन्मुक्तव्यावृत्त्यर्थमेवास्मिन्निति पदम्। न हि जीवन्मुक्त- स्याभेदात्मिका मुक्तिरस्ति। येन योग्यतानुभवस्य स्यात्। किन्तु ज्ञानाध्यासाभावयोः कारणकार्ययोर्भाविफलप्राप्तिज्ञापकयोः सत्त्वात्तथोच्यते। ज्ञानेन स्वरूपयोग्यतायां मुक्ति- र्भगवता दीयत इति न ज्ञानमात्रसाध्या। 'भगवान् भजतां मुकुन्दो मुक्तिं ददाति' 'मोक्ष- मिच्छेज्जनार्दना'दित्यादिवाक्यैः। तथा सति चरमवृत्तिरूपमपि ज्ञानं स्वरूपयोग्यता- सम्पादन एवोपक्षीयमाणं न फलोपहितां कारणतां स्वस्मिन्नवरोद्धुमीष्टे। अतो मुक्तिरपि भगवन्नियतैवेति सेवायै विचारितान् शुद्धान् विधायाविर्भावयतीत्यत्रापि न किञ्चिदनुपपन्नम्॥ ननु भवत्वेवं सृष्टिभेदात्साधनसाङ्कर्याभावः, तथापि लीला सृष्टावुपपन्नानां स्वरूपदेह- क्रियासु न कश्चिद्विशेषो दृश्यत इति साधितपूर्वः सृष्ट्यादिभेदोऽपार्थ एवेत्याशङ्कायां तत्प- रिहाराय विशेषमाहुः स्वरूपेत्यादि। स्वरूपेणावतारेण लिङ्गेन च गुणेन च। तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥ तथापि यावता कार्यं तावत्तस्य करोति हि। 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्मानन्त- रोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' 'आनन्दरूपममृतं यद्विभाती'त्यादिश्रुतिभिर्यथा भगवान् सच्चिदानन्दघनः, एवं तेऽप्यतिरोहितसच्चिदानन्दा इति न स्वरूपेण तारतम्यम्। यथा भगवतोऽलौकिकरीत्या सत्त्वाधिष्ठानेऽवतारः, एवं तेषामपीत्यवतारेणापि न तथा। यथा भगवतो ध्वजवज्रादीनि लिङ्गानि, एवं तेषामिति न लिङ्गेन तथा। यथा भगवत ऐश्वर्यादयः सौकुमार्यादयश्च, तथा तेषामपीति गुणेनापि न तथा। इदमपि 'न प्रयोजनवत्त्वा'दिति सूत्रेण ब्रह्मण आप्तकामतत्वश्रवणात्सृष्टिकरणं विरुद्धमित्याक्षिप्य, 'लोकवत्तु लीला- कैवल्य'मिति सूत्रेण पूर्वपक्षनिरासपूर्वकं लोके यथा ईश्वरो लीलां करोति, तत्र न तदति-

रिक्तं प्रयोजनान्तरम्, तथात्रापीति समाधाय, लीलास्वरूपमाह कैवल्यमिति । स्वरू- पान्तिरिक्ता । तथाच समाधानोत्तरं स्वरूपकथनं सपरिकरायाः स्वरूपात्मकत्वज्ञापनाय । तेन 'अहिकुण्डल'सूत्रे वक्ष्यमाणाज्ञायाद्भगवानेव तावद्रूपस्तथा क्रीडतीति फलितम् । एतदेव आथर्वणे कृष्णोपनिषदि 'तस्मान्न भिन्ना एतास्तु आभिर्भिन्नो न वै विभुः । भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिन'मिति मन्त्रे परस्पराभेदकथनादुक्तम् । वाराहपुराणे च 'अन्येव काचित्सा सृष्टिर्विधातृव्यतिरेकिणी'ति तस्या विधातृव्यतिरेकित्वकथनात्तदुपबृंहितम् । तथाचास्माद्विशेषाच्च साधितपूर्वमपार्थतामापद्यत इत्यर्थः । 'लिङ्गेन च गुणेन चे'ति चका- रद्वयेन यथा भगवल्लीलाश्रवणादिना कृतार्थता, तथैव तेषामपीति बोधितम् । तदपि गर्भस्तुतौ 'शृण्वन् गृण'न्नित्यस्य सुबोधिन्यां चकारसूचितार्थनिरूपणे भगवत्सम्बन्धि- नामप्यन्येषां श्रवणादिकं फलसाधकमित्यनेनोक्तम् । तर्हि प्रत्यक्षस्य का गतिरित्यत आहुः तथापीत्यादि । यावता तारतम्येन । कार्यं तत्तत्प्रकारकविधित्सितलीलारूपम् । सिध्यतीति शेषः । तावत्तारतम्यं तस्य जीवस्य स्वरूपे देहे वा तत्क्रियासु वा करोति । हि यतो हेतोः । तथाच कार्यसाधनार्थेन तारतम्येन सर्वमेव सङ्गच्छते । तेन प्रत्यक्षं तावदंशे यथार्थमपि तु न तावत्त्वस्य नियामकम् । अतो न