भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 308, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 308

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण है:

५० श्रीपीताम्बरकृतविवृतिसमेता। त्पदद्वयवैयर्थ्यं स्यात्। तेन 'न स पुनरावर्तत' इति सामान्यशास्त्रमप्युपसंह्रियत इति न तस्यापि विरोध इति। एतमेव चार्थं 'मुक्ता अपि लीलावग्रहं कृत्वा भजन्त' इति वाक्यं 'न कर्मबन्धनं जन्म वैष्णवानां च विद्यते। विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिण' इति पाद्मवाक्यं चोपोद्वलयति। न चोक्तवाक्यानां जीवन्मुक्तपरत्वं शङ्क्यम्। जीवन्मुक्ते तादृशभोगानुपलब्धेः। मुख्ये सम्भवति गौणकल्पनास्याप्रयोजकत्वात्। उक्तवाक्यादि- भिर्मुख्ये बाधाभावाच्च। एवञ्च 'ब्रह्मविदाप्नोति पर'मित्यत्रापि ज्ञानमुक्तयोर्व्याहृत्या एको- क्क्योभयप्राप्तेर्ब्रह्मवित्पदेन पुरुषोत्तमे प्राप्तसायुज्योऽपि शक्यवचनः। तथाच स तथा भवतीत्यर्थः। अयमेवार्थः 'अस्मिन्नस्य च तद्योगं शास्ती'ति सूत्रेऽभिप्रैयते। स चास्मिन्ना- नन्दमये ब्रह्मणि अस्य प्राप्तसायुज्यस्य जीवस्य तद्योगं तत्स्वरूपस्य योगं शास्ति फलत्वेन श्रुतिर्वदतीति विद्वन्मण्डनोक्तदिशावगन्तव्यः। अस्य तद्योगं शास्तीत्येतावर्तव चारितार्थ्ये यदस्मिन्निति पदं तस्यान्यथा वैयर्थ्यापत्तेः। इदं यथा तथानन्दमयाधिकरणस्य वर्णके स्वतन्त्रे प्रसुचरणैर्विशदीकृतम्। अतो जीवन्मुक्तव्यावृत्त्यर्थमेवास्मिन्निति पदम्। न हि जीवन्मुक्त- स्याभेदात्मिका मुक्तिरस्ति। येन योग्यतानुभवस्य स्यात्। किन्तु ज्ञानाध्यासाभावयोः कारणकार्ययोर्भाविफलप्राप्तिज्ञापकयोः सत्त्वात्तथोच्यते। ज्ञानेन स्वरूपयोग्यतायां मुक्ति- र्भगवता दीयत इति न ज्ञानमात्रसाध्या। 'भगवान् भजतां मुकुन्दो मुक्तिं ददाति' 'मोक्ष- मिच्छेज्जनार्दना'दित्यादिवाक्यैः। तथा सति चरमवृत्तिरूपमपि ज्ञानं स्वरूपयोग्यता- सम्पादन एवोपक्षीयमाणं न फलोपहितां कारणतां स्वस्मिन्नवरोद्धुमीष्टे। अतो मुक्तिरपि भगवन्नियतैवेति सेवायै विचारितान् शुद्धान् विधायाविर्भावयतीत्यत्रापि न किञ्चिदनुपपन्नम्॥ ननु भवत्वेवं सृष्टिभेदात्साधनसाङ्कर्याभावः, तथापि लीला सृष्टावुपपन्नानां स्वरूपदेह- क्रियासु न कश्चिद्विशेषो दृश्यत इति साधितपूर्वः सृष्ट्यादिभेदोऽपार्थ एवेत्याशङ्कायां तत्प- रिहाराय विशेषमाहुः स्वरूपेत्यादि। स्वरूपेणावतारेण लिङ्गेन च गुणेन च। तारतम्यं न स्वरूपे देहे वा तत्क्रियासु वा ॥ १३ ॥ तथापि यावता कार्यं तावत्तस्य करोति हि। 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्मानन्त- रोऽबाह्यः कृत्स्नः प्रज्ञानघन एव' 'आनन्दरूपममृतं यद्विभाती'त्यादिश्रुतिभिर्यथा भगवान् सच्चिदानन्दघनः, एवं तेऽप्यतिरोहितसच्चिदानन्दा इति न स्वरूपेण तारतम्यम्। यथा भगवतोऽलौकिकरीत्या सत्त्वाधिष्ठानेऽवतारः, एवं तेषामपीत्यवतारेणापि न तथा। यथा भगवतो ध्वजवज्रादीनि लिङ्गानि, एवं तेषामिति न लिङ्गेन तथा। यथा भगवत ऐश्वर्यादयः सौकुमार्यादयश्च, तथा तेषामपीति गुणेनापि न तथा। इदमपि 'न प्रयोजनवत्त्वा'दिति सूत्रेण ब्रह्मण आप्तकामतत्वश्रवणात्सृष्टिकरणं विरुद्धमित्याक्षिप्य, 'लोकवत्तु लीला- कैवल्य'मिति सूत्रेण पूर्वपक्षनिरासपूर्वकं लोके यथा ईश्वरो लीलां करोति, तत्र न तदति-