षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 311, कुल 408 में से
संदर्भ में पढ़ेंपुष्टिप्रवाहमर्यादा । ५३
प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे' 'विसृजति हृदयं न यस्य साक्षाद्धरि'रित्यादिवाक्यानां विषयाः । निबन्धेऽपि 'एतादृशस्तु पुरुषः कोटिष्वपि सुदुर्लभः । यो दारागारपुत्राप्तप्राणान् वित्तमिमं परम् । हित्वा कृष्णे परं भावं गतः प्रेमप्लुतः सदे'त्यनेनोक्ताः । न च ज्ञानिभक्तापेक्षया तेषां निकर्षः शङ्क्यः । 'अविज्ञातं विजानतां विज्ञात- मविजानता'मित्यादिश्रुतिभिः स्वरूपावित्त्वेऽप्युत्कर्षस्य सिद्धत्वात् । किञ्च । अतिदुर्लभा ब्रह्मादिदुरापचरणरेणवः । 'षष्टिवर्षसहस्राणी'ति बृहद्वामनपुराणवाक्यात् । अत्र येऽवान्त- रभेदास्ते फलबलादूह्याः । तथा ये निरुपधिप्रेमाणोऽपि विक्षिपन्ति कदाचित्ते जीवाः शुद्धाः मनस्तेषां मिश्रम् । ये चैकमनसोऽपि देहेनाशक्ताः सेवितुं तेषां देहा मिश्राः । ये पुनस्तादृशाः समर्था अपि क्रियामन्यादृशीं विदधति, तेषां क्रिया मिश्रेत्याद्यप्यूह्यम् । भक्तिभेदा भक्तिहंसाद्भावभेदा जलभेदादवगन्तव्याः ॥ १५ ॥ एतेन साङ्कर्यदर्शनजाः सन्देहा निराकृता इत्याशयेन साधननिरूपणमुपसंहरन्ति एवमिति । एवं सर्गस्तु तेषां हि फलमत्र निरूप्यते ॥ १६ ॥ भगवानैव हि फलं स यथाविर्भवेद्भुवि । गुणस्वरूपभेदेन तथा तेषां फलं भवेत् ॥ १७॥ एवम्प्रकारकं सर्गभेदमनुसन्धाय ते सन्देहा निवारणीया इत्यर्थः । अतः परं शुद्धा- नामपि बाल्यादिभेदेन नानाविधं फलं दृश्यते । तत्कथम् । किञ्च । 'कायेन तु फलं पुष्ट्या'वित्यत्र तृतीयानिर्देशात् किं स्वरूपातिरिक्तं फलमित्याद्याशङ्कानिरासाय च फलनिरूपणं प्रतिजानते फलमिति । तदाहुः भगवानैव हीति । 'यो वै भूमा तत्सुखम्' 'पुरुषात्न परं किञ्चित्सा काष्ठा सा परा गति'रित्यादिश्रुतेः । 'परमतः सेतुन्मानसम्बन्धभेदव्य- पदेशेभ्य' इति सूत्रे सेतुर्विधृतिः । 'यावान् वा अयमाकाशस्तावानेषः' 'प्राज्ञेनात्मना सम्प- रिष्वक्तः' 'य एषोऽन्तरादित्ये हिरण्मय' इत्यादिभिः सेत्वादिब्यपदेशैः फलान्तरसन्देहे, 'सामान्यात्त्वि'ति सूत्रेण संसारतरणसाधनत्वनिर्लेपत्वादुर्लभत्वादिव्यत्वाद्यर्थं ते धर्मा ब्रह्म- ण्युच्यन्ते । तावता तदतिरिक्तस्य फलस्य न सिद्धिरिति व्यवस्थापनाच्च भगवानैव फलम् । स्वर्गमोक्षादयस्तु मार्गान्तरे । तान्यपि 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति श्रुतेर्भगवदानन्दांशभूतानि । मोक्षोऽप्यात्मसुखात्मा ब्रह्मानन्दात्मा च तथा । पुष्टिमार्गे तथा न, किन्तु मूलरूपो भगवानैव फलम् । तत्र प्रमाणभूतां युक्तिमाहुः हीति । मार्गभेदसा- धनावसर उक्तैः प्रमाणैरेव तथा निश्चयादित्यर्थः । तृतीयानिर्देशस्तु फलस्य साधनासाध्य- त्वबोधाय । अतो न विरोधः । तत्र विशेषमाहुः स इत्यादि । स भगवान् भुवि हृदय- भूमौ लीलास्थाने वृन्दावनादौ च गुणस्वरूपभेदेन यदर्थं यथा आविर्भवेत्, तेषां तथा तादृशगुणस्वरूपभेदेन फलं भवेत्, फलरूपो भवेत् । तथाच यदर्थं यद्गुणरूपेणाविर्भवति नृसिंहरामवामनादिरूपेण, तेषां मुक्तावपि तेन रूपेण फलति । यदर्थं च बाल्यपौगण्ड- किशोररूपेणाविर्भवति, तेषां मुक्तावपि तथैव फलति । तेन तदर्थकतथाविर्भाव एव तादृ- क्फलगमकः । 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्' । 'तद्धैतान् भूत्वावती'ति स्मृति-