षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 307, कुल 408 में से
संदर्भ में पढ़ेंस्वस्वरूपे प्रवेश्य पुनः पुष्टिसृष्टावोत्पादयति, तदा पुष्टिजीवित्वम्, न त्वनुग्रहमात्रात् । एतत्सर्वं बृहद्वामनीयसन्दर्भविचारे 'उक्तकालं समासाद्य गोप्यो भूत्वा हरिं गता' इत्यत्र विद्वन्मण्डने स्पष्टम् । अत एव निबन्धेऽपि 'आदिमूर्तिः कृष्ण एव सेव्यः सायुज्यकाम्य- ये'त्युक्तम् । अन्यथा पूर्वमार्गसङ्कीर्णत्वानिवृत्तेः । न चैवमनुग्रहस्यानित्यत्वापत्तिः । फल- बलेन प्रनाड्या अपि विचारितत्वनिश्चयात् । तस्मात्सुष्ठूक्तं भिन्ना एवेति । ननु भवत्वेवं जीवभेदः फलभेदश्च, तथापि गीतायां सर्गद्वयस्यैव कथनात्पुष्टिमार्गीयः सर्गोऽपि दैवसर्ग एव निवेशनीयः, तथा सति दैव्यासम्पदा मोक्षः, अनुग्रहसाहचर्ये भक्त्या सायुज्यमिति फलविभागोऽपि सेत्स्यति, तथा सति सर्गस्वभावात्साधनसाङ्कर्यमेव, न तु विवेक इत्या- शङ्कायां तत्सर्गप्रयोजनमाहुः भगवदिति । भगवतो रूपस्य या सेवा, रूपेण स्वसौन्दर्येण वा या सेवा तदर्थं तत्सृष्टिः । नान्यथा भवेत्, एतत्कृतिकरणाभावे अधिकार्यभावाद्भगवतो रूपसेवैव न भवेत् । तथा रूपसेवां चेन्न कारयितुमिच्छेत्तन्न सृजेत् । नामसेवायां दैवान्तरैरपि सम्भवात् । तथा तादृशरूपाभावे तत्कृता या रमणोपयुक्तसेवा सापि न भवेत् । इदं च प्रयोजनं 'स वै नैव रेमे' इति श्रुत्यैव सूचितम् । तथाच दैवत्वाविशेषेऽपि स्वसेवाथं तेषामालोचितत्वादन्येषामन्यार्थमालोचितत्वात्स्वार्थपरार्थत्वाभ्यां दैवसर्गभेदः केन वार्यते । सिद्धे च तद्भेदे न साधनसाङ्कर्यगन्धोऽपि । तादृशसृष्टिश्च पूर्वमेव साधिता । 'स आत्मान ५ स्वयमकरू'तेति श्रुत्युपन्यासेन । एवञ्चासुरेण प्रावाहिकेण सर्गेण विप्रकृष्टा क्रीडा । मर्यादिकेन परम्परिता । पुष्टिसर्गेण साक्षादित्युत्कर्षोऽपि फलितः । किञ्च । 'द्वौ भूतसर्गौ लोकेऽस्मिं'चित्यत्राप्यस्मिंलोक इत्यनेन अमुक्तसम्बन्धी विधातृकृतो लोकः परामृश्यते । अन्यथैतद्वैयर्थ्यं स्यात् । तस्मात्तत्र द्वौ । तावता तदतिरिक्ते मुक्तसम्बन्धिनि तादृग्दैवसर्गस्य केन वारणम् । न च 'न स पुनरावर्तते' 'अनावृत्तिः शब्दा'दिति श्रुतिन्यायविरोधात्पूर्वोक्तमुक्तसर्गोऽनुपपन्नः । 'सम्पद्याविर्भावः स्वेन शब्दा'दित्यधिकरणे आकरै व्यवस्थापितत्वात् । तत्र हि ब्रह्मसम्पन्नानां 'सोऽश्नुते सर्वान् कामानि'त्युक्त आनन्दानुभवोऽन्तर्बहिर्वेति सन्दिह्य, 'न स पुनरावर्तत' इति श्रुत्या पुनरिहागमननिषेध- दिहागमनं विना च बहिरनुभवासम्भवादन्तरेवानुभव इति पूर्वपक्षे, सम्पद्य ब्रह्म प्राप्यापि स्वेन भगवतैवाविर्भावो बहिः प्राकट्यं तेषां भवति । यत उक्तश्रुत्युक्तः सर्वकामाश नरूपो भोगः स्वप्राधान्येन ब्रह्मणो विपश्चितो विविधचातुर्यवतः सहभावेन यः स बहिरेव शक्य इत्यशनवाचकादश्रुत इति शब्दादेव निर्णीयते । शक्तेश्च व्यवस्थापकता पूर्वतन्त्र एव नामधेयपादे 'अर्थाद्वा कल्पनैकदेशत्वा'दित्यधिकरणे निर्णीता । 'अञ्जलिना सक्तून् प्रदाब्ये जुहुया'दिति होमे देवताप्रसादनादाविव संयुक्तहस्तद्वयस्याञ्जलेरशक्तत्वाद्वस्तयोर्विकासने विना होमासम्भवाव्याकोश एवाञ्जलिः शक्तः । आख्यातानामर्थं ब्रुवतां शक्तेः सहकारि- त्वादिति । किञ्चोपकोशलविद्यायां 'एष देवपथो ब्रह्मपथः । एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त' इत्यत्रैमं मानवमिति पदाभ्यां संसार एवानावृत्तिरुच्यते । अन्यथैत- ७ पु. प्र. म.