षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 310, कुल 408 में से
संदर्भ में पढ़ें५२ \hskip 14em श्रीपीताम्बरकृतविवृतिसमेता । सर्वे सामान्येनापाकृता बोध्याः । 'परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विष' इति श्रुतेः 'यत्परो- क्षप्रियो देवो भगवान् विष्णुरव्यय' इत्यादिस्मृतेश्च रहस्यलीलास्थत्वान्न विशेषतो विव्रियन्ते ॥ एवं स्वभावभेदादिसन्देहानपाकृत्य, केषाञ्चिद्भगवदुक्ते भक्तिमार्गे, केषाञ्चित्तादृशे ज्ञानमार्गे, केषाञ्चित्तादृशे कर्मणि, तत्रापि केषाञ्चित्स्वतः प्रवृत्तिरासक्तिश्च, केषाञ्चिद्विधिव- लात्, केषाञ्चित्स्वभावविरुद्धा देहादयः, इतरेषामनुकूला इत्यादीन् विशेषतो निराकर्तुं पुष्टिजीवान् विभजन्ते ते हि द्विधेति । ते हि द्विधा शुद्धमिश्रभेदान्मिश्रास्त्रिधा पुनः ॥ १४ ॥ प्रवाहादिविभेदेन भगवत्कार्यसिद्धये । ते पुष्टिजीवादयः हि यतो हेतोः भगवत्कार्यस्य लीलावैचित्र्यस्य सिद्ध्यर्थं शुद्ध- मिश्रभेदेन द्विप्रकाराः । मिश्राः पुनः प्रवाहमर्यादापुष्टीनां यो विभेदः विशिष्टः शुद्धाद- तिरिक्तः सङ्कीर्णो भेदस्तेन त्रिप्रकाराः प्रवाहसिश्रा मर्यादामिश्राः पुष्टिमिश्रा इति । तथा- चैवंविधवैचित्र्यार्थादवान्तरभेदात्ते सन्देहा निवार्या इत्यर्थः ॥ १४ ॥ पुष्ट्या विमिश्राः सर्वज्ञाः प्रवाहेण क्रियारताः ॥ १५ ॥ मर्यादया गुणज्ञास्ते शुद्धाः प्रेम्णातिदुर्लभाः । कथं निवार्या इत्याशङ्कायां तदभिज्ञापकं रूपमाहुः पुष्ट्येत्यादि । अत्र पुष्ट्यादिशब्दै- र्मार्गा उच्यन्ते । तत्र भक्तिज्ञानकर्मणां विजातीयसंवलितानां मार्गत्वं केवलत्वे भगवद्धर्म- त्वमित्येकादशस्कन्धसुबोधिन्यां स्थितम् । पुष्टिशब्दवाच्योऽनुग्रहोऽपि फलवलात्केवलो मिश्र- श्चावधार्यते । तत्र केवलो निःसाधनेष्वङ्गीकृतेषु । यथा गोकुलस्थेषु व्रजरलेषु सर्वथा प्रपन्नेषु च । 'अहञ्चापृतं निशि शयानमतिश्रमेण' 'केवलेन हि भावेन' 'मत्कामा रमणं जारम्' 'सर्वधर्मान् परित्यज्य' 'तस्मात्त्वमुद्धवोत्सृज्य नोदना'मिति वाक्येभ्यः । द्वितीय उक्तरीत्या त्रिविधः । उभावप्यवान्तरभेदैरनन्तविधावित्यपि 'तथापि यावते'त्यनेन सूचितमेव । एवं सति एते मामभिजानन्त्वित्यभिध्यापूर्विका या पुष्टिस्तया मिश्रा ये पुष्टावङ्गीकृतास्ते सर्वज्ञा यथा तथा भगवत्स्वरूपज्ञातारो भवन्ति । तेन सर्वज्ञत्वं तदभिज्ञापकं लिङ्गम् । उदाहरणं तु नारदर्षभादयः । ज्ञानमिश्राः परमभक्ता इति यावत् । 'मुक्तानामपि सिद्धानां नारायणपरा- यणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुन' इत्यादिवाक्यानामेते विषयाः । मदुपासा- दिपरा एते भवन्त्वित्यभिध्यापूर्वकेण प्रवाहेण मिश्रा ये पुष्टावङ्गीकृतास्ते क्रियारताः भगव- दुक्तपञ्चरात्रादिप्रसिद्धकर्मपराः । प्रवाहिकभक्ता इति यावत् । तादृशक्रियापरत्वं तदभिज्ञा- पकम् । उदाहरणं श्रुतदेवनिमिप्रभृतयः । मद्गुणान् जानन्त्वित्यभिध्यापूर्विका या मर्यादा भगवदुक्तब्रह्मवादसरणिस्तया मिश्रा ये पुष्टावङ्गीकृतास्ते गुणज्ञा भगवत उत्पन्नानां गुणानां सत्त्वादीनां भगवदीयानां स्रष्टृत्त्वैश्वर्यादीनां ज्ञातारो भवन्तीति तदभिज्ञापकम् । मार्गादिक- भक्ता इति यावत् । उदाहरणं भीष्मादयः । शुद्धास्तु प्रेम्णा उपलक्षिताः । निरुपधिप्रेमैव तेषामभिज्ञापकः । ते अतिदुर्लभाः । तान् भगवान् कदापि न त्यजति । 'ये दारागारपुत्राप्त-