प्रत्यक्षशब्दयोर्विरोध इत्यर्थः । अयं च सार्धकारिकोक्तोऽर्थो 'हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दःस्तुत्युपगानवत्तदुक्त'मित्यत्र विचारितः । तेन यं जीवं मर्यादादिभ्यः पृथक्कृत्यानुग्रहेण पुष्टौ प्रवेशयति, तस्येयं व्यवस्था बोध्या । तत्र हि 'निरञ्जनः परमं साम्यमुपैती'त्याथर्वणिके श्रुतं साम्यं किमशेषधर्मैः, उत कतिपयधर्मैरिति सन्देहे, अत्र परमपदोक्त्या अशेषतद्धर्मैरिति पूर्वपक्षे, तुना पूर्वपक्षं निरस्य, हानौ भगवता सृष्ट्यर्थं जीवानां त्यागे विभाग इति यावत्, तस्मिन् कृते ये धर्मा- स्तिरोहिता ऐश्वर्यादयः, ते ब्रह्मसम्बन्ध आविर्भवन्ति । तैः साम्यमुपचर्यते । न तु सर्वथा साम्यम् । तत्र हेतुः । उपायनशब्दशेषत्वादिति । अत्र यत्साम्यमुच्यते, तदुपैतीत्युपायन- शब्दशेषत्वेनोच्यते । तथा सति पूर्वं न स्थितमिदानीं प्राप्नोति । तेन परममुपेत्य साम्य- मुपैतीति सिध्यति । तेन पूर्वोक्तमेव दृढीभवति । उचितं चैतत् । अन्यथा 'न तत्समश्चा- भ्यधिकश्च दृश्यत' इति श्रुतिर्विरुध्येत । तत्र दृष्टान्तः । कुशाच्छन्दःस्तुत्युपगानवदिति । औदुम्बर्यः समिधः कुशाशब्देनाभिधीयन्ते । ता ज्योतिष्टोमादियागेषु प्रस्तोत्रा स्थाप्यन्ते । तत्र 'अभि त्वा शूर नोनुम' इति ऋक्स्थानेऽच उपसंहृत्य भकारेण गानं क्रियते । तथा सति कुशानां, या छन्दसा स्तुतिस्तत्रोपगानकरणभूतो यो भकारस्तस्याप्यर्थमान्वयत्वेन यथा नर्भूपता, तद्वदत्रापीत्यर्थः । ननु तत्त्वमस्यादिवाक्यैरभेदो बोधितस्तस्य का गतिरि- त्यत्राह तदुक्तमिति । 'तद्गुणसारत्वात्तद्व्यपदेश' इति सूत्र एवोक्तं गौण्योच्यत इति । इयं या मुक्तव्यवस्था सात्रानुगृहीते बोध्या । नित्यलीलास्थानां तूक्तैव पूर्वश्लोके । एतेन रसशा- स्त्रोक्तरीतिकलीलायां वैचित्र्यासम्भवे साम्यकृतरमणासम्भवे स्वरूपबहुत्वैकत्वकृतरमणास- म्भवे सर्वेषामेकविधत्वेन कार्यान्तरासम्भवादौ च ये सन्देहास्तत्प्रसङ्गात्प्रसङ्गपतिताश्च ते

५२ \hskip 14em श्रीपीताम्बरकृतविवृतिसमेता । सर्वे सामान्येनापाकृता बोध्याः । 'परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष' इति श्रुतेः 'यत्परो- क्षप्रियो देवो भगवान् विष्णुरव्यय' इत्यादिस्मृतेश्च रहस्यलीलास्थत्वान्न विशेषतो विव्रियन्ते ॥ एवं स्वभावभेदादिसन्देहानपाकृत्य, केषाञ्चिद्भगवदुक्ते भक्तिमार्गे, केषाञ्चित्तादृशे ज्ञानमार्गे, केषाञ्चित्तादृशे कर्मणि, तत्रापि केषाञ्चित्स्वतः प्रवृत्तिरासक्तिश्च, केषाञ्चिद्विधिव- लात्, केषाञ्चित्स्वभावविरुद्धा देहादयः, इतरेषामनुकूला इत्यादीन् विशेषतो निराकर्तुं पुष्टिजीवान् विभजन्ते ते हि द्विधेति । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । ते पुष्टिजीवादयः हि यतो हेतोः भगवत्कार्यस्य लीलावैचित्र्यस्य सिद्ध्यर्थं शुद्ध- मिश्रभेदेन द्विप्रकाराः । मिश्राः पुनः प्रवाहमर्यादापुष्टीनां यो विभेदः विशिष्टः शुद्धाद- तिरिक्तः सङ्कीर्णो भेदस्तेन त्रिप्रकाराः प्रवाहसिश्रा मर्यादामिश्राः पुष्टिमिश्रा इति । तथा- चैवंविधवैचित्र्यार्थादवान्तरभेदात्ते सन्देहा निवार्या इत्यर्थः ॥ १४ ॥ पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । कथं निवार्या इत्याशङ्कायां तदभिज्ञापकं रूपमाहुः पुष्ट्येत्यादि । अत्र पुष्ट्यादिशब्दै- र्मार्गा उच्यन्ते । तत्र भक्तिज्ञानकर्मणां विजातीयसंवलितानां मार्गत्वं केवलत्वे भगवद्धर्म- त्वमित्येकादशस्कन्धसुबोधिन्यां स्थितम् । पुष्टिशब्दवाच्योऽनुग्रहोऽपि फलवलात्केवलो मिश्र- श्चावधार्यते । तत्र केवलो निःसाधनेष्वङ्गीकृतेषु । यथा गोकुलस्थेषु व्रजरलेषु सर्वथा प्रपन्नेषु च । 'अहञ्चापृतं निशि शयानमतिश्रमेण' 'केवलेन हि भावेन' 'मत्कामा रमणं जारम्' 'सर्वधर्मान् परित्यज्य' 'तस्मात्त्वमुद्धवोत्सृज्य नोदना'मिति वाक्येभ्यः । द्वितीय उक्तरीत्या त्रिविधः । उभावप्यवान्तरभेदैरनन्तविधावित्यपि 'तथापि यावते'त्यनेन सूचितमेव । एवं सति एते मामभिजानन्त्वित्यभिध्यापूर्विका या पुष्टिस्तया मिश्रा ये पुष्टावङ्गीकृतास्ते सर्वज्ञा यथा तथा भगवत्स्वरूपज्ञातारो भवन्ति । तेन सर्वज्ञत्वं तदभिज्ञापकं लिङ्गम् । उदाहरणं तु नारदर्षभादयः । ज्ञानमिश्राः परमभक्ता इति यावत् । 'मुक्तानामपि सिद्धानां नारायणपरा- यणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुन' इत्यादिवाक्यानामेते विषयाः । मदुपासा- दिपरा एते भवन्त्वित्यभिध्यापूर्वकेण प्रवाहेण मिश्रा ये पुष्टावङ्गीकृतास्ते क्रियारताः भगव- दुक्तपञ्चरात्रादिप्रसिद्धकर्मपराः । प्रवाहिकभक्ता इति यावत् । तादृशक्रियापरत्वं तदभिज्ञा- पकम् । उदाहरणं श्रुतदेवनिमिप्रभृतयः । मद्गुणान् जानन्त्वित्यभिध्यापूर्विका या मर्यादा भगवदुक्तब्रह्मवादसरणिस्तया मिश्रा ये पुष्टावङ्गीकृतास्ते गुणज्ञा भगवत उत्पन्नानां गुणानां सत्त्वादीनां भगवदीयानां स्रष्टृत्त्वैश्वर्यादीनां ज्ञातारो भवन्तीति तदभिज्ञापकम् । मार्गादिक- भक्ता इति यावत् । उदाहरणं भीष्मादयः । शुद्धास्तु प्रेम्णा उपलक्षिताः । निरुपधिप्रेमैव तेषामभिज्ञापकः । ते अतिदुर्लभाः । तान् भगवान् कदापि न त्यजति । 'ये दारागारपुत्राप्त-

पुष्टिप्रवाहमर्यादा । ५३

प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे' 'विसृजति हृदयं न यस्य साक्षाद्धरि'रित्यादिवाक्यानां विषयाः । निबन्धेऽपि 'एतादृशस्तु पुरुषः कोटिष्वपि सुदुर्लभः । यो दारागारपुत्राप्तप्राणान् वित्तमिमं परम् । हित्वा कृष्णे परं भावं गतः प्रेमप्लुतः सदे'त्यनेनोक्ताः । न च ज्ञानिभक्तापेक्षया तेषां निकर्षः शङ्क्यः । 'अविज्ञातं विजानतां विज्ञात- मविजानता'मित्यादिश्रुतिभिः स्वरूपावित्त्वेऽप्युत्कर्षस्य सिद्धत्वात् । किञ्च । अतिदुर्लभा ब्रह्मादिदुरापचरणरेणवः । 'षष्टिवर्षसहस्राणी'ति बृहद्वामनपुराणवाक्यात् । अत्र येऽवान्त- रभेदास्ते फलबलादूह्याः । तथा ये निरुपधिप्रेमाणोऽपि विक्षिपन्ति कदाचित्ते जीवाः शुद्धाः मनस्तेषां मिश्रम् । ये चैकमनसोऽपि देहेनाशक्ताः सेवितुं तेषां देहा मिश्राः । ये पुनस्तादृशाः समर्था अपि क्रियामन्यादृशीं विदधति, तेषां क्रिया मिश्रेत्याद्यप्यूह्यम् । भक्तिभेदा भक्तिहंसाद्भावभेदा जलभेदादवगन्तव्याः ॥ १५ ॥ एतेन साङ्कर्यदर्शनजाः सन्देहा निराकृता इत्याशयेन साधननिरूपणमुपसंहरन्ति एवमिति । एवं सर्गस्तु तेषां हि फलमत्र निरूप्यते ॥ १६ ॥ भगवानैव हि फलं स यथाविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७॥ एवम्प्रकारकं सर्गभेदमनुसन्धाय ते सन्देहा निवारणीया इत्यर्थः । अतः परं शुद्धा- नामपि बाल्यादिभेदेन नानाविधं फलं दृश्यते । तत्कथम् । किञ्च । 