भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 310, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 310

५२ \hskip 14em श्रीपीताम्बरकृतविवृतिसमेता । सर्वे सामान्येनापाकृता बोध्याः । 'परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष' इति श्रुतेः 'यत्परो- क्षप्रियो देवो भगवान् विष्णुरव्यय' इत्यादिस्मृतेश्च रहस्यलीलास्थत्वान्न विशेषतो विव्रियन्ते ॥ एवं स्वभावभेदादिसन्देहानपाकृत्य, केषाञ्चिद्भगवदुक्ते भक्तिमार्गे, केषाञ्चित्तादृशे ज्ञानमार्गे, केषाञ्चित्तादृशे कर्मणि, तत्रापि केषाञ्चित्स्वतः प्रवृत्तिरासक्तिश्च, केषाञ्चिद्विधिव- लात्, केषाञ्चित्स्वभावविरुद्धा देहादयः, इतरेषामनुकूला इत्यादीन् विशेषतो निराकर्तुं पुष्टिजीवान् विभजन्ते ते हि द्विधेति । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । ते पुष्टिजीवादयः हि यतो हेतोः भगवत्कार्यस्य लीलावैचित्र्यस्य सिद्ध्यर्थं शुद्ध- मिश्रभेदेन द्विप्रकाराः । मिश्राः पुनः प्रवाहमर्यादापुष्टीनां यो विभेदः विशिष्टः शुद्धाद- तिरिक्तः सङ्कीर्णो भेदस्तेन त्रिप्रकाराः प्रवाहसिश्रा मर्यादामिश्राः पुष्टिमिश्रा इति । तथा- चैवंविधवैचित्र्यार्थादवान्तरभेदात्ते सन्देहा निवार्या इत्यर्थः ॥ १४ ॥ पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । कथं निवार्या इत्याशङ्कायां तदभिज्ञापकं रूपमाहुः पुष्ट्येत्यादि । अत्र पुष्ट्यादिशब्दै- र्मार्गा उच्यन्ते । तत्र भक्तिज्ञानकर्मणां विजातीयसंवलितानां मार्गत्वं केवलत्वे भगवद्धर्म- त्वमित्येकादशस्कन्धसुबोधिन्यां स्थितम् । पुष्टिशब्दवाच्योऽनुग्रहोऽपि फलवलात्केवलो मिश्र- श्चावधार्यते । तत्र केवलो निःसाधनेष्वङ्गीकृतेषु । यथा गोकुलस्थेषु व्रजरलेषु सर्वथा प्रपन्नेषु च । 'अहञ्चापृतं निशि शयानमतिश्रमेण' 'केवलेन हि भावेन' 'मत्कामा रमणं जारम्' 'सर्वधर्मान् परित्यज्य' 'तस्मात्त्वमुद्धवोत्सृज्य नोदना'मिति वाक्येभ्यः । द्वितीय उक्तरीत्या त्रिविधः । उभावप्यवान्तरभेदैरनन्तविधावित्यपि 'तथापि यावते'त्यनेन सूचितमेव । एवं सति एते मामभिजानन्त्वित्यभिध्यापूर्विका या पुष्टिस्तया मिश्रा ये पुष्टावङ्गीकृतास्ते सर्वज्ञा यथा तथा भगवत्स्वरूपज्ञातारो भवन्ति । तेन सर्वज्ञत्वं तदभिज्ञापकं लिङ्गम् । उदाहरणं तु नारदर्षभादयः । ज्ञानमिश्राः परमभक्ता इति यावत् । 'मुक्तानामपि सिद्धानां नारायणपरा- यणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुन' इत्यादिवाक्यानामेते विषयाः । मदुपासा- दिपरा एते भवन्त्वित्यभिध्यापूर्वकेण प्रवाहेण मिश्रा ये पुष्टावङ्गीकृतास्ते क्रियारताः भगव- दुक्तपञ्चरात्रादिप्रसिद्धकर्मपराः । प्रवाहिकभक्ता इति यावत् । तादृशक्रियापरत्वं तदभिज्ञा- पकम् । उदाहरणं श्रुतदेवनिमिप्रभृतयः । मद्गुणान् जानन्त्वित्यभिध्यापूर्विका या मर्यादा भगवदुक्तब्रह्मवादसरणिस्तया मिश्रा ये पुष्टावङ्गीकृतास्ते गुणज्ञा भगवत उत्पन्नानां गुणानां सत्त्वादीनां भगवदीयानां स्रष्टृत्त्वैश्वर्यादीनां ज्ञातारो भवन्तीति तदभिज्ञापकम् । मार्गादिक- भक्ता इति यावत् । उदाहरणं भीष्मादयः । शुद्धास्तु प्रेम्णा उपलक्षिताः । निरुपधिप्रेमैव तेषामभिज्ञापकः । ते अतिदुर्लभाः । तान् भगवान् कदापि न त्यजति । 'ये दारागारपुत्राप्त-