भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 307, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 307

स्वस्वरूपे प्रवेश्य पुनः पुष्टिसृष्टावोत्पादयति, तदा पुष्टिजीवित्वम्, न त्वनुग्रहमात्रात् । एतत्सर्वं बृहद्वामनीयसन्दर्भविचारे 'उक्तकालं समासाद्य गोप्यो भूत्वा हरिं गता' इत्यत्र विद्वन्मण्डने स्पष्टम् । अत एव निबन्धेऽपि 'आदिमूर्तिः कृष्ण एव सेव्यः सायुज्यकाम्य- ये'त्युक्तम् । अन्यथा पूर्वमार्गसङ्कीर्णत्वानिवृत्तेः । न चैवमनुग्रहस्यानित्यत्वापत्तिः । फल- बलेन प्रनाड्या अपि विचारितत्वनिश्चयात् । तस्मात्सुष्ठूक्तं भिन्ना एवेति । ननु भवत्वेवं जीवभेदः फलभेदश्च, तथापि गीतायां सर्गद्वयस्यैव कथनात्पुष्टिमार्गीयः सर्गोऽपि दैवसर्ग एव निवेशनीयः, तथा सति दैव्यासम्पदा मोक्षः, अनुग्रहसाहचर्ये भक्त्या सायुज्यमिति फलविभागोऽपि सेत्स्यति, तथा सति सर्गस्वभावात्साधनसाङ्कर्यमेव, न तु विवेक इत्या- शङ्कायां तत्सर्गप्रयोजनमाहुः भगवदिति । भगवतो रूपस्य या सेवा, रूपेण स्वसौन्दर्येण वा या सेवा तदर्थं तत्सृष्टिः । नान्यथा भवेत्, एतत्कृतिकरणाभावे अधिकार्यभावाद्भगवतो रूपसेवैव न भवेत् । तथा रूपसेवां चेन्न कारयितुमिच्छेत्तन्न सृजेत् । नामसेवायां दैवान्तरैरपि सम्भवात् । तथा तादृशरूपाभावे तत्कृता या रमणोपयुक्तसेवा सापि न भवेत् । इदं च प्रयोजनं 'स वै नैव रेमे' इति श्रुत्यैव सूचितम् । तथाच दैवत्वाविशेषेऽपि स्वसेवाथं तेषामालोचितत्वादन्येषामन्यार्थमालोचितत्वात्स्वार्थपरार्थत्वाभ्यां दैवसर्गभेदः केन वार्यते । सिद्धे च तद्भेदे न साधनसाङ्कर्यगन्धोऽपि । तादृशसृष्टिश्च पूर्वमेव साधिता । 'स आत्मान ५ स्वयमकरू'तेति श्रुत्युपन्यासेन । एवञ्चासुरेण प्रावाहिकेण सर्गेण विप्रकृष्टा क्रीडा । मर्यादिकेन परम्परिता । पुष्टिसर्गेण साक्षादित्युत्कर्षोऽपि फलितः । किञ्च । 'द्वौ भूतसर्गौ लोकेऽस्मिं'चित्यत्राप्यस्मिंलोक इत्यनेन अमुक्तसम्बन्धी विधातृकृतो लोकः परामृश्यते । अन्यथैतद्वैयर्थ्यं स्यात् । तस्मात्तत्र द्वौ । तावता तदतिरिक्ते मुक्तसम्बन्धिनि तादृग्दैवसर्गस्य केन वारणम् । न च 'न स पुनरावर्तते' 'अनावृत्तिः शब्दा'दिति श्रुतिन्यायविरोधात्पूर्वोक्तमुक्तसर्गोऽनुपपन्नः । 'सम्पद्याविर्भावः स्वेन शब्दा'दित्यधिकरणे आकरै व्यवस्थापितत्वात् । तत्र हि ब्रह्मसम्पन्नानां 'सोऽश्नुते सर्वान् कामानि'त्युक्त आनन्दानुभवोऽन्तर्बहिर्वेति सन्दिह्य, 'न स पुनरावर्तत' इति श्रुत्या पुनरिहागमननिषेध- दिहागमनं विना च बहिरनुभवासम्भवादन्तरेवानुभव इति पूर्वपक्षे, सम्पद्य ब्रह्म प्राप्यापि स्वेन भगवतैवाविर्भावो बहिः प्राकट्यं तेषां भवति । यत उक्तश्रुत्युक्तः सर्वकामाश नरूपो भोगः स्वप्राधान्येन ब्रह्मणो विपश्चितो विविधचातुर्यवतः सहभावेन यः स बहिरेव शक्य इत्यशनवाचकादश्रुत इति शब्दादेव निर्णीयते । शक्तेश्च व्यवस्थापकता पूर्वतन्त्र एव नामधेयपादे 'अर्थाद्वा कल्पनैकदेशत्वा'दित्यधिकरणे निर्णीता । 'अञ्जलिना सक्तून् प्रदाब्ये जुहुया'दिति होमे देवताप्रसादनादाविव संयुक्तहस्तद्वयस्याञ्जलेरशक्तत्वाद्वस्तयोर्विकासने विना होमासम्भवाव्याकोश एवाञ्जलिः शक्तः । आख्यातानामर्थं ब्रुवतां शक्तेः सहकारि- त्वादिति । किञ्चोपकोशलविद्यायां 'एष देवपथो ब्रह्मपथः । एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त' इत्यत्रैमं मानवमिति पदाभ्यां संसार एवानावृत्तिरुच्यते । अन्यथैत- ७ पु. प्र. म.