भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 309, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 309

रिक्तं प्रयोजनान्तरम्, तथात्रापीति समाधाय, लीलास्वरूपमाह कैवल्यमिति । स्वरू- पान्तिरिक्ता । तथाच समाधानोत्तरं स्वरूपकथनं सपरिकरायाः स्वरूपात्मकत्वज्ञापनाय । तेन 'अहिकुण्डल'सूत्रे वक्ष्यमाणाज्ञायाद्भगवानेव तावद्रूपस्तथा क्रीडतीति फलितम् । एतदेव आथर्वणे कृष्णोपनिषदि 'तस्मान्न भिन्ना एतास्तु आभिर्भिन्नो न वै विभुः । भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिन'मिति मन्त्रे परस्पराभेदकथनादुक्तम् । वाराहपुराणे च 'अन्येव काचित्सा सृष्टिर्विधातृव्यतिरेकिणी'ति तस्या विधातृव्यतिरेकित्वकथनात्तदुपबृंहितम् । तथाचास्माद्विशेषाच्च साधितपूर्वमपार्थतामापद्यत इत्यर्थः । 'लिङ्गेन च गुणेन चे'ति चका- रद्वयेन यथा भगवल्लीलाश्रवणादिना कृतार्थता, तथैव तेषामपीति बोधितम् । तदपि गर्भस्तुतौ 'शृण्वन् गृण'न्नित्यस्य सुबोधिन्यां चकारसूचितार्थनिरूपणे भगवत्सम्बन्धि- नामप्यन्येषां श्रवणादिकं फलसाधकमित्यनेनोक्तम् । तर्हि प्रत्यक्षस्य का गतिरित्यत आहुः तथापीत्यादि । यावता तारतम्येन । कार्यं तत्तत्प्रकारकविधित्सितलीलारूपम् । सिध्यतीति शेषः । तावत्तारतम्यं तस्य जीवस्य स्वरूपे देहे वा तत्क्रियासु वा करोति । हि यतो हेतोः । तथाच कार्यसाधनार्थेन तारतम्येन सर्वमेव सङ्गच्छते । तेन प्रत्यक्षं तावदंशे यथार्थमपि तु न तावत्त्वस्य नियामकम् । अतो न प्रत्यक्षशब्दयोर्विरोध इत्यर्थः । अयं च सार्धकारिकोक्तोऽर्थो 'हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दःस्तुत्युपगानवत्तदुक्त'मित्यत्र विचारितः । तेन यं जीवं मर्यादादिभ्यः पृथक्कृत्यानुग्रहेण पुष्टौ प्रवेशयति, तस्येयं व्यवस्था बोध्या । तत्र हि 'निरञ्जनः परमं साम्यमुपैती'त्याथर्वणिके श्रुतं साम्यं किमशेषधर्मैः, उत कतिपयधर्मैरिति सन्देहे, अत्र परमपदोक्त्या अशेषतद्धर्मैरिति पूर्वपक्षे, तुना पूर्वपक्षं निरस्य, हानौ भगवता सृष्ट्यर्थं जीवानां त्यागे विभाग इति यावत्, तस्मिन् कृते ये धर्मा- स्तिरोहिता ऐश्वर्यादयः, ते ब्रह्मसम्बन्ध आविर्भवन्ति । तैः साम्यमुपचर्यते । न तु सर्वथा साम्यम् । तत्र हेतुः । उपायनशब्दशेषत्वादिति । अत्र यत्साम्यमुच्यते, तदुपैतीत्युपायन- शब्दशेषत्वेनोच्यते । तथा सति पूर्वं न स्थितमिदानीं प्राप्नोति । तेन परममुपेत्य साम्य- मुपैतीति सिध्यति । तेन पूर्वोक्तमेव दृढीभवति । उचितं चैतत् । अन्यथा 'न तत्समश्चा- भ्यधिकश्च दृश्यत' इति श्रुतिर्विरुध्येत । तत्र दृष्टान्तः । कुशाच्छन्दःस्तुत्युपगानवदिति । औदुम्बर्यः समिधः कुशाशब्देनाभिधीयन्ते । ता ज्योतिष्टोमादियागेषु प्रस्तोत्रा स्थाप्यन्ते । तत्र 'अभि त्वा शूर नोनुम' इति ऋक्स्थानेऽच उपसंहृत्य भकारेण गानं क्रियते । तथा सति कुशानां, या छन्दसा स्तुतिस्तत्रोपगानकरणभूतो यो भकारस्तस्याप्यर्थमान्वयत्वेन यथा नर्भूपता, तद्वदत्रापीत्यर्थः । ननु तत्त्वमस्यादिवाक्यैरभेदो बोधितस्तस्य का गतिरि- त्यत्राह तदुक्तमिति । 'तद्गुणसारत्वात्तद्व्यपदेश' इति सूत्र एवोक्तं गौण्योच्यत इति । इयं या मुक्तव्यवस्था सात्रानुगृहीते बोध्या । नित्यलीलास्थानां तूक्तैव पूर्वश्लोके । एतेन रसशा- स्त्रोक्तरीतिकलीलायां वैचित्र्यासम्भवे साम्यकृतरमणासम्भवे स्वरूपबहुत्वैकत्वकृतरमणास- म्भवे सर्वेषामेकविधत्वेन कार्यान्तरासम्भवादौ च ये सन्देहास्तत्प्रसङ्गात्प्रसङ्गपतिताश्च ते