'कायेन तु फलं पुष्ट्या'वित्यत्र तृतीयानिर्देशात् किं स्वरूपातिरिक्तं फलमित्याद्याशङ्कानिरासाय च फलनिरूपणं प्रतिजानते फलमिति । तदाहुः भगवानैव हीति । 'यो वै भूमा तत्सुखम्' 'पुरुषात्न परं किञ्चित्सा काष्ठा सा परा गति'रित्यादिश्रुतेः । 'परमतः सेतुन्मानसम्बन्धभेदव्य- पदेशेभ्य' इति सूत्रे सेतुर्विधृतिः । 'यावान् वा अयमाकाशस्तावानेषः' 'प्राज्ञेनात्मना सम्प- रिष्वक्तः' 'य एषोऽन्तरादित्ये हिरण्मय' इत्यादिभिः सेत्वादिब्यपदेशैः फलान्तरसन्देहे, 'सामान्यात्त्वि'ति सूत्रेण संसारतरणसाधनत्वनिर्लेपत्वादुर्लभत्वादिव्यत्वाद्यर्थं ते धर्मा ब्रह्म- ण्युच्यन्ते । तावता तदतिरिक्तस्य फलस्य न सिद्धिरिति व्यवस्थापनाच्च भगवानैव फलम् । स्वर्गमोक्षादयस्तु मार्गान्तरे । तान्यपि 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति श्रुतेर्भगवदानन्दांशभूतानि । मोक्षोऽप्यात्मसुखात्मा ब्रह्मानन्दात्मा च तथा । पुष्टिमार्गे तथा न, किन्तु मूलरूपो भगवानैव फलम् । तत्र प्रमाणभूतां युक्तिमाहुः हीति । मार्गभेदसा- धनावसर उक्तैः प्रमाणैरेव तथा निश्चयादित्यर्थः । तृतीयानिर्देशस्तु फलस्य साधनासाध्य- त्वबोधाय । अतो न विरोधः । तत्र विशेषमाहुः स इत्यादि । स भगवान् भुवि हृदय- भूमौ लीलास्थाने वृन्दावनादौ च गुणस्वरूपभेदेन यदर्थं यथा आविर्भवेत्, तेषां तथा तादृशगुणस्वरूपभेदेन फलं भवेत्, फलरूपो भवेत् । तथाच यदर्थं यद्गुणरूपेणाविर्भवति नृसिंहरामवामनादिरूपेण, तेषां मुक्तावपि तेन रूपेण फलति । यदर्थं च बाल्यपौगण्ड- किशोररूपेणाविर्भवति, तेषां मुक्तावपि तथैव फलति । तेन तदर्थकतथाविर्भाव एव तादृ- क्फलगमकः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' । 'तद्धैतान् भूत्वावती'ति स्मृति-

५४ श्रीपीताम्बरकृतविवृतिसमेता। श्रुतिप्रमाणकश्च । तेन 'मन एव मनुष्याणां पूर्वरूपाणि शंसति । भविष्यतश्च भद्रं ते तथैव न भविष्यत्' इति न्यायेन यथा पूर्वं तद्धृदि प्रकटीभूतः, तथैवाग्रे मुक्त्यनन्तरमपि पूर्ववदेव तेषु तां लीलामनुभावयतीति । तेन नित्यत्वमपि लीलायाः स्थापितम् । प्रपञ्चितमेतद्विद्वन्म- ण्डने लीलानित्यत्ववाद आकरे च । एवं फलतः पुष्टिमार्गस्यान्यमार्गसाङ्कर्यं निराकृतम् ॥ अतः परमवान्तरसाङ्कर्येण मिश्रेषु कचिच्छापो दृश्यते, स पुष्टिमार्गीयत्वात् 'तथा न ते माधव तावका' इति वाक्यविरोधाच्चानुचितो निकर्षजनकश्चेत्याकाङ्क्षायां समादधते । आसक्तौ भगवान्नेव शापं दापयति क्वचित् । अहङ्कारेऽथवा लोके तन्मार्गस्थापनाय हि ॥ १८ ॥ आसक्तावित्यादि । अन्यासक्तौ सत्यां भगवान्नेव शापं दापयति । यथा नलकुब- रादेः । क्वचिदिति । यत्र तस्या औत्कट्यं तत्र । एवमहङ्कारे । यथा चित्रकेतुपरीक्षितोः । तथाच तदोषपरिहाराय भगवत्कृत एवायं तत्तद्द्वारको दण्डः । तेन न निकर्षजनकः । तर्हि यत्र नोभयं तत्र कथं शाप इन्द्रद्युम्नादौ । तत्राहुः लोक इत्यादि । यद्येवं न कुर्यात्, तदा लोके मर्यादादिमार्गा न तिष्ठेयुः । तथा सति लोकोच्छित्तिः स्यात् । अतो लोकसङ्ग्रहार्थं तथा करणम् । अत्र गमकमाहुः हीति । 'यद्यदाचरति श्रेष्ठ' इति वाक्येन तथा निश्चया- दित्यर्थः । शापस्य भगवत्प्रयुक्तत्वं मौसले स्फुटम् । तेनान्यत्राप्यनुसन्धेयम् ॥ १८ ॥ न ते पाषण्डतां यान्ति न च रोगाद्युपद्रवाः । महानुभावाः प्रायेण शास्त्रं शुद्धत्वहेतवे ॥ १९ ॥ भगवत्तारतम्येन तारतम्यं भजन्ति हि । ननु गमकमन्तरेण तथानुसन्धानमशक्यमित्यत आहुः न ते इत्यादि । ते शाप- विषयाः पाषण्डतां न यान्ति । ये शप्तास्ते पुनरत्यन्तं भक्ता एव जाताः । अतो ज्ञेयं भगवतैवायं दण्डः कृत इति । ननु दण्डस्थले युक्तमेतत्, शेषे तु नायं समा- धिरित्यतस्तत्राहुः न चेत्यादि । तेषामपि रोगाद्युपद्रवा न भवन्ति । प्रायेण महानु- भावा एव भवन्ति । महानुभावत्वाभावेऽपि रोगाद्यभावस्तु भवत्येव । एतेनान्यर्थं भक्त- दुःखदातृत्वदोषोऽपि निराकृतः । तथापि स्वल्पार्थमेतावत्करणं न कृपालोरुचितमित्यत आहुः शास्त्रमित्यादि । शिष्यतेऽनेनेति शास्त्रं शापदापनम् । तत् शुद्धत्वस्य हेतुर्निरुप- धिरसात्मकं प्रेम तदर्थम् । यद्येवं न कुर्यात्, तदा मार्गान्तरमिश्रत्वनिवृत्त्यभावाच्छुद्धपुष्टत्वं न भवेत् । तथाच तत्रापि फलोन्मुखा कृपैव बीजम्, अतो न भगवति दोषलेशोऽपीत्यर्थः । ननु युक्तमेतत्, तथापि येषां शुद्धत्वं चिकीर्षितं ते मिश्रेष्वप्यत्युत्कृष्टा एव वाच्याः, तथा सति तेषां कथमीदृशो भावः । न हि तादृशेषु कर्म प्रारब्धादिरूपं प्रभवति, न वा ते ज्ञात्वाऽवजानन्तीति सन्देहे, तेषामेवम्भावे बीजमाहुः भगवदित्यादि । 'यदेकमव्यक्त- मनन्तरूप'मिति श्रुत्या भगवाननन्तरूपः । 'अथर्वशिरःशिखाध्यायं शतमेकमेकेन मन्त्र- राजजापकेन तत्समं विश्वो वैश्वानरः प्रथमः पाद' इत्यादिश्रुतिभिर्व्यूहादिबोधकस्मृतिभिश्च

तेषु तरतमभावयुक्तश्च । एवं सति प्रकारान्तरेणापकर्षाभावे तत्क्रतुन्यायेनोपास्यतारतम्य- प्रयुक्तं तारतम्यं केन वार्येत । एवं तारतम्ये उत्कृष्टानामप्येवम्भावो न दुर्घटः । अत एव सङ्कर्षणोपासकस्य चित्रकेतोः सङ्कर्षणचरणे मनोनिवेशो वृत्रेन्द्रयुद्धे । निर्विशेषो- पासकसेन्द्रद्युम्नस्य गजेन्द्रत्वेऽपि निर्विशेषोपवर्णनम् । तदेतदुक्तं हीति । तथाच तन्नि- वृत्त्यर्थमेवङ्करणमित्यर्थः ॥ १९ ॥ एवं प्रासङ्गिकं परिहृत्य इदानीन्तनेषु पुष्टिजीवत्वज्ञापकं लक्षणं वदन्तः प्रसङ्गात्सर्वेषामाहुः । वैदिकत्वं लौकिकत्वं कापट्यात्तेषु नान्यथा ॥ २० ॥ वैष्णवत्वं हि सहजं ततोऽन्यत्र विपर्ययः । वैदिकत्वमित्यादि । कापट्यमन्तर्बहिर्विसंवादः । स च स्वभावस्य गोपनाय तत्तत्प्रका- शनमित्येकः, स्वस्य प्रयोजनाभावेऽपि तत्करणमित्यपर इत्युभयविधात्कापट्यात्तेषु वैदिकत्वं लौकिकत्वम् । सहजं तु वैष्णवत्वं भगवदाज्ञाकारित्वम् । ततः वैष्णवादन्यत्र विपर्ययः । एकत्र वैदिकत्वमितरत्र लौकिकत्वं सहजम् । तदतिरिक्तत्वं कापट्यादिति । तेन तेन लक्षणेन ते ते बोध्या इत्यर्थः । एवञ्च तेषां फलं भगवत्तारतम्येनेत्युक्तरीत्या तत्क्रतुन्यायेन भावना- नुरूपं भवति । तत्राप्येतन्मार्गीयाणां भगवतो व्रजपतेरेव भावनेति व्रज एव सेवौपयिक- देहप्राप्तिर्भवति । परं तत्कृतसेवानुरूपा । सेवाफलग्रन्थे तथैव सिद्धत्वादिति ॥ २० ॥ सम्बन्धिनस्तु ये जीवाः प्रवाहस्थास्तथापरे ॥ २१ ॥ चर्षणीशब्दवाच्यास्ते ते सर्वे सर्ववर्त्मसु । क्षणात् सर्वत्वमायान्ति रुचिस्तेषां न कुत्रचित् ॥ २२ ॥ तेषां क्रियानुसारेण सर्वत्र सकलं फलम् । ननु यदि त्रिविधा एव जीवास्तर्हि कथं केचन सर्वत्र तुल्यदर्शनाः सर्वाभिनिविष्टा दृश्यन्ते, तत्राहुः सम्बन्धिन इति । तुशब्दस्त्रैविध्यपक्षं व्यावर्तयति । ये जीवाः सम्ब- न्धिनः उक्तत्रिविधमार्गसम्बन्धभाजः, तथा अपरे इतोऽपि हीनाः प्रवाहस्थाः, ते चर्षणी- शब्दवाच्याः । 'पृषि प्रजननैश्वर्यो'रिति धात्वर्थात्प्रजननस्वाच्छन्द्याभ्यां युक्ताः । तेन तद्यो- ग्यत्वाच्चर्षणीभिः परिभ्रमणशीलाभिः शक्तिभिर्व्याप्तास्तच्छब्देनैवोच्यन्ते । तदभिज्ञापकमाहुः ते सर्व इत्यादिपादत्रयेण । तेषां फलमाहुः तेषामिति । तथाच पञ्चरात्रे मध्यमा अधमाश्च ये मानुषा उक्तास्त एते । अत एव 'संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शना'दिति सूत्रेण यमनियता तेषां गतिर्विचारिता। 'वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिन' इति । अतस्तेषां यथाकर्म सकलं कला खण्डस्तत्सहितं खण्डितं फलं सर्वत्र भवति । तथा तदनुभवन्तः सम्बन्धिनः संसरन्त्येव । सृतियोग्यत्वात् । प्रवाहस्थास्तु तथाभूता निरयिणोऽग्रे भवन्तीत्यर्थः ॥ २२ ॥ एवमत्रानुप्रसङ्गपतितं सर्वमुक्त्वा क्रमप्राप्तं प्रवाहभेदं वदिष्यन्तो व्यावर्तकधर्मैः प्रवाहेण च स्वरूपभेदस्य सिद्धत्वात्साधनादिभेदं वक्तुं प्रावाहिकजीवदेहक्रियाभेदनिरूपणं प्रतिजानते प्रवाहस्थानिति ।

५६ श्रीपीताम्बरकृतविवृतिसमेता । प्रवाहस्थान् प्रवक्ष्यामि स्वरूपाङ्गक्रियायुतान् ॥ २३ ॥ जीवास्ते ह्यासुराः सर्वे 'प्रवृत्तिं चे'ति वर्णिताः । तेषां स्वरूपं लक्षणमाहुः जीवास्ते इत्यादि। 'प्रवृत्तिं चे'ति सन्दर्भे नानालक्षणा- नामुक्तत्वादेकस्मिंस्तावतामदर्शनात्प्रत्येकं यत्किञ्चिल्लक्षणवन्तोऽपि त एवेति ज्ञापनार्थं सर्वे इत्युक्तम् ॥ २३ ॥ ननु केचन पूर्वं तल्लक्षणवत्तया निश्चिता अपि पश्चाद्व्यभिचरन्तो दृश्यन्ते लोके स्मृतौ चेति लक्षणमव्यापकमित्यतस्तान् विभजन्ते ते च द्विधेत्यादि । ते च द्विधा प्रकीर्त्यन्ते ह्यज्ञदुर्ज्ञविभेदतः ॥ २४ ॥ दुर्ज्ञास्ते भगवत्प्रोक्ता ह्यज्ञास्ताननु ये पुनः । ताननु तदनुसारिण एव । न तु तादृशाः । तेऽज्ञाः । एत एवाग्रे भगवता हता मुच्यन्ते । कचिद्द्वेषत्यागेऽपि मुच्यन्ते । अतो हेत्वन्तरेणाज्ञाने गते स्वां प्रकृतिं भजन्ति इति न ते लक्ष्याः । अतो लक्षणमदुष्टमित्यर्थः ॥ २४ १/२ ॥ ननु सर्गभेदे प्रावाहिक आसुरः सर्गो जघन्य उक्तः । तेन तदङ्गक्रिया दुष्टा इति सिद्धम् । तथा सति तत्र प्रवेशस्तादृशामेवोचितो, नेतरेषाम् । ततस्ते हन्तव्या एव स्युः, नानुग्राह्याः । दृश्यते तु विपरीतं बलिप्रह्लादादिषु, तथा बाणादिषु क्रियाविरोधोऽपीत्यत आहुः । प्रवाहेऽपि समागत्य पुष्टिस्थस्तैर्न युज्यते ॥ २५ ॥ सोपि तैस्तत्कुले जातः कर्मणा जायते यतः ॥ २५ १/२ ॥ प्रवाहेऽपीति । प्रवाहेऽपि समागत्य पुष्टिमार्गीयः तेन समागमनेन कृत्वा युज्यते, तैः आसुरधर्मैः । तत्र हेतुः । यतः कर्मणा तादृशेन तत्कुले जातः । अतस्तथेत्यर्थः । तथाच तत्कर्मवासनया तादृक्क्रियाकरणेऽपि जीवस्य पुष्टिस्थत्वाद्वगवता तत्कर्म निवार्य फलं दीयते यथाजामिलस्य अतो न दोष इति भावः । कर्म च भगवदपराधो भक्तापराधो वेदनिन्दा अधर्मकरणं वेत्यादिकम् । तच्च 'अत्रापि वेदनिन्दायामधर्मकरणात्तथा । नरके न भवेत्पातः किन्तु हीनेषु जायत' इति निबन्धोक्तमार्गेणोद्यम् । एवं बलिप्रह्लादादिषु दुष्टकर्मणः स्वल्प- ताप्यूह्या । तेन न दोषः । एतदग्रे आधुनिकारष्टवशाद्ग्रन्थो न मिलतीति नोपक्रमोपसंहारै- क्याभावदोषः । एतदग्रे प्रवाहमार्गीयप्रयोजनसाधनाङ्गक्रियाफलानि मर्यादामार्गीयप्रयोजन- स्वरूपाङ्गक्रियाः साधनं फलं च यावता ज्ञायते, तावान् ग्रन्थोऽपेक्षित इति ज्ञेयम् ॥