षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 309, कुल 408 में से
संदर्भ में पढ़ेंरिक्तं प्रयोजनान्तरम्, तथात्रापीति समाधाय, लीलास्वरूपमाह कैवल्यमिति । स्वरू- पान्तिरिक्ता । तथाच समाधानोत्तरं स्वरूपकथनं सपरिकरायाः स्वरूपात्मकत्वज्ञापनाय । तेन 'अहिकुण्डल'सूत्रे वक्ष्यमाणाज्ञायाद्भगवानेव तावद्रूपस्तथा क्रीडतीति फलितम् । एतदेव आथर्वणे कृष्णोपनिषदि 'तस्मान्न भिन्ना एतास्तु आभिर्भिन्नो न वै विभुः । भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिन'मिति मन्त्रे परस्पराभेदकथनादुक्तम् । वाराहपुराणे च 'अन्येव काचित्सा सृष्टिर्विधातृव्यतिरेकिणी'ति तस्या विधातृव्यतिरेकित्वकथनात्तदुपबृंहितम् । तथाचास्माद्विशेषाच्च साधितपूर्वमपार्थतामापद्यत इत्यर्थः । 'लिङ्गेन च गुणेन चे'ति चका- रद्वयेन यथा भगवल्लीलाश्रवणादिना कृतार्थता, तथैव तेषामपीति बोधितम् । तदपि गर्भस्तुतौ 'शृण्वन् गृण'न्नित्यस्य सुबोधिन्यां चकारसूचितार्थनिरूपणे भगवत्सम्बन्धि- नामप्यन्येषां श्रवणादिकं फलसाधकमित्यनेनोक्तम् । तर्हि प्रत्यक्षस्य का गतिरित्यत आहुः तथापीत्यादि । यावता तारतम्येन । कार्यं तत्तत्प्रकारकविधित्सितलीलारूपम् । सिध्यतीति शेषः । तावत्तारतम्यं तस्य जीवस्य स्वरूपे देहे वा तत्क्रियासु वा करोति । हि यतो हेतोः । तथाच कार्यसाधनार्थेन तारतम्येन सर्वमेव सङ्गच्छते । तेन प्रत्यक्षं तावदंशे यथार्थमपि तु न तावत्त्वस्य नियामकम् । अतो न प्रत्यक्षशब्दयोर्विरोध इत्यर्थः । अयं च सार्धकारिकोक्तोऽर्थो 'हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दःस्तुत्युपगानवत्तदुक्त'मित्यत्र विचारितः । तेन यं जीवं मर्यादादिभ्यः पृथक्कृत्यानुग्रहेण पुष्टौ प्रवेशयति, तस्येयं व्यवस्था बोध्या । तत्र हि 'निरञ्जनः परमं साम्यमुपैती'त्याथर्वणिके श्रुतं साम्यं किमशेषधर्मैः, उत कतिपयधर्मैरिति सन्देहे, अत्र परमपदोक्त्या अशेषतद्धर्मैरिति पूर्वपक्षे, तुना पूर्वपक्षं निरस्य, हानौ भगवता सृष्ट्यर्थं जीवानां त्यागे विभाग इति यावत्, तस्मिन् कृते ये धर्मा- स्तिरोहिता ऐश्वर्यादयः, ते ब्रह्मसम्बन्ध आविर्भवन्ति । तैः साम्यमुपचर्यते । न तु सर्वथा साम्यम् । तत्र हेतुः । उपायनशब्दशेषत्वादिति । अत्र यत्साम्यमुच्यते, तदुपैतीत्युपायन- शब्दशेषत्वेनोच्यते । तथा सति पूर्वं न स्थितमिदानीं प्राप्नोति । तेन परममुपेत्य साम्य- मुपैतीति सिध्यति । तेन पूर्वोक्तमेव दृढीभवति । उचितं चैतत् । अन्यथा 'न तत्समश्चा- भ्यधिकश्च दृश्यत' इति श्रुतिर्विरुध्येत । तत्र दृष्टान्तः । कुशाच्छन्दःस्तुत्युपगानवदिति । औदुम्बर्यः समिधः कुशाशब्देनाभिधीयन्ते । ता ज्योतिष्टोमादियागेषु प्रस्तोत्रा स्थाप्यन्ते । तत्र 'अभि त्वा शूर नोनुम' इति ऋक्स्थानेऽच उपसंहृत्य भकारेण गानं क्रियते । तथा सति कुशानां, या छन्दसा स्तुतिस्तत्रोपगानकरणभूतो यो भकारस्तस्याप्यर्थमान्वयत्वेन यथा नर्भूपता, तद्वदत्रापीत्यर्थः । ननु तत्त्वमस्यादिवाक्यैरभेदो बोधितस्तस्य का गतिरि- त्यत्राह तदुक्तमिति । 'तद्गुणसारत्वात्तद्व्यपदेश' इति सूत्र एवोक्तं गौण्योच्यत इति । इयं या मुक्तव्यवस्था सात्रानुगृहीते बोध्या । नित्यलीलास्थानां तूक्तैव पूर्वश्लोके । एतेन रसशा- स्त्रोक्तरीतिकलीलायां वैचित्र्यासम्भवे साम्यकृतरमणासम्भवे स्वरूपबहुत्वैकत्वकृतरमणास- म्भवे सर्वेषामेकविधत्वेन कार्यान्तरासम्भवादौ च ये सन्देहास्तत्प्रसङ्गात्प्रसङ्गपतिताश्च ते