२५ १/२॥ इति श्रीवल्लभाचार्यचरणाब्जनखेन्दुना । शोभितास्तारका यास्ताः स्वबुद्ध्या विशदीकृताः ॥ १ ॥ निपुणं विभाव्य सततं विलसद्रससिन्धुचन्द्रमुखवागमृतम् । विवृतं मयास्य कृतमेतदहो सरहस्यमस्ति विबुधैकसुखम् ॥ २ ॥ इति श्रीवल्लभनन्दनचरणरेण्वेकतानश्रीयदुपतितनयपीताम्बरविरचितं पुष्टिप्रवाहमर्यादाविवरणं समाप्तम् ।

श्रीमद्-वल्लभाचार्य-महाप्रभु-विरचित-षोडश-ग्रन्थान्तर्गतं-पञ्चमं सिद्धान्त-रहस्यम् एकादशटीकाभिः समलंकृतम् १. श्रीगोकुलनाथानां पुरुषोत्तमसिद्धान्त विवृतिः २. श्रीरघुनाथानां सि. र. विवरणम् ३. श्रीकल्याणरायाणां विवृतिः ४. श्रीव्रजोत्सवानां विवृतिः ५. श्रीगोकुलोत्सवानां विवृतिः ६. श्रीहरिरायाणां विवृतिकारिका ७. श्रीविट्ठलेश्वराणां विवृतिः ८. श्रीपुरुषोत्तमानां विवरणम् ९. श्रीगिरधराणां विवृतिः १०. श्रीलालूभट्टानां सिद्धान्तरहस्यटीका ११. श्रीशाचार्यमतानुवर्तिनां संवाद विवृतिः श्रीमद्-वल्लभाचार्य-महाप्रभु-प्रवर्तित-शुद्धाद्वैत-सम्प्रदायस्य-सप्त- पीठान्तर्गत-चतुर्थ-पीठाधिष्ठित-गोस्वामिश्री १००८ श्रीदेवकीनन्दनाचार्यैः प्रकाशितम् वि. सं. २०३६ श्रीवल्लभाब्दा : ५०२

प्रकाशक : गोस्वामीश्री १००८ श्रीदेवकीनन्दनाचार्य, चतुर्थपीठ, गोकुल, मथुरा २८१३०३, भारत. साधारण संस्करण २००० प्रति राजसंस्करण १००० प्रति श्रीवल्लभाब्द ५०२ ग्रन्थ-परिचय लेखक : गोस्वामी श्याम मनोहर मुद्रक : स्टुडियो बहार, २३-ए, सेन्ट्रल चौपाटी बिल्डिंग, चौपाटी, बम्बई-४०० ००७

गोस्वामिश्री १००८ श्रीदेवकीनन्दनाचार्य

इस पृष्ठ पर कोई पाठ (text) उपलब्ध नहीं है। यह एक रिक्त (blank) पृष्ठ है।

॥ श्रीकृष्णाय नमः ॥ ॥ श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ ग्रन्थ-परिचय एक किंवदन्तीके अनुसार सिद्धान्तरहस्यका प्रणयन श्रीमहाप्रभुने वि. सं. १५४९ में किया था. श्रीमहाप्रभुके चरित्रग्रन्थों तथा इस ग्रंथ के अन्तः- साक्ष्यके आधारपर यह निश्चित है कि इसकी रचना गोकुलमें श्रावण शुक्ल एकादशीको अर्धरात्रीमें हुई थी. श्रीयदुनाथजी विरचित वल्लभदिग्विजयके मध्यमयात्रा परिच्छेदमें यह घटना यों वर्णित है—"श्रीमहाप्रभु मथुरासे गोकुल पधारे. वहां श्रावण शुक्ला एकादशीका व्रत एवम् जागरण किया. मध्यरात्रीमें भगवान्‌ने प्रकट होकर दर्शन दिये. तत्र श्रीमहाप्रभुने पवित्रा धराकर मिश्रीका भोग धरा. पश्चात् श्रीगोकुलनाथने श्रीमहाप्रभुको आश्वस्त किया की उन्हें दैवी जीवोंके उद्धारकी चिन्ता नहीं करनी चाहिये. दैवी जीवोंके उद्धारार्थ प्रस्तुत ग्रन्थमें वर्णित भावनाके साथ गद्यमन्त्रका दान ( मदुक्तभावनासहितं गद्यम् ) श्रीमहाप्रभुको दिया गया. अन्योंको भी इस भावनाके उपदेशके साथ गद्यमन्त्रके द्वारा दीक्षित करनेका आदेश दिया गया. श्रीमहाप्रभुको वचन दिया गया कि जिसे यह सर्वस्वसमर्पणपूर्वक आत्मनिवेदनकी दीक्षा दी जायेगी उसकी अहन्ता- ममता के सेवामें विनियोग द्वारा उसे भगवल्लीलाकी अनुभूतिका सामर्थ्य प्रदान किया जायेगा. प्रातः श्रीमहाप्रभुने यह दीक्षा दामोदरदास तथा कृष्णदास को दी.” ८४ वैष्णवनकी वार्ताके अनुसार भगवदाज्ञाके बाद श्रीमहाप्रभुने समीप में सोये हुए दामोदरदास हरसानीको पूछा— “दमला ! ते कछु सुन्यो ? तब दामोदरदासने कह्यो जो महाराज ! मैंने श्रीठाकुरजीके वचन सुने तो सही समुझ्यो नाहीं.” सुना तो बृहदारण्यकोपनिषद्‌में भी सभीने था—समर्पणका सिद्धान्त, “अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा. तद्यथा रथनाभौ रथनेमौ चाराः समर्पिताः एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः १ वैष्णववाणी (अंक ४ वर्ष १९७९) में श्रीनागरदास बांभणिया शास्त्री द्वारा लिखित लेख.

सर्वाणि भूतानि सर्व एवात्मानः समर्पिताः”. पर समझमें कहां आता है ! सभी कुछ जिस परमात्मामें समर्पित है उस परमात्माके प्रति मन-वाणी-देह- से सर्वसमर्पणकी स्वीकृति सबको समझमें नहीं आती. अतएव कह तो भगवा- न्‌ने गीतामें भी दिया है कि “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु, मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोसि मे” पर भगवान्‌की इस प्रतिज्ञाका तथा प्रेमाश्वासनका तात्पर्य कहां समझमें आता है ? सुनी तो भागवतमें भी हमने भगवद्वाणी है कि “ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परं हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे” पर वह कहां समझमें आती है ! स्वयम् इस सिद्धान्तरहस्यमें साक्षाद् भगवदुक्त भावनासहित गद्यमन्त्रमेंसे जब श्रीमहाप्रभुने अक्षरशः भगवदुक्त भावना दोहरा दी फिर भी वह सुनने के बाद भी समझमें नहीं आती! कई विद्वानोंको सन्देह होता है कि गद्यमन्त्र साक्षाद् भगवदुक्त है या श्रीमहाप्रभूक्त है या श्रीप्रभुचरणोक्त हे या श्रीगोकुलनाथजीने इसे परवर्ती कालमें जोड़ दिया है! तर्क वितर्क उठते रहते हैं कि “साक्षाद् भगवता प्रोक्तं तदक्षरश उच्यते” कहने के बाद जब गद्यमन्त्र नहीं कहा गया तो अवश्य ही वह परवर्ती कालमें श्रीप्रभुचरणके चतुर्थात्मज श्रीगोकुलनाथजीने जोड़ दिया होगा ! परन्तु इस अक्षरशः निरूपणमें तो पञ्चाक्षरमन्त्र भी नहीं दोहराया गया हैं, तो केवल गद्यमन्त्र ही क्यों—पञ्चा- क्षर मन्त्रको भी प्रक्षिप्त क्यों न मान लिया जाये. जबकि श्रीगोकुलनाथजीसे पूर्ववर्ती श्रीकृष्णदास अधिकारी —“श्रीगोपालमन्त्र अष्टाक्षर पञ्चाक्षर के श्रवन कराये, गद्यमन्त्र सब जीवनिको दे कृष्णचरण सबके चित लाये.” तथा “कृष्ण श्रीकृष्ण मनमाहि गति जानिये, देह इन्द्रिय प्राण दारागारादिवित्त आत्मा सकल श्रीकृष्णकी मानिये. कृष्ण मम स्वामी हों दास मनवचकरम कृष्ण कर्ता येही सदा जिय आनिये. कृष्णदास निनाथ हरिदासवर्यधरचरणरज वल्लभाधीश मन सानिये.” कहते हैं. इसे सुनते और निरन्तर गाते रहनेपर भी आज यह समझमें नहीं आता ! कतिपय विद्वानोंके अनुसार अतएव यह गद्यमन्त्र श्रीगोकुलनाथजी द्वारा नहीं किन्तु श्रीप्रभुचरण द्वारा पञ्चाक्षरके साथ जोडा गया माना जाता है. जबकि उनके ज्येष्ठभ्राता श्रीगोपीनाथजी स्वरचित साधनदीपिकामें—“नाय- मात्मा प्रवचनैः न धिया बहुना श्रुतैः, लभ्यते वरणं हित्वा वृतं संवृणुते श्रुतेः, स्मृत